अधिकरणसारावली शरीरे भावाधिकरणम्

अधिकरणसारावली शरीरे भावाधिकरणम् 3.3.57    तत्कालाकारिणस्स्यादहमिति भजने कञ्चुकस्यात्मनो धीः आसत्तेर्मामुपास्स्वेत्युदितवदिति चेन्नान्यथा सन्निकर्षात् । शुद्धो ह्यात्मात्र साध्यः फलमतिरविनाभाविनी बोद्धृकृत्ये बुद्ध्यासन्नेऽन्तरङ्गे सति विधिनियता तत्क्रतुन्यायसिद्धिः ।। 3.3.58    कर्तुर्भोक्तृत्वमात्रं गणयितुमुचितं दृष्टभोगार्थयत्ने स्वर्गाद्यर्थेऽन्यदेहानुगतिरपि परं स्वाधिकारानुविद्धा । मुक्त्यर्थे प्राप्त्यवस्थाप्रणिधिकथनतस्तत्क्रतुन्यायवाचां तद्युक्तोपास्यरूपं विषय इति कुतोऽतिप्रसङ्गादिशङ्का ।। 3.3.59    विद्याभेदेषु वेद्याकृतिविषमतया यावदुक्तेऽपि चिन्त्ये प्राप्यं सर्वोपपन्नं खलु तदिह कथं प्राप्यचिन्तानिषेधः । तस्माद्बद्धस्य चिन्तास्त्विति न […]

अधिकरणसारावली पूर्वविकल्पाधिकरणम्

अधिकरणसारावली पूर्वविकल्पाधिकरणम् 3.3.55    अङ्गं पूर्वप्रसक्तेष्टकचितसमुपस्थापितस्य क्रतोस्स्याद् बुद्ध्यात्माग्निर्मनश्चित्प्रभृतिरपि यथा मानसं द्वादशाहे । तद्वीर्यस्यातिदेशादिति न सदुदितो ह्यत्र विद्यात्मकोऽङ्गी श्रुत्याद्यैरेव तस्मिन्नुपकृतिसमताबोधनार्थोऽतिदेशः ।। 3.3.56    कल्प्यो ह्यत्र क्रियात्मा क्रतुरपि तदपि प्रागुपात्ताङ्गशक्त्या वाक्यस्थैश्चानुबन्धैरिह समुपनतो भाति विद्यामयस्तु । दूरस्थाकृष्टयोगात् स्ववचनपठिताकृष्टयोगो लघीयान् अप्राप्तेऽर्थे विधित्वं ह्यनुवदनसमेऽप्याश्रितं तद्वदत्र ।।

अधिकरणसारावली लिङ्गभूयस्त्वाधिकरणम्

अधिकरणसारावली लिङ्गभूयस्त्वाधिकरणम् 3.3.52    प्रक्रान्ता दह्रविद्या प्रकटमुपरि च ज्ञायते तैत्तिरीये तस्मादूर्ध्वानुवाकः प्रकृतिविषयनिर्धारणार्थोऽस्तु, मैवम् । तत्तद्विद्योदितैस्तैः परमिह पुरुषं प्रत्यभिज्ञाप्य शब्दैः तस्मिन्नारायणत्वं वददधिकबलं प्रक्रियातो हि वाक्यम् ॥ 3.3.53    वाक्यैस्सर्वार्थतायां दहरभजनमप्यत्र भागीति सार्थः तल्लिङ्गोपेतभागो न च बहुभिरलं योद्धुमेकं गतार्थम् । नैकस्यास्योपकुर्यात् प्रकरणमलसं किञ्च सर्वोपजीव्ये तत्त्वे तात्पर्यमत्र स्फुटमिति वितथा तत्परित्यागक्लृप्तिः ॥ 3.3.54    आत्मैक्यं देवतैक्यं त्रिकसमधिगता तुल्यतैक्यं त्रयाणाम् […]

