वेदान्तदीप: Ady 02 Pada 03
वेदान्तदीप: अथ द्वितीयाध्याये तृतीय: पाद:। २–३–१ २१७। न वियदश्रुते: – वियदुत्पद्यते, नेति संशय:। नोत्पद्यत इति पूर्व: पक्ष:। निरवयवस्य सर्वगतस्यात्मन इवोत्पत्यसंभवात्। असंभावनीयस्य श्रवणं च न संभवति। अत उत्पत्तिश्रुतिर्गौणीति। राद्धान्तस्तु वियदुत्पद्यत एव, उत्पत्तिश्रुते:। अतीन्द्रीयार्थविषयया श्रुत्याऽभिहितेऽर्थे निरवयवत्वादिहेतुकं नानुत्पत्त्यनुमानमुदेतुमलम्। आत्मनोऽप्यनुत्पत्तिश्रुतेरेव नित्यत्वम्, न निरवयवत्वादिना। सूत्रार्थस्तु न वियदश्रुते:, वियन्नोत्पद्यते। कुत:? अश्रुते:। अश्रवणात्, असंभावनीयस्य श्रवणासंभवात्॥१॥ २१८। अस्ति तु – अस्ति तु […]
वेदान्तदीप: Ady 02 Pada 02
वेदान्तदीप: ॥अथ द्वितीयाध्याये द्वितीय: पाद:॥ २–२–१ १७५। रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्च – साङ्ख्यतन्त्रसिद्ध: प्रधानकरणवाद: किं समीचीनयुक्तिमूल:, उत नेति संशय:। समीचीनयुक्तिमूल इति पूर्व: पक्ष:। घटादिवद्विचित्रसन्निवेशं जगत्कार्यम् तद्वदेव स्वसरूपकारणविशेषारब्धम्। सुखदु:खमोहाद्यात्म-कतया सत्त्वाद्यात्मकं जगत्सत्त्वरजस्तमोमूलकम्। तत्र महदादिपृथिव्यन्तानां घटादिवत् परिणामित्वेन कारणापेक्षित्वाविशेषात् ते जगदुत्पत्तौ कारणकाष्ठा न भवन्ति। तेषां परिमितत्वेन अपरिमितजगदुत्पादनाशक्ते:। अन्यूनानतिरिक्तानि साम्यावस्थान्यपरिमितानि सत्त्वरजस्तमांसि अव्यक्तप्रधानादिशब्दाभिधेयानि जगत्कारणम्। राद्धान्तस्तु – रथप्रासादादिहेतुभूतदार्वादिवदचेतनं प्रधानं स्वस्वभावाद्यभिज्ञचेतनानधिष्ठितं विचित्रजगद्रचनासमर्थमिति न केवलं […]
वेदान्तदीप: Ady 02 Pada 01
वेदान्तदीप: ॥अथ द्वितीयाध्याये प्रथम: पाद:॥ २–१–१ १३९। स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृतनवकाशदोषप्रसङ्गात् – वेदान्तानां समस्तचिदचिद्वस्तुविलक्षणास्पृष्टहेयगन्धसर्वज्ञताद्यनन्तकल्याणगुणाकरब्रह्मैकपरत्वं प्रतिपादितं। कपिलस्मृतिविरोधेन चालयितुं शक्यम्, उत नेति संशय:। शक्यमिति पूर्व: पक्ष:, श्रुतिविरुद्धाया: स्मृतेरनादरणीयत्वे स्थितेऽपि वेदान्तवेद्यार्थस्य दुर्ग्रहत्वेन अल्पश्रुतैर्मन्दमतिभिराप्तप्रणीतस्मृत्युपबृंहणेन विना तेषां निश्चयो नोपपद्यते। कपिलस्मृति: केवलतत्त्वपरेति तयैव ह्युपबृंहणं न्याय्यम्। अन्यथा आप्तप्रणीताया: केवलतत्त्वपरायास्तस्या अनवकाशप्रसङ्ग इति वेदान्तवेद्यं जगत्कारणं प्रधानम्। राद्धान्तस्तु – वेदान्तस्य उबृंहणापेक्षत्वेऽपि आप्ततममन्वादिस्मृतिभिर्वेदान्ताविरोधिनीभिः एवोपबृंहणं न्याय्यम्, अन्यथा तासां […]
श्रीवेदान्तसार: Ady 04 Pada 04
श्रीवेदान्तसार: अथ चतुर्थाध्याये चतुर्थ: पाद: ४–४–१ ५२४। सम्पद्याविर्भावस्स्वेन शब्दात् – एवमेवैष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रुपेणाभिनिष्पद्यते, इति सिद्धस्यैव प्रत्यगात्मस्वरूपस्य अनादिकर्मणा तिरोहितस्य परंज्योतिरुपसंपद्याविर्भाव उच्यते। स्वेन रूपेण इति विशिष्याभिधानात्॥१॥ ५२५। मुक्त: प्रतिज्ञानात् – आत्मस्वरूपमात्रस्य प्रागेव सिद्धत्वेऽपि कर्मबन्धविनिर्मुक्ता- परिच्छिन्नज्ञानादिस्वरूपस्य ह्यत्राविर्भाव उच्यते। एतं त्वेव ते भूयोऽनुव्याख्यास्यामि, इति जागरिताद्यवस्था तिरोधानविनिर्मुक्तस्यैव वक्तव्यतया प्रतिज्ञानात्॥२॥ ५२६। आत्मा प्रकरणात् – भूयोऽनुव्याख्यास्यामि इति प्रकृतापहतपाप्मत्वादिगुणक आत्मेति […]
श्रीवेदान्तसार: Ady 04 Pada 03
श्रीवेदान्तसार: चतुर्थाध्याये तृतीय: पाद: ४–३–१ ५०९। अर्चिरादिना तत्प्रथिते: – अर्चिरादिनैकेन विद्वान् गच्छति, सर्वासु श्रुतिषु तच्चिह्नै: तत्प्रत्यभिज्ञानात्॥१॥ इति अर्चिराद्यधिकरणम् ॥ १ ॥ ४–३–२ ५१०। वायुमब्दादविशेषविशेषाभ्याम् – मासेभ्यस्संवत्सरं संवत्सरादित्यम्, इत्यब्दादित्ययोर्मध्ये द्वयो: प्रकरणान्तरयो: एकत्र देवलोक: श्रुत:, इतरत्र वायुशब्द:। तत्र देवलोकशब्दोऽपि देवानां लोक इति वायोर्विशेषणवाचक:, वायुशब्दश्च तस्यैव विशेषेणवाचक इति अविशेषविशेषाभ्यां – देवलोकवायु शब्दाभ्यां वायुरेक एव विहित इत्यब्दादूर्ध्वमादित्यात्पूर्वं वायुमेव […]
