अधिकरणसारावली सर्ववेदान्तप्रत्ययाधिकरणम्
अधिकरणसारावली सर्ववेदान्तप्रत्ययाधिकरणम् 3.3.6 भेदश्शब्दान्तराद्यैर्विधिषु नियमितः कर्मकाण्डे द्वितीये संयोगाद्यैक्यतोऽन्यस्समुदितनियतात् सैव विद्यासु नीतिः । आदौ तेनैव शाखान्तरनयमुदितं चोदनादेरभेदात् श्रुत्यैवाक्षिप्य भूयः प्रतिसमधित तं भेदकान्यार्थतोक्त्या ।। 3.3.7 शाखासु प्रक्रियान्या श्रवणमपि पुनर्दृष्टमत्राविशेषं विद्याभेदस्ततस्स्यादिति न तदुभयं युक्तमध्येतृभेदात् । तेषामेवेति वाक्यात् क्वचिदुपजनिता भेदशङ्का त्वयुक्ता स्वाध्याये ब्रह्मविद्यापदमिह हि भवेत्तद्व्रतेनान्वयोक्तेः ।। 3.3.8 रूपैक्यादैक्यसिद्धौ किमितरदुपसंहार्यमन्यो गुणश्चेत् भेदो न स्याद्विकल्पं […]
अधिकरणसारावली उपोद्घातम्
अधिकरणसारावली अथ तृतीयाध्याये तृतीय: पाद: उपोद्घातम् 3.3.1 तत्त्वज्ञानानुविद्धं हिततममनघं मोक्ष्यमाणस्य वक्तुं तत्त्वे निर्धूततर्कज्वरनियतमहासन्निपातप्रलापान् । निष्पन्ने तत्त्वबोधे न किमपि विदुषा साध्यमित्युद््गृणद्भ्यो यावज्जीवानुवर्त्यं मुररिपुभजनं मुक्तिलाभाय वक्ति ।। 3.3.2 भीष्माभ्यो यातनाभ्यः पितृपथगमनावर्तनादेश्च बिभ्यत् तृष्णां कृष्णामृताब्धौ परिणयति परां यावता तावदुक्तम् । इत्थं लब्धाधिकारः परमधिकुरुते साधने यत्र साङ्गे पादद्वन्द्वे परस्मिन्तदिह बहुभिदाबर्बरं निर्ब्रवीति ।। 3.3.3 […]
अधिकरणसारावली फलाधिकरणम्
अधिकरणसारावली फलाधिकरणम् 3.2.27 आराध्यः कर्मकाण्डस्थितनयनिवहस्थापितानां क्रियाणां अध्यक्षो देवतानामनुपधिमहिमा मध्यकाण्योदितानाम्। अत्राप्येतावतोक्ते भवभयचकिताप्राप्त्युपाल्त्येकलक्ष्यः तत्तच्छास्रार्थयोग्यं दिशति फलमिति स्थाप्यतेऽथात्युदारः।। 3.2.28 कृष्यादेर्मर्दनादेरपि भवति फलं द्वारतो वान्यथा वा धर्माणां साधनत्वं श्रुतिभिरवगतं दोषबाधोज्झिताभिः। तस्मादीशप्रसादात्फलमिति तु वचस्तत्प्रशंसेति चेन्न श्रौताराध्यप्रसादत्यजनकनतोऽपूरवक्लृप्तेरयोगात्।। 3.2.29 यद्यप्याराध्यमूलं फलमपि फलितं देवताधिक्रियायां कर्मापेक्षा तथोक्ता फलजननपरप्रेरणादौ तथापि। साक्षित्वानादरत्वप्रभृतिपरगुणान् प्रेक्ष्य तत्प्रीणनादौ शङ्कातङ्कैर्निरुद्धंस्तवरयितुमधुना तादृशोदारतोक्तिः।। 3.2.30 सम्राजस्सानुकम्पातपितुरुचितविदस्साम्यभाजो वदान्यात् स्थाने विन्दन्ति पुत्रा […]
