अधिकरणसारावली हान्यधिकरणम्

अधिकरणसारावली हान्यधिकरणम् 3.3.30    शाखे द्वे मुक्तिभाजः क्वचन कथयतः पुण्यपापप्रहाणं ब्रूतेऽन्या तत्प्रवेशं प्रियतदितरयोर्दायसंक्रान्तिकाले । हानञ्चोपायनञ्च क्वचिदिति पृथगाम्नातसंपर्कसिद्धिः वाक्यं शाखान्तरस्थं भवति हि विहिताकाङ्क्षया वाक्यशेषम् ।। 3.3.31    इत्थं ब्रह्मज्ञकर्मत्यजनमितरसंक्रान्तिसम्पृक्तमस्तु स्याच्चिन्तायां व्यवस्था पृथगनुपठनादित्यसत् क्लृप्तिदौस्स्थ्यात् । सर्वेषां मुक्तिभाजां द्वितयमपि यथोपास्ति साध्यं समानं तच्चिन्तासौ तथा तन्महिमविद इति स्थापनीयोभयत्र ।। 3.3.32    कर्त्रा तेनैव भोग्यं शुभमितरदपि स्थापितं कर्मकाण्डे तस्माद् ब्रह्मज्ञकर्म […]

अधिकरणसारावली वेधाद्यधिकरणम्

अधिकरणसारावली वेधाद्यधिकरणम् 3.3.29    युज्येरन् ब्रह्मविद्यापरिसरपठिताश्शन्न इत्य़ादिमन्त्राः तादर्थ्यात् सर्वविद्यास्विति न तदुदिताधीतिशेषत्वलिङ्गात् । नो चेदन्येऽपि तद्वत् सविधपठनतस्सन्तु शुक्रं प्रविध्ये- त्येवम्प्रायास्तदर्था न च घटत इदं लिङ्गतो दुर्बलत्वात् ।।

अधिकरणसारावली पुरुषविद्याधिकरणम्

अधिकरणसारावली पुरुषविद्याधिकरणम् 3.3.26    आख्याद्यैक्यादभेदः पुरुषविषययोर्विद्ययोरित्ययुक्तं यज्ञाद्याकारक्लृप्तेरिह विषमतया रूपभेदप्रसिद्धेः । तादर्थ्यात् तैत्तिरीये परभजनफलं मुक्तिरत्राप्यनूक्ता छान्दोग्ये पूर्णमायुः फलमिति तु तयोर्भाति संयोगभेदः ।। 3.3.27    स्पष्टे रूपादिभेदे हठसमुपनतो नामसाम्यादिमात्रात् पुंविद्यापूर्वपक्षो मृदुरिति विफलाऽधिक्रियैषेति चेन्न । अन्यैव न्यासविद्या प्रकरणपठिता तद्विधानप्रधाने- त्यस्वातन्त्र्यादिसिद्ध्यै विभजनमनयोरित्यतीवार्थवत्त्वात् ।। 3.3.28    यद्येवं यज्ञदृष्टिः परविदि पुरुषे चोद्यते सानुबन्धे यज्ञस्यानङ्गभूतं कथमिह विविधं कल्प्यते तत्रतत्र । तस्मात् प्रक्रान्तविद्यास्तुतिरियमुचितेत्याहुरेकेऽन्यथाऽन्ये […]

अधिकरणसारावली संभृत्यधिकरणम्

अधिकरणसारावली संभृत्यधिकरणम् 3.3.25    सम्भृत्यादिर्गुणौघः प्रकरणपठनाभावतस्सर्वविद्या- स्वन्वीयेतेति चेन्न क्वचिदगतिकतो लिङ्गतस्स्थापितत्वात् । अल्पस्थानासु विद्यास्वघटितवपुषस्स्वोचितस्थानवृत्तेः द्युव्याप्तेरेकमन्त्रे सहपठनवशात् तत्समस्थानिनोऽन्ये ।।

अधिकरणसारावली सम्बन्धाधिकरणम्

अधिकरणसारावली सम्बन्धाधिकरणम् 3.3.24   अक्ष्यादित्योपलक्ष्ये भगवति भजनं चोदनादेरभेदात् एकं स्यात् तेन नाम्नोरनियतिरिति न स्थानतो रूपभेदात् । स्थानं तत्स्थत्वबुद्ध्यै ह्युपदिशति न चेत् स्यान्न रूपातिदेशः तस्मादर्काक्षिय़ोगादहरहमिति तन्नामनी स्थापनीये ।।

