श्रीभाष्यम् 04-01-03 प्रतीकाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये प्रतीकाधिकरणम्॥३॥ (अधिकरणार्थः – प्रतीकोपासनस्थले, न आत्मत्वानुसन्धानं प्रतीके कार्यम्) ४७३. न प्रतीके न हि स: ॥ ४–१–४ ॥ (विषयोपस्थापनं संशयश्च) मनो ब्रह्मेत्युपासीत (छा.३.१८.१)  स यो नाम ब्रह्मेत्युपास्ते (छा.७.१.५) इत्यादिप्रतीकोपासनेष्वप्यात्मत्वानुसन्धानं कार्यम्, उत न – इति चिन्तायां  – (सहेतुकः पूर्वः पक्षः) मनो ब्रह्मेत्युपासीत (छा.३.१८.१) इति ब्रह्मोपासनत्वसाम्याद्ब्रह्मणश्चोपासितुरात्मत्वात् आत्मेत्येवोपासीतेति ॥ (सूत्रतः सिद्धान्तः) एवं प्राप्तेऽभिधीयते – न प्रतीके – इति […]

श्रीभाष्यम् 04-01-02 आत्मत्वोपासनाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये आत्मत्वोपासनाधिकरणम्॥२॥ (अधिकरणार्थः – उपास्यं ब्रह्म उपासितुः आत्मत्वेनैवोपास्यम्, न अन्यत्वेन) ४७२. आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥ ४–१–३ ॥ (संशयप्रदर्शनतः अधिकरणचिन्त्योऽर्थः) इदमिदानीं चिन्त्यते – किमुपास्यं ब्रह्मोपासितुरन्यत्वेनोपास्यम्, उतोपासितुरात्मत्वेन – इति। (युक्त्या पूर्वःपक्षः) किं युक्तम्?; अन्यत्वेनेति। कुत:? उपासितु: प्रत्यगात्मनोऽर्थान्तरत्वात् ब्रह्मण: । अर्थान्तरत्वं च   अधिकं तु भेदिनर्देशात् (शारी.२.१.२२) अधिकोपदेशात् (शारी.३.४.८) नेतरोऽनुपपत्ते: (शारी.१.१.१७) इत्यादिषूपपादितम्। यथावस्थितं च ब्रह्मोपास्यम्; अयथोपासने हि ब्रह्मप्राप्तिरप्ययथाभूता […]

श्रीभाष्यम् 04-01-01 आवृत्त्यधिकरणम्

श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये चतुर्थः फलाध्यायः (अधिकरणानि – 33 सूत्राणि – 137) (अध्यायार्थः – विद्यास्वरूपविशोधनपूर्वकम् विद्याफलचिन्तनम्) प्रथमः आवृत्तिपादः ।। 4-1 ।।    (पादार्थः – उपासनप्रकारचिन्ता, पूर्वोत्तराघाश्लेष-विनाशौ च) आवृत्त्यधिकरणम् ॥१॥ (अधिकरणार्थः – उपासनस्य असकृदावृत्तस्यैव मोक्षोपायता) ४७०. आवृत्तिरसकृदुपदेशात् ॥ ४–१–१ ॥ (अध्यायसङ्गतिः) तृतीयेऽध्याये साधनैस्सह विद्या चिन्तिता। अथेदानीं विद्यास्वरूपविशोधनपूर्वकं विद्याफलं चिन्त्यते। तत्र (प्रस्तुतो विषयः विचार्यांशश्च) ब्रह्मविदाप्नोति परम् (तै.आन.१.१)  तमेव विदित्वाऽतिमृत्युमेति (श्वे.३.८) […]

श्रीभाष्यम् 03-04-15 मुक्तिफलाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये मुक्तिफलाधिकरणम्॥१५॥ (अधिकरणार्थः – विद्यानिष्पत्तिं प्रति ब्रह्मविदपचारस्य प्रतिबन्धकत्वम्) ४६९. एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृते: ॥ ३–४–५१ ॥ (सूत्रविवृतिः, अधिकाशङ्का-परिहारौ च) मुक्तिफलस्याप्युपासनस्य स्वसाधनभूतैरतिशयितकर्मभिरुत्पत्तौ एवमेव कालानियम:, तस्यापि पूर्ववत्प्रतिबन्धाभावप्रतिबन्धसमाप्तिरूपावस्थावगते: – अत्रापि तस्य हेतोस्समानत्वादित्यर्थ: ॥ सर्वेभ्य: कर्मभ्यो मुक्तिफलविद्यासाधनस्य कर्मण: प्रबलत्वात्प्रतिबन्धासम्भव इत्यधिकाशङ्का॥ तत्रापि ब्रह्मविदपचाराणां पूर्वकृतानां प्रबलानां सम्भवात्प्रतिबन्धसम्भव:  इति परिहार:।  द्विरुक्तिरध्यायपरिसमाप्तिं द्योतयति ॥ इति श्रीशारीरकमीमांसाभाष्ये मुक्तिफलाधिकरणम्॥१५॥ ——— इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये तृतीयस्याध्यायस्य चतुर्थ:पाद:॥४॥ समाप्तश्चाध्याय:॥३॥

श्रीभाष्यम् 03-04-14 ऐहिकाधिकरणम्

श्रीशारीरकमीमांसाभाष्यो ऐहिकाधिकरणम्॥१४॥ (अधिकरणार्थः – उपासनस्य निरन्तरायत्वे फलशैघ्र्यम्, सान्तरायत्वे विलम्बः) ४६८. ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥ ३–४–५० ॥ (विचारणीयविषयसंशयौ)             द्विविधा विद्या – अभ्युदयफला, मुक्तिफला च । तत्राभ्युदयफला स्वसाधनभूतै: पुण्यकर्मभि: पुण्यकर्मानन्तरमेव उत्पद्यते, उतानन्तरं कालान्तरे वेत्यनियम इति संशय:। (युक्त्या पूर्वः पक्षः) पूर्वकृतै: पुण्यकर्मभिर्हि विद्वान् जायते; यथोक्तं भगवता  चतुर्विधा भजन्ते मां जनास्सुकृतिनोऽर्जुन (भ.गी.७.१९) इति। साधने निर्वृत्ते विलम्बहेत्वभावादनन्तरमेव – (सूत्रतः सिद्धान्तार्थः) […]

श्रीभाष्यम् 03-04-13 अनाविष्काराधिकरणम्

श्रीशारीरकमीमांसाभाष्ये अनाविष्काराधिकरणम्॥१३॥ (अधिकरणार्थः – बाल्येन तिष्ठासेदिति विद्यासहकारित्वेन विहितबार्यस्वरूपम्) ४६७. अनाविष्कुर्वन्नन्वयात् ॥ ३–४–४९ ॥ (अधिकरणीयौ विषयसंशयौ) तस्माद्ब्राह्मण: पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् (बृह.५.५.१) इत्यत्र विदुषा बाल्यमुपादेयतया श्रुतम् । बालस्य भाव:, कर्म वा बाल्यम् । बालभावस्य वयोऽवस्थाविशेषस्य अनुपादेयत्वात् कर्मैवेह गृह्यते। तत्र किं बालस्य कर्म कामचारादिकं सर्वं विदुषोपादेयम्; उत डम्भादिरहितत्वमेवेति विशये – (सयुक्तिकः पूर्वःपक्षः) विशेषाभावात्सर्वमुपादेयम्; नियमशास्त्राणि च विशेषविधिनाऽनेन बाध्यन्त […]

श्रीभाष्यम् 03-04-12 सहकार्यन्तरविध्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये सहकार्यन्तरविध्यधिकरणम्॥१२॥ (अधिकरणार्थः – अथ मुनिः इति मौनरूपस्य विद्यासहकार्यन्तरस्य विधानमेव, नानुवादः) ४६४. सहकार्यन्तरविधि: पक्षेण तृतीयं तद्वतो विध्यादिवत् ॥ ३–४–४६ ॥ (विचारणीयविषयसंशययोः प्रदर्शनम्) तस्माद्ब्राह्मण: पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् बाल्यं च पाण्डित्यं च निर्विद्याथ मुनि: (बृ.५.५.१) इत्यत्र बाल्यपाण्डित्यवन्मौनमपि विधीयते, उतानूद्यत इति विषये – (युक्तितः पूर्वः पक्षः) मौनपाण्डित्यशब्दयो: ज्ञानार्थत्वात्,  पाण्डित्यं निर्विद्य (बृ.५.५.१) इति विहितमेव ज्ञानम्  अथ मुनि: (बृ.५.५.१) […]

श्रीभाष्यम् 03-04-11 स्वाम्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये स्वाम्यधिकरणम्॥११॥ (अधिकरणार्थः – कर्माङ्गाश्रयोद्गीथाद्युपासनानां ऋत्विजैवानुष्ठेयत्वम्, फलश्रुत्यादिविरोधश्च) ४६२. स्वामिन: फलश्रुतेरित्यात्रेय: ॥ ३–४–४४ ॥ (विचारणीयार्थोपस्थापनम् ससंशयम्) कर्माङ्गाश्रयाण्युद्गीथाद्युपासनानि किं यजमानकर्तृकाणि, उत ऋत्विक्कर्तृकाणीति चिन्तायां – (सयुक्तिकः आत्रेयाभिमतः, पूर्वः पक्षः) यजमानकर्तृकाणीत्यात्रेयो मन्यते; कुत:? फलश्रुते: – वेदान्तविहितेषु दहराद्युपासनेषु फलोपासनयोरेकाश्रयत्वदर्शनादिह च क्रतुफलाप्रतिबन्धरूपस्योद्गीथोपासनफलस्य यजमानाश्रयत्व-  श्रवणादित्यर्थ: । (अङ्गाश्रयत्वादुपासनस्य यजमानकार्याभावत्वशङ्का-निरासौ) न च गोदोहनादिवदङ्गाश्रयत्वेन यजमानकर्तृकत्वासम्भव:; गोदोहनादिषु ह्यध्वर्युकर्तृकप्रणयनाश्रयगोदोहनोपादानमन्येनाशक्यम्; इह तूद्गातृकर्तृकेऽप्युद्गीथे तस्योद्गीथादे: रसतमत्वानुसन्धानं यजमानेनैव कर्तुं शक्यते ॥४४॥ […]

श्रीभाष्यम् 03-04-10 तद्भूताधिकरणम्

श्रीशारीरकमीमांसाभाष्ये तद्भूताधिकरणम् ॥१०॥ (अधिकरणार्थः – आश्रमभ्रष्टानां ब्रह्मविद्यायां सर्वथा अनधिकार एव) ४५८. तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात्तद्रूपाभावेभ्य: ॥ ३–४–४०॥ (प्रकृताधिकरणीयसंशय-पूर्वपक्षौ)       नैष्ठिकवैखानसपरिव्राजकाश्रमेभ्य: प्रच्युतानामपि ब्रह्मविद्यायामधिकारोऽस्ति, नेति चिन्तायां- विधुरादिवदनाश्रमैकान्तैर्दानादिभिर्विद्यानुग्रहसम्भवादस्त्यधिकार: – (सिद्धान्तार्थः स्वस्य जैमिनेश्च सम्मतः) इति प्राप्त उच्यते – तद्भूतस्य तु नातद्भाव: – इति। तुशब्द: पक्षव्यावृत्त्यर्थ:; तद्भूतस्य नैष्ठिकाद्याश्रमनिष्ठस्य, नातद्भाव: – अतथाभाव:, अनाश्रमित्वेनावस्थानं न सम्भवति; कुत:? तद्रूपाभावेभ्यो नियमात् – तद्रूपाणि […]

श्रीभाष्यम् 03-04-09 विधुराधिकरणम्

श्रीशारीरकमीमांसाभाष्ये विधुराधिकरणम्॥९॥ (अधिकरणार्थः – अनाश्रमिणामपि चेतनानां त्रैवर्णिकानां ब्रह्मविदयाधिकारलोपः) ४५४. अन्तरा चापि तु तद्दृष्टे: ॥ ३–४–३६ ॥ (अवान्तरसङ्गतिः) चतुर्णामाश्रमिणां ब्रह्मविद्यायामधिकारोऽस्ति, विद्यासहकारिण आश्रमधर्मा इति चोक्तम्। (विचारोपयोगी पूर्वः पक्षः) ये पुनराश्रमानन्तरा वर्तन्ते विधुरादय:; तेषां ब्रह्मविद्यायामधिकारोऽस्ति, न वेति विशये- (सयुक्तिकः पूर्वः पक्षः) आश्रमधर्मेतिकर्तव्यताकत्वाद्विद्याया:, अनाश्रमिणां चाश्रमधर्माभावान्नास्त्यधिकार इति प्राप्ते :- (सिद्धान्तार्थः) उच्यते – अन्तरा चापि तु – इति। तुशब्द: पक्षव्यावृत्त्यर्थ:; चशब्दोऽवधारणे। […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.