अधिकरणसारावली प्रदानाधिकरणम्

अधिकरणसारावली प्रदानाधिकरणम् 3.3.49    कामानेतांश्च सत्यानिति वचनबलाद्धर्म्युपास्तेर्विभक्ता धर्मोपास्तिस्तदर्थं गुणिपरिगणनं तन्त्रतोऽस्त्वित्ययुक्तम् । तत्तद्वैशिष्ट्यभेदात् प्रतिविधि गुणिनश्चिन्तनावृत्तिरर्थ्या राजत्वाद्यैः पृथक्त््वाद्भवति हि हविषो दानमावृत्तमिन्द्रे ।। 3.3.50    तत्तद्भोगप्रतीतेर्गुणघटितपरोपासना भोगहेतुः मुक्तिश्च स्यात् क्रमादित्यसदगुणवचस्यान्यपर्याभिधानात् । शास्त्रेऽस्मिन्ना समाप्तेः क्व फलमभिहितं निर्गुणोपास्तिसाध्यं नोच्छास्त्रञ्च प्रकल्प्यं गुणनियमनतः ख्यातिमांश्चैष पादः ।। 3.3.51    प्रत्येकं मेलनाद्वा दहरगुणगणेऽप्यत्र सञ्चिन्त्यमाने गुण्यावृत्त्यर्थलब्धेः कथमिह तदनावृत्तिशङ्केति चेन्न । बुद्ध्यारोहे गुणानां यदवधि गुणिनो रूपमर्थ्यं […]

अधिकरणसारावली तन्निर्धारणानियमाधिकरणम्

अधिकरणसारावली तन्निर्धारणानियमाधिकरणम् 3.3.47    उद्गीथादौ क्रियाङ्गे भजनमपि भवेत्पर्णताद्युक्तनीत्या कर्माङ्गं तत्फलोक्तिस्त्विह नुतिरिति गोदोहनन्यायभग्नम् । स्वर्गादीनां फलत्वं क्रतुषु तदधिके ह्यत्र वीर्यातिरेकः पर्णत्वादौ न वाक्यं वदति करणतां कर्म चाहानुपास्तौ ।। 3.3.48    उद्गीथे प्राणदृष्टौ क्रतुघटितफलादन्यदुक्तं फलं तत् स्वीकृत्य प्राग्विचारः स्थित इति विहतः पूर्वपक्षोऽत्र मैवम् । अत्रत्येऽनङ्गभावे स्थितनिहितधियस्तत्र विद्यैक्यशङ्का त्यक्त्वाङ्गानङ्गभावौ पृथगपृथगिति स्याच्च पूर्वत्र चिन्ता ।।

अधिकरणसारावली कामाद्यधिकरणम्

अधिकरणसारावली कामाद्यधिकरणम् 3.3.44    आकाशं ताण्डिनस्तच्छयितमधिजगुर्वाजिनस्तेन विद्या भिद्येतात्रेति चेन्न द्विविध इह यतो ब्रह्मनिर्देश एषः । सर्वाधारत्वपूर्वैः परतरविषयस्सामगाकाशशब्दो विश्वेशाधारतोक्त्या सुषिरविषयतान्यत्र रूपं तु नान्यत् ।। 3.3.45    छन्दोगानामुपास्यं प्रथितमिह गुणैरष्टभिर्ब्रह्म जुष्टं तच्चान्येषां वशित्वप्रभृतिघटितमित्यस्तु रूपे तु भेदः । मैवं यत्तद्वशित्वाद्यपि तदिह भिदा सत्यसङ्कल्पतायाः इत्यैकार्थ्यं निरूढं परमपि दहरोपासनं तद्वदूह्यम् ।। 3.3.46    नन्वाकाशो गुणाद्यैः पर इति दहराधिक्रियायां पुरोक्तं तस्मान्नान्यार्थशङ्केत्यधिकरणमिदं […]

अधिकरणसारावली अन्तरत्वाधिकरणम्

अधिकरणसारावली अन्तरत्वाधिकरणम् 3.3.41    सूत्रस्वारस्यलाभात् प्रथममसुभृतः पूर्वपक्षे निवेशः सिद्धान्ते ब्रह्मणश्चेत्यधिकरणगतिस्तोकशङ्कापनुत्यै । साक्षाद्ब्रह्मेति वाक्यद्वयमवमृशतामन्यशङ्कैव न स्या- दित्यालोच्याथ भाष्ये परविषयतया पूर्वपक्षोऽप्युपात्तः ।। 3.3.42    यत्साक्षादित्यमुष्मिञ्छ्रुतिशिरसि परं ब्रह्मवैद्यं यदेवे- त्येतस्मिंश्चास्त्वथापि प्रतिवचनभिदा तत्र रूपं भिनत्ति । विद्याभित् प्रष्टृभेदोऽप्ययमिति यदि नानूद्य भूयोऽनुयोगात् पश्चादुक्तश्च दोषात्यय इह न भिदां सौति साधारणत्वात् ।। 3.3.43    सद्विद्यायां यथा हि प्रतिवचनभिदा प्रश्नभेदानुसारात् विद्यैकत्वे विशेष्यं प्रकटयति […]

