अधिकरणसारावली प्रतीकाधिकरणम्
अधिकरणसारावली प्रतीकाधिकरणम् 4.1.18 नामादिब्रह्मदृष्टावपि तदहमिति प्रत्ययः पूर्ववत्स्यात् ब्रह्मध्यानत्वसाम्यादिति यदि न न खल्वन्तरात्मा प्रतीकः। न ब्रह्मण्यन्यदृष्टिः कथमपि घटते तस्य सर्वाधिकत्वात् अन्यस्मिन्ब्रह्मदृष्टौ परमिह नियतैर्लक्षणैस्तद्ग्रहोऽर्थ्यः।। 4.1.19 आत्मन्यब्रह्मभूते भवतु फलवती कुत्रचिद् ब्रह्मदृष्टिः नैषा वस्तुव्यवस्थां शिथिलयति नरे वैनतेयत्वधीवत्। एतावन्मात्रमोहादिदमहमिति तु स्थापयन् क्षिप्रमृच्छेत् इन्द्रत्वारोपदर्पोद्धतनहुषमहाभोगिसंस्थामवस्थाम्।।
अधिकरणसारावली आत्मत्वोपासनाधिकरणम्
अधिकरणसारावली आत्मत्वोपासनाधिकरणम् 4.1.13 जीवादत्यन्तभिन्नस्स विभुरभिदधे लक्षणैस्साधनान्तैः मुक्त्यर्थोपासनेऽस्मिन्मुषिततमसि न ब्रह्मदृष्ट्यादियुक्तिः। तत्त्वज्ञे वीतरागे तदिह न घटते सोऽहमस्मीत्युपास्तिः तन्न स्वात्मान्तरात्मन्यहमिति वचसोऽप्यत्र मुख्यप्रवृत्तेः।। 4.1.14 वस्विन्द्रादेरुपास्तौ प्रकृतिशबलितस्वान्वितेक्षा पुरोक्ता शुद्धस्स्वात्मा च नित्यः क्वचिदिह तु विभुस्तादृशा स्वेन युक्तः। व्यक्तिर्जीवेशभेदे व्यधिकरणपदैर्भावने स्यात्तथापि ब्रह्माधीनस्वरूपप्रमितिसुदृढतासिद्धयेऽहङ्ग्रहोक्तिः।। 4.1.15 ऐक्योपास्तावहं त्वं त्वमहमिति मतिर्निर्विशेषे कथं स्याद् भेदाभेदाभिलापः करकमणिकतद्व्योमनीत्या न मुख्यः। मत्तुल्यस्त्वं त्वयाहं सम इति वदतां नोपचारोऽपि […]
अधिकरणसारावली आवृत्त्यधिकरणम्
अधिकरणसारावली ॥ अथ चतुर्थाध्याये प्रथम: पाद: ॥ आवृत्त्यधिकरणम् 4.1.1 इत्युत्पत्तिक्रमेण प्रथममभिहितो मुक्त्युपायस्सहाङ्गैः तत्साध्यं सूत्रकारः फलमथ विदुषः पर्वभेदैर्व्यनक्ति। स्थूले देहेऽस्य सिध्येद्यदिह वदति तत्पादयुग्मेन पूर्वं निष्क्रान्तस्याथ यत्स्यात्परिगणयति तत्पादयुग््मान्तरेण ।। 4.1.2 सूक्ता प्रागेव विद्या किमिति पुनरिमां वक्ति यद्यस्ति शेषं ब्रूतामेतच्च पूर्वं नहि तदिह फले संघटेतेति चेन्न। मुक्तैरन्यैरसिद्धिं प्रकृततदविनाभावमासन्नसिद्धिं मुक्तावस्थासमञ्च स्थिरभजनरसं व्यङ्क्तुमत्रानुबन्धः ।। 4.1.3 […]