अधिकरणसारावली समानाधिकरणम्

अधिकरणसारावली समानाधिकरणम् 3.3.21    शाखैक्येऽध्येतृभेदो न भवति न गुणः कश्चिदन्यो विधेयः तस्मादुक्ताविशेषश्रवणमिह पुनः किं न विद्यां विभिन्द्यात् । मैवं यद्यप्यनूक्तिर्नतु गुणविधये कल्पतेऽस्यास्तथापि व्यक्त्यै सौकर्यतश्च व्यसनसमसनन्यायतस्त्वैक्यसिद्धेः ।। 3.3.22    छन्दोगैर्वाजिभिश्च स्फुटमनुपठिता भाति शाण्डिल्यविद्या भेदाभेदावमर्शस्त्विह किमिति न सन्दर्शितो भाष्यकारैः । तद्ब्रूमो यत्रयत्राधिकपरिपठनं तत्रतत्राधिकानां अन्तर्भावादियुक्तावधिकमनधिकं वेति साधारणोक्तेः ।। 3.3.23    स्थानद्वन्द्वे वशित्वप्रभृतिविरहिता वाजिभिस्तद्युता चा- धीता शाण्डिल्यविद्या तदिह भिदुरता […]

अधिकरणसारावली कार्याख्यानाधिकरणम्

अधिकरणसारावली कार्याख्यानाधिकरणम् 3.3.19    आचामेदित्यपूर्वाचमनमिह विधेः प्राणविद्यावतस्स्यात् मैवं स्मृत्यादिसिद्धेः परमनुविहिता प्राणवासस्त्वदृष्टिः । भुञ्जीतेत्यादिनीत्या विधिरपि घटते प्राप्तधात्वर्थनिष्ठः प्रागुक्ता प्राणविद्या तदिदमवसरे चिन्तितं त्वङ्गमस्याः ।। 3.3.20    आदावन्ते च वासः परिधिरभिहितो मन्यतिश्चात्र दृष्ट्यै सा चाराध्यप्रियार्था स्तुतिरिह न भवेद्गत्यलाभाभिनन्द्या । युक्तश्चापूर्वभावात् परिदधतिगिरा तद्विधानाभिसन्धिः प्राणश्चाराधनीयः परिहितवसनो युज्यते सद्भिरद्भिः ।।

अधिकरणसारावली आनन्दाद्यधिकरणम्

अधिकरणसारावली आनन्दाद्यधिकरणम् 3.3.14    नानाशब्दादिभेदादिति खलु भिदुरां वक्ष्यति ब्रह्मविद्यां रूपं विद्यान्तरस्य प्रकरणपठितं नान्यदन्यत्र योज्यम् । तस्मात् सत्यत्वपूर्वास्तदितरगुणवत् स्युर्व्यवस्थापनीयाः मैवं ब्रह्मस्वरूपावगतिरिह यतस्तद्धि सर्वास्वपेक्ष्यम् ।। 3.3.15    सत्यत्वं विश्वहेतौ बहुविधचिदचिद्विक्रियाजालहानेः ज्ञानत्वं ज्ञातृभावात् स्वरबहुलतया स्वप्रकाशत्वतश्च । त्रिद्व्येकाभिस्तु सर्वं प्रमितमिह परिच्छित्तिभिर्ब्रह्मणोऽन्यत् तस्यानन्त्यं वियोगात् तिसृभिरपि सदा निर्मलानन्दधाम्नः ।। 3.3.16    उक्तं जन्मादिसूत्रे ननु निखिलजगद्धेतुता ब्रह्मलक्ष्म स्यात्तेनैव स्वरूपावगतिरिह मुधा सत्यतादीति चेन्न […]

अधिकरणसारावली सर्वाभेदाधिकरणम्

अधिकरणसारावली सर्वाभेदाधिकरणम् 3.3.13    ज्यैष्ठ्यश्रैष्ठ्यादिसाम्ये क्वचन समधिकं भाति वासिष्ठ्यपूर्वं तेनेत्थं रूपभेदाद्बहुनिगमगता भिद्यतां प्राणविद्या । मैवं वागादितत्तद्गुणपरवशतावर्णनस्याविशेषात् वागाद्यैस्स्वस्वधर्मोपचरणमकृतं तावता स्यान्न भेदः ।।

अधिकरणसारावली अन्यथात्वाधिकरणम्

अधिकरणसारावली अन्यथात्वाधिकरणम् 3.3.9      प्राग्वच्छाखाविभेदेऽप्युपशमितभिदा तादृगुद्गीथविद्या स्यादेका चोदनाद्यैस्तदसदुभयथा रूपभेदोपलब्धेः । गाता गेयश्च गेये सकलमसकल़ञ्चेति वैषम्यसिद्धौ शेषाभेदोऽप्यभेदं न गमयति भिदा त्वेकभेदेऽपि सिध्येत् ।। 3.3.10    छन्दोगोद्गीथशब्दस्तदवयवपरः प्रक्रमादिप्रसिद्धेः कृत्स््नोद्गीथाभिधायी प्रकरणनियमाभावतो वाजिनां स्यात् । उद््गीथोक्तिश्च नैषामुपचरितवती गातरि प्रक्रमस्था तत्कर्त्रा साधनीये द्विषदुपशमने तत्फलत्वोक्त्यबाधात् ।। 3.3.11    यद्यप्यब्रह्मविद्या परपरिभवनाद्यैहिकार्थप्रयुक्ता न ग्राह्या मोक्षशास्त्रे तदपि समतया तत्परीक्षेति केचित् । काम्या विद्याप्यनिष्टव्यपनयनमुखैर्ब्रह्मविद्योपयुक्तैः […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.