अधिकरणसारावली अक्षरध्यधिकरणम्

अधिकरणसारावली अक्षरध्यधिकरणम् 3.3.38    यस्यामस्थूलतादि प्रपठितमुचितं चिन्तनं तस्य तस्यां नान्यस्यां मानहानेर्न यदि नियमनं कस्य कुत्रेति चेन्न । हेतुत्वोन्नेयदोषव्यपनयनमिह ब्रह्मविद्यासु सर्वा- स्वानन्दाधिक्रियोक्तक्रमनियमितमित्यस्य सार्वत्रिकत्वात् ।। 3.3.39    सत्यत्वाद्यैस्स्वरूपावगतिरभिहिता सर्वविद्यानुवृत्त्या भूयस्तत्तुल्यधर्मेष्वधिकरणमिदं स्याद् वृथैवेति चेन्न । कैश्चिज्ज्ञातस्वरूपे क्वचिदितरगतं किञ्चिदन्यन्निषेध्यं व्यावृत्त्या न स्वरूपावगतिरत इति प्रेक्षणस्यापि रोधात् ।। 3.3.40    व्यावर्त्यानन्त्यतस्तद्व्युदसनमपि हि स्यादनन्तं ततस्त- च्चिन्ता किञ्चिज्ज्ञसाध्या जलधितरणवन्नोपदिश्येत मैवम् । तत्तत्सामान्यधर्मानुहतिकबलिताशेषभेदोपदेशे तादृक्विन्तोपपत्तेरनवममिति […]

अधिकरणसारावली अनियमाधिकरणम्

अधिकरणसारावली अनियमाधिकरणम् 3.3.35    पन्थास्स्यादर्चिरादिः फलमिह सकलब्रह्मविद्यासु मा वा प्रारभ्याधीतियोगात् प्रकरणनियता तस्य चिन्तेति चेन्न । सर्वासां तद्य इत्थं विदुरिति वचसात्राथ येचेति चोक्त्या मार्गे साधारणेऽस्मिंन्स्तदनुसरणतस्तद्वदेवास्य चिन्ता ।। 3.3.36    हेयोपादेयमार्गद्वितयमुपदिशन् मुक्तिदाता मुमुक्षोः योगी यः कश्चनैतत्सरणियुगलविन्मुह्यते नेत्यगायत् । तस्मादस्मादृशाधीत्यविशदविशदीकर्तृवाक्यावमर्शात् ब्रह्मप्राप्त्यर्हकृत्स्नप्रणिहितविहितं मार्गचिन्ताविधानम् ।। 3.3.37    हानादेरर्चिरादेरपि किमभिहितं चिन्तनं सूत्रकारैः विद्याङ्गत्वादिसिद्ध्यै यदि भवतु तदानन्तरे पाद एतत् । मैवं विद्याङ्गतायामपि […]

अधिकरणसारावली साम्परायाधिकरणम्

अधिकरणसारावली साम्परायाधिकरणम् 3.3.33    कर्मोद्धूतिर्मुमुक्षोः क्वचिदुपनिषदि श्रूयते साम्पराये मार्गेऽन्यस्यां द्विधैवं शकलश इह तच्चिन्तनञ्चास्तु मा भूत् । नह्युक्तं कर्मसाध्यं पथि फलमथ गत्यर्थदेहानुवृत्तिं मुक्त्यै विद्यैव कुर्यादघहतिवचने पाठतोऽर्थो बलीयान् ।। 3.3.34    निश्शेषं कर्म नश्येदिह यदि विदुषस्स्थूलदेहान्तमात्रे विश्राम्येत् तस्य तावच्चिरमिति हि वचो नार्थँवत्त्वं गतेस्स्यात् । गत्वा सम्पद्य चाविर्भवनमिति न संबोभवीतीत्ययुक्तं स्याद्धीसङ्कोचमात्रस्थितिकृदनुगतस्सूक्ष्मसंस्कारयोगः ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.