अधिकरणसारावली हान्यधिकरणम्
अधिकरणसारावली हान्यधिकरणम् 3.3.30 शाखे द्वे मुक्तिभाजः क्वचन कथयतः पुण्यपापप्रहाणं ब्रूतेऽन्या तत्प्रवेशं प्रियतदितरयोर्दायसंक्रान्तिकाले । हानञ्चोपायनञ्च क्वचिदिति पृथगाम्नातसंपर्कसिद्धिः वाक्यं शाखान्तरस्थं भवति हि विहिताकाङ्क्षया वाक्यशेषम् ।। 3.3.31 इत्थं ब्रह्मज्ञकर्मत्यजनमितरसंक्रान्तिसम्पृक्तमस्तु स्याच्चिन्तायां व्यवस्था पृथगनुपठनादित्यसत् क्लृप्तिदौस्स्थ्यात् । सर्वेषां मुक्तिभाजां द्वितयमपि यथोपास्ति साध्यं समानं तच्चिन्तासौ तथा तन्महिमविद इति स्थापनीयोभयत्र ।। 3.3.32 कर्त्रा तेनैव भोग्यं शुभमितरदपि स्थापितं कर्मकाण्डे तस्माद् ब्रह्मज्ञकर्म […]
अधिकरणसारावली वेधाद्यधिकरणम्
अधिकरणसारावली वेधाद्यधिकरणम् 3.3.29 युज्येरन् ब्रह्मविद्यापरिसरपठिताश्शन्न इत्य़ादिमन्त्राः तादर्थ्यात् सर्वविद्यास्विति न तदुदिताधीतिशेषत्वलिङ्गात् । नो चेदन्येऽपि तद्वत् सविधपठनतस्सन्तु शुक्रं प्रविध्ये- त्येवम्प्रायास्तदर्था न च घटत इदं लिङ्गतो दुर्बलत्वात् ।।
अधिकरणसारावली पुरुषविद्याधिकरणम्
अधिकरणसारावली पुरुषविद्याधिकरणम् 3.3.26 आख्याद्यैक्यादभेदः पुरुषविषययोर्विद्ययोरित्ययुक्तं यज्ञाद्याकारक्लृप्तेरिह विषमतया रूपभेदप्रसिद्धेः । तादर्थ्यात् तैत्तिरीये परभजनफलं मुक्तिरत्राप्यनूक्ता छान्दोग्ये पूर्णमायुः फलमिति तु तयोर्भाति संयोगभेदः ।। 3.3.27 स्पष्टे रूपादिभेदे हठसमुपनतो नामसाम्यादिमात्रात् पुंविद्यापूर्वपक्षो मृदुरिति विफलाऽधिक्रियैषेति चेन्न । अन्यैव न्यासविद्या प्रकरणपठिता तद्विधानप्रधाने- त्यस्वातन्त्र्यादिसिद्ध्यै विभजनमनयोरित्यतीवार्थवत्त्वात् ।। 3.3.28 यद्येवं यज्ञदृष्टिः परविदि पुरुषे चोद्यते सानुबन्धे यज्ञस्यानङ्गभूतं कथमिह विविधं कल्प्यते तत्रतत्र । तस्मात् प्रक्रान्तविद्यास्तुतिरियमुचितेत्याहुरेकेऽन्यथाऽन्ये […]
अधिकरणसारावली संभृत्यधिकरणम्
अधिकरणसारावली संभृत्यधिकरणम् 3.3.25 सम्भृत्यादिर्गुणौघः प्रकरणपठनाभावतस्सर्वविद्या- स्वन्वीयेतेति चेन्न क्वचिदगतिकतो लिङ्गतस्स्थापितत्वात् । अल्पस्थानासु विद्यास्वघटितवपुषस्स्वोचितस्थानवृत्तेः द्युव्याप्तेरेकमन्त्रे सहपठनवशात् तत्समस्थानिनोऽन्ये ।।
अधिकरणसारावली सम्बन्धाधिकरणम्
अधिकरणसारावली सम्बन्धाधिकरणम् 3.3.24 अक्ष्यादित्योपलक्ष्ये भगवति भजनं चोदनादेरभेदात् एकं स्यात् तेन नाम्नोरनियतिरिति न स्थानतो रूपभेदात् । स्थानं तत्स्थत्वबुद्ध्यै ह्युपदिशति न चेत् स्यान्न रूपातिदेशः तस्मादर्काक्षिय़ोगादहरहमिति तन्नामनी स्थापनीये ।।
अधिकरणसारावली समानाधिकरणम्