अधिकरणसारावली पराधिकरणम्
अधिकरणसारावली पराधिकरणम् 3.2.24 सेतुं तीर्त्वेत्धीतेः परिमितिवचनात् प्राप्यसम्बन्धितोक्ते- रन्याधिक्यश्रुतेरप्यतिवहननयात्कारणं प्रापकं स्यात्। प्राप्यं त्वन्यद्भवेदित्यसदनवधिके कारणे प्राप्यतोक्तेः सेतुत्वाद्युक्तिरस्मिन् बहुभिरविहतां वृत्तिमङ्गीकरोतु।। 3.2.25 सेतुत्वं सेतुतुल्याद्विधरणनियमाद्बन्धनाद्वात्र युक्तं व्याप्तेऽप्यस्मिन्नुपाधेः परिमितिवचनं सार्थकं सूत्रितं प्राक्। चातुष्पद्य ञ्च तत्तन्मतिसमनुगुणं कल्प्यतेऽनन्तभूम्नः ल्वस्येत्येवामृतस्येत्यभिहितमथवा मुक्तिरेवामृतं स्यात्।। 3.2.26 अन्यस्याधिक्यवादे परमवधितया कारणं यत्र दृष्टं तत्र ह्यव्याकृतादिस्तदवधिरितरपेक्षयासौ परश्च। यस्मादन्यत्परं नेत्यभिहितविषये तत्परोक्तेरयुक्तेः एवन्त्वादित्यनूक्तिस्तत इति यदिवा व्याप्ययुक्तं तदस्तु।।
अधिकरणसारावली अहिकुण्डलाधिकरणम्
अधिकरणसारावली अहिकुण्डलाधिकरणम् 3.2.22 विश्वस्रष्टुस्स्वदुः खप्रजननमिह न स्वांशतोऽचित्त्वक्लृप्तौ मृत्तत्कार्यादिकञ्च स्वरसमिह बहूदाहृतं सप्रतिज्ञम्। तस्मादव्याकृतादिर्विहरणनियता विक्रयैवेति चेन्न स्वांशे मौढ्यं वितन्वन्विहरति भगवानित्यनर्थानपोहात्।। 3.2.23 कश्चिन्नित्योऽचिदंशो विविधविकृतिमान् ब्रह्मणीत्याहुरेके फेनादिन्यायतोऽन्ये सति विकृतिवशाद् ज्ञाज्ञसर्वज्ञभागान्। चन्द्रज्योत्स्नादिनीत्या कतिचिदिह जगद्ब्रह्मणोरैकजात्यं सर्वे ते सर्ववेदस्वरसगतिहतेरत्र वित्रासनीयाः।।
अधिकरणसारावली उभयलिङ्गाधिकरणम्
अधिकरणसारावली उभयलिङ्गाधिकरणम् 3.2.16 नैर्गुण्यं निर्गुणोक्तेर्गुणवचन मिहाविद्यघर्मार्थवादो नैर्दोष्यं वस्तुवृत्त्या तदितरदखिलं स्वाप्नभोगादितुल्यम्। इत्थं जीवेशभूमापहरणकुहनावादमोमुह्यमानान् क्षेप्तुं नस्थानतोऽपीत्यधिकरणमथारभ्यतेऽनेकश्रृङ्गम्।। 3.2.17 हेयं वस्तु स्वतो यत् स्थितिरिह हि भवेद् दुःखकृत्स्वेच्छयापि त्याज्यत्वं नान्यथा स्यादिति न निरुपधेर्हेयभावस्य हानेः। नित्यस्वातन्त्र्यभाजो भविन इव दशाभेदतो नाप्यवद्यं श्रुत्यैवैकत्र देहे परतदितरयोश्शुद्ध्यशुद्धी ह्यधीते।। 3.2.18 ब्रह्मक्षत्रादिदेहेष्वणुरिव विभुरप्यात्मभावेन तिष्टन् तत्तच्छब्दाभिलप्यस्तदिह स न कथं तत्तदादेशवश्यः। मैवं न ज्ञाप्यतेऽसावविदितविरहाच्छासितृत्वान्न शास्यः किञ्चिज्ज्ञो […]
