अधिकरणसारावली मनोधिकरणम्
अधिकरणसारावली मनोधिकरणम् 4.2.7 अन्नस्योक्तं विकारो मन इति मनसः प्राणसम्पत्तिवाक्ये प्राणस्याम्भोमयत्वात् प्रकृतिविकृतितासम्भवात्तल्लयोऽस्तु। मैवं तत्तन्मयत्वश्रुतिरभिमनुते तत्तदाप्यायनं तैः प्राग्वत्संश्लेषमात्रं तत इह हि मनः प्राण इत्यामनन्ति।।
अधिकरणसारावली वागधिकरणम्
अधिकरणसारावली ॥ अथ चतुर्थाध्याये द्वितीय: पाद: ॥ वागधिकरणम् 4.2.1 नित्यत्वज्ञत्वपूर्वैर्निपुणमभिहितं जीवतत्त्वं द्वितीये जागर्यादौ च खेदो जगदटविमहाजाङ्घिकस्याथ गीतः। विद्यारम्भावसानावधि यदपि परं ध्यातुरर्थ्यं तदुक्तं प्रारब्धस्यावसाने वपुरिह जहतो गत्युपक्रान्तिमाह।। 4.2.2 वर्ण्यो वैराग्यपादे तनुकरणगणक्षोभ ईदृक् तथापि ब्रह्मज्ञस्यापि काले भवति मृतिरिति ज्ञप्तयेऽत्रानुबन्धः। तस्योत्क्रान्तौ विशेषं कथयितुमुचिता चात्र साधारणोक्तिः मध्ये विद्याफलानां मरणमपि वदंस्तत्प्रियं चिन्त्यमाह।। 4.2.3 वृत्तिर्वागादिकं […]
अधिकरणसारावली इतरक्षपणाधिकरणम्
अधिकरणसारावली इतरक्षपणाधिकरणम् 4.1.40 निर्दिष्टास्माच्छरीरादिति नियतिरतो यावदित्यादिशब्दः कर्म प्रारब्धकार्यं कथयति विदुषस्तच्छरीरान्तमेव। मैवं प्रारब्धचैत्र्यान्न तदवधिविधौ व्याप्रियेतान्यपर्याद् भूयोदेहस्मृतेश्चान्तिमवपुषि दृढोद्यत्समाधेस्तु मोक्षः।। 4.1.41 नन्वत्रास्मादितीदं वितथमिह पदं स्याच्छरीरे न तु स्यात् कारागारौपमित्यप्रथनपरतया तस्य साफल्यसिद्धेः। त्याज्यत्वव्यक्तये हि प्रभुरसुखमिमं लोकमित्यप्यगायद् भूतावासं विशिंषन्निममिति च मनुर्हेयभावं व्यनक्ति।। 4.1.42 सर्वे जीवास्समानास्स्वत इह विविधं कर्म चानादितुल्यं वैषम्यादिश्च दोषो न भवति भगवत्यन्यथा शास्त्रभङ्गः। मुक्तौ नातो […]
अधिकरणसारावली अग्निहोत्राद्यधिकरणम्
अधिकरणसारावली अग्निहोत्राद्यधिकरणम् 4.1.38 श्लेषश्चेदस्य पुण्यैस्स तु भवति तदा बन्ध इत्यभ्युपेत्यं यद्यश्लेषो भवेत्तैः परविदि विफला पुण्यनिष्ठा परस्तात् । तस्माद्धर्मोऽप्यधर्मक्रमत इह परित्याज्य एवेत्ययुक्तं न स्याद्बन्धाय विद्याङ्कुरमुपचिनुते ह्यग्निहोत्रादिधर्मः।। 4.1.39 सर्वापेक्षेत्यवोचन्ननु परभजने कर्मणामङ्गभावं भूयो वक्त्यग्निहोत्रेत्यपि तदिति मुधा ह्येकमत्रेति चेन्न। विद्याया नैरपेक्ष्यात्तदपरिकरता शङ्किता प्रागपास्ता श्लेषाभावप्रसक्ता त्विह पुनरिति तन्नीतिवैषम्यसिद्धेः।।
अधिकरणसारावली अनारब्धकार्याधिकरणम्
अधिकरणसारावली अनारब्धकार्याधिकरणम् 4.1.36 नश्यत्वारब्धकार्यं परविदि दुरितं नह्यधीतो विशेषः सर्वे पाप्मान इत्यप्यभिहितमिति चेन्नोपलम्भादिबाधात्। सद्विद्या तस्य तावच्चिरमिति च वदत्यस्मरंश्चागमज्ञाः जीवन्मुक्त्यादिशब्दोऽप्युपचरणपरो मोहितास्तेन मन्दाः।। 4.1.37 रोगाद्यारम्भकाणां प्रशमनविधयस्सन्ति दानार्चनाद्याः प्रत्येतुस्स्वावताराद्यपि विभुरपुनर्जन्मतामप्यगायत्। तस्मादारब्धकार्ये फलनियतिवचो दुर्घटं भाति मैवं प्रायश्चित्तोज्झितानां ननु फलनियतिस्सूत्रकाराद्यभीष्टा।।
अधिकरणसारावली इतराधिकरणम्