अधिकरणसारावली समानाधिकरणम् 3.3.21 शाखैक्येऽध्येतृभेदो न भवति न गुणः कश्चिदन्यो विधेयः तस्मादुक्ताविशेषश्रवणमिह पुनः किं न विद्यां विभिन्द्यात् । मैवं यद्यप्यनूक्तिर्नतु गुणविधये कल्पतेऽस्यास्तथापि व्यक्त्यै सौकर्यतश्च व्यसनसमसनन्यायतस्त्वैक्यसिद्धेः ।। 3.3.22 छन्दोगैर्वाजिभिश्च स्फुटमनुपठिता भाति शाण्डिल्यविद्या भेदाभेदावमर्शस्त्विह किमिति न सन्दर्शितो भाष्यकारैः । तद्ब्रूमो यत्रयत्राधिकपरिपठनं तत्रतत्राधिकानां अन्तर्भावादियुक्तावधिकमनधिकं वेति साधारणोक्तेः ।। 3.3.23 स्थानद्वन्द्वे वशित्वप्रभृतिविरहिता वाजिभिस्तद्युता चा- धीता शाण्डिल्यविद्या तदिह भिदुरता […]
अधिकरणसारावली कार्याख्यानाधिकरणम्
अधिकरणसारावली कार्याख्यानाधिकरणम् 3.3.19 आचामेदित्यपूर्वाचमनमिह विधेः प्राणविद्यावतस्स्यात् मैवं स्मृत्यादिसिद्धेः परमनुविहिता प्राणवासस्त्वदृष्टिः । भुञ्जीतेत्यादिनीत्या विधिरपि घटते प्राप्तधात्वर्थनिष्ठः प्रागुक्ता प्राणविद्या तदिदमवसरे चिन्तितं त्वङ्गमस्याः ।। 3.3.20 आदावन्ते च वासः परिधिरभिहितो मन्यतिश्चात्र दृष्ट्यै सा चाराध्यप्रियार्था स्तुतिरिह न भवेद्गत्यलाभाभिनन्द्या । युक्तश्चापूर्वभावात् परिदधतिगिरा तद्विधानाभिसन्धिः प्राणश्चाराधनीयः परिहितवसनो युज्यते सद्भिरद्भिः ।।
अधिकरणसारावली आनन्दाद्यधिकरणम्
अधिकरणसारावली आनन्दाद्यधिकरणम् 3.3.14 नानाशब्दादिभेदादिति खलु भिदुरां वक्ष्यति ब्रह्मविद्यां रूपं विद्यान्तरस्य प्रकरणपठितं नान्यदन्यत्र योज्यम् । तस्मात् सत्यत्वपूर्वास्तदितरगुणवत् स्युर्व्यवस्थापनीयाः मैवं ब्रह्मस्वरूपावगतिरिह यतस्तद्धि सर्वास्वपेक्ष्यम् ।। 3.3.15 सत्यत्वं विश्वहेतौ बहुविधचिदचिद्विक्रियाजालहानेः ज्ञानत्वं ज्ञातृभावात् स्वरबहुलतया स्वप्रकाशत्वतश्च । त्रिद्व्येकाभिस्तु सर्वं प्रमितमिह परिच्छित्तिभिर्ब्रह्मणोऽन्यत् तस्यानन्त्यं वियोगात् तिसृभिरपि सदा निर्मलानन्दधाम्नः ।। 3.3.16 उक्तं जन्मादिसूत्रे ननु निखिलजगद्धेतुता ब्रह्मलक्ष्म स्यात्तेनैव स्वरूपावगतिरिह मुधा सत्यतादीति चेन्न […]
अधिकरणसारावली सर्वाभेदाधिकरणम्
अधिकरणसारावली सर्वाभेदाधिकरणम् 3.3.13 ज्यैष्ठ्यश्रैष्ठ्यादिसाम्ये क्वचन समधिकं भाति वासिष्ठ्यपूर्वं तेनेत्थं रूपभेदाद्बहुनिगमगता भिद्यतां प्राणविद्या । मैवं वागादितत्तद्गुणपरवशतावर्णनस्याविशेषात् वागाद्यैस्स्वस्वधर्मोपचरणमकृतं तावता स्यान्न भेदः ।।
अधिकरणसारावली अन्यथात्वाधिकरणम्
अधिकरणसारावली अन्यथात्वाधिकरणम् 3.3.9 प्राग्वच्छाखाविभेदेऽप्युपशमितभिदा तादृगुद्गीथविद्या स्यादेका चोदनाद्यैस्तदसदुभयथा रूपभेदोपलब्धेः । गाता गेयश्च गेये सकलमसकल़ञ्चेति वैषम्यसिद्धौ शेषाभेदोऽप्यभेदं न गमयति भिदा त्वेकभेदेऽपि सिध्येत् ।। 3.3.10 छन्दोगोद्गीथशब्दस्तदवयवपरः प्रक्रमादिप्रसिद्धेः कृत्स््नोद्गीथाभिधायी प्रकरणनियमाभावतो वाजिनां स्यात् । उद््गीथोक्तिश्च नैषामुपचरितवती गातरि प्रक्रमस्था तत्कर्त्रा साधनीये द्विषदुपशमने तत्फलत्वोक्त्यबाधात् ।। 3.3.11 यद्यप्यब्रह्मविद्या परपरिभवनाद्यैहिकार्थप्रयुक्ता न ग्राह्या मोक्षशास्त्रे तदपि समतया तत्परीक्षेति केचित् । काम्या विद्याप्यनिष्टव्यपनयनमुखैर्ब्रह्मविद्योपयुक्तैः […]