अधिकरणसारावली मुग्धाधिकरणम्
अधिकरणसारावली मुग्धाधिकरणम् 3.2.14 जाग्रत्स्वप्नौ न बाह्यावगमविरहितौ श्वासपूर्णा सुषुप्तिः तस्मान्मुग्धिरमृतिस्स्यात् प्रशमितकरणप्राणवर्गेति चेन्न। मृत्यादेरहेतुभेदात्स्थितिमृतिविशयादुत्थितेरानियत्यात् मर्तुं प्रक्रम्य मध्ये विरमति विधिनेत्यत्र तुर्यार्धभावः।। 3.2.15 जन्तूनां जागरादिस्थितिषु भवति यद्वैशसं दर्शितं तत् तत्तत्स्थानेषु योगेऽप्यनघशुभगुणं ब्रह्म संशोध्यतेऽत्र। संसर्गैक्यादिना परिहरति ततो दोषवर्गानुभाभ्यां हीनत्वौदार्यहानी परमपनयते नीतियुग्मेन नेतुः।।
अधिकरणसारावली कर्मानुस्मृतिशब्दविध्यधिकरणम्
अधिकरणसारावली कर्मानुस्मृतिशब्दविध्यधिकरणम् 3.2.12 मुक्तिर्ब्रह्मण्यपीतिरजहदसुखगणा तादृशीयं सुषुप्तिः श्रुत्यैव ख्याप्यतेऽतस्तदनु तनुभृदुद्बुध्यमानस्ततोऽन्यः। मैवं कर्मानुवृत्तेस्स्मरणनियमतः पूर्वएवेतिशब्दात् मोक्षोपायादिशिष्टेस्स्वपदनुवदनात् प्राच्य एव प्रबुद्धः।। 3.2.13 जीवानादित्वमूचे दृषदनुकरणं क्षेप्स्यते चापवर्गे स्वर्गाद्यर्थेप्रवृत्तिश्श्रुतिनयविदिता सौगताद्याश्च भग्नाः। कल्पान्तेऽप्येकतोक्तेर्नियमितविषया नामरूपग्रहाणात् भूयश्चिन्ता सुषुप्तेः प्रलयसमदशासञ्जिहासादिसिद्ध्यै।।
अधिकरणसारावली तदभावाधिकरणम्
अधिकरणसारावली तदभावाधिकरणम् 3.2.11 स्थानं जन्तोस्सुषुप्तौ श्रुतिरनियमतो वक्ति नाड्यः पुरीतद् हार्दं ब्रह्मेति तस्मादिह भवतु मिथो नैरपेक्ष्याद्विकल्पः। तन्न प्रासादखट्वाशयनवदुपकृत्यन्तरैर्योजितानां पक्षेपक्षे विकल्पः क्रमघटितचतुर्दोषयुक्तो न युक्तः।।
अधिकरणसारावली सन्ध्याधिकरणम्
अधिकरणसारावली तृतीयाध्यायस्य द्वितीयः पादः सन्ध्याधिकरणम् 3.2.1 ब्रह्मैव स्वैस्स्वभावैर्बहुमुखमवदत् प्राक्तनाध्याययुग्मे तस्येहाकृष्य चिन्ता किमिति पुनरसौ साधनाध्यायमध्ये। मैवं विद्याः प्रभेत्तुं विशदयति परं तद्धि तद्रूपभेदात् सिद्धोपायादिभावं प्रथयति च विभोः प्राप्यतृष्णाप्रथिम्ने।। 3.2.2 नैर्गुण्यं ब्रह्मणश्चेद्वितथ इह गुणैरब्रह्मविद्याविभागः सोऽस्त्वेतैः कल्पितैश्चेच्छ्रुमतविहतिर्नात्र दृष्टिक्रमोऽपि। निर्दोषत्वच्च नित्यं यदि वदसि मुधा दोषशान्त्यर्थयत्नः कल्प्यं चेद् दुष्टता स्यात् प्रकृतिरिति परक्षिप्तये चैष पादः।। 3.2.3 […]