अधिकरणसारावली इतराधिकरणम् 4.1.33 धर्मस्याश्लेषनाशौ न हि परभजनानुग्रहेणोपपन्नौ तस्याघत्वप्रसङ्गाच्छ्रुतिरपि च परं पापनिर्मुक्तिमाह। भोगैस्तत्पुण्यनाशोऽस्त्विति यदि न यतः काम्यमप्यस्य पापं तस्मिंस्तल्लक्ष्मसिद्धेर्न सुकृतमिति च श्रूयते पाप्मतास्य।। 4.1.34 पुण्यं विद्यानुकूलं यदिह सफलता तस्य विद्याप्रदत्वात् तस्यां यन्नोपयुक्तं तदपि दुरितवद् बन्धकत्वेन वार्यम्। कारागारोपरुद्धे निगलयुगलतस्सार्वभौमस्य भृत्ये हैमं कार्ष्णायसञ्च प्रसदनसमये भञ्जनीयं सहैव।। 4.1.35 काम्यं नेच्छेद्विरक्तो यदि किल कुरुते रागयोगात् फले तत् […]
अधिकरणसारावली तदधिगमाधिकरणम्
अधिकरणसारावली तदधिगमाधिकरणम् 4.1.29 नाभुक्तं कल्पबृन्दैरपि सुपरिहरं कर्म गीतं मुनीन्द्रैः पापाश्लेषप्रणाशश्रुतिरपि परविद्वैभवोक्तिस्ततस्स्यात्। मैवं नाभुक्तमित्याद्यपि फलजनने कर्मणो दार्ढ्यमाह प्रायश्चित्तक्रमेण त्विह परभजनं चोदितं कर्मशान्त्यै।। 4.1.30 निष्कृत्यात्मत्वमस्योदितदुरितसमुन्मूलनस्योपपन्नं नात्र स्वर्गादिनीतिः प्रतिहतिविगमे धीविकासस्स्वतो हि। पापालेपः प्रमादोदितसहनमिति स्थाप्यमाज्ञानुवृत्त्यै नो चेन्न स्याद्गतिर्नाविरत इति गिरो योगिनाञ्च प्रवृत्तेः।। 4.1.31 अश्लेषः कर्मशक्तेरनुदय उदये तन्निवृत्तिर्विनाशः शक्तिस्सा च प्रणेतुस्तदुचितफलकृन्निग्रहानुग्रहात्मा। प्रायश्चित्तं निमित्ते कथमनुदित इत्यत्र नैवानुयोज्यं नाधर्मस्तस्य […]
अधिकरणसारावली आप्रयाणाधिकरणम्
अधिकरणसारावली आप्रयाणाधिकरणम् 4.1.28 एकस्मिन्नेव घस्रे यदि भवति परध्यानरूपा तु भक्तिः तद्विश्रान्तो विधिस्स्यादुपरि तु विफला ब्रह्मचिन्तेत्ययुक्तम्। छान्दोग्ये यावदायुस्सुचरितमुदितं ब्रह्मलोकाप्तिहेतोः तद्धि ध्यानस्य वृद्ध्यै तदपि च विहितं कुत्रचित्प्रायणान्तम्।।
अधिकरणसारावली आसीनाधिकरणम्
अधिकरणसारावली आसीनाधिकरणम् 4.1.24 आसीनस्यैव योगश्श्रुतिषु न ददृशे ध्यानमाहुस्सदेति न्यायश्चेलाजिनादेर्नियमविधिकृतः पाक्षिकासीनतायाम्। तस्मादेतद्धटेत स्थितिगतिशयनेष्वप्रकम्प्येन्द्रियस्ये- त्यप्राप्तं यत्ननिद्रान्वयिनि कथमविच्छिन्नधीसन्ततिस्स्यात्।। 4.1.25 चित्तैकाग्र्योपपत्त्यै विदधति नियतिं देशकालासनादेः सच्छिद्रं त्वन्यदापि क्षममिति सततं चिन्तनं संस्मरन्ति। प्रत्यक्संस्कारभूम्ना परनिहितधियस्तादधीन्यादिबुद्ध्या जुष्टं व्यासक्तनीत्या भवति हि समये योगिनः कर्म सर्वम्।। 4.1.26 कर्मोपास्त्यङ्गभूतं यदिह निगदितं तत्परे पूर्वपादे योगेन ब्रह्मदृष्टिर्यदपि च परमो धर्म इत्युक्तमाप्तैः। तेन प्राधान्यसिद्धावितरदनुगुणं तस्य नेयं […]
अधिकरणसारावली आदित्यादिमत्यधिकरणम्
अधिकरणसारावली आदित्यादिमत्यधिकरणम् 4.1.20 तादर्थ्याद् देवतानां फलकरणतया कर्मणश्चोदितत्वात् आदित्यादौ निकृष्टात्मनि भवतु समुत्कृष्टकर्माङ्गदृष्टिः। मैवं कर्म प्रधानं विहितमपि यतस्तत्समाराधनं तत् तत्प्रीता देवतैव प्रदिशति फलमित्यर्थतस्सा प्रधानम्।। 4.1.21 अन्यस्मिन्नन्यदृष्टेरविधिरिह घटतामन्यथाख्यातिपक्षे याथार्थ्यं सर्वबोधानुगतमिति मते युज्यते नान्यदृष्टिः। तन्नात्राद्ये हि न स्याद् विमतिरविमता भ्रान्तिनीतिः परस्मिन् तादृग्भेदाग्रहोपप्लुतमतियुगलस्थापनायां नियोगात्।। 4.1.22 द्रष्टव्यापह्नवे न भ्रमदनुविहिता दृष्टिरद्वैतमोहः स्यादुत्कृष्टापराधस्तत इह विहिता तादृशत्वस्य दृष्टिः। तादृग्दृष्टौ न दोषस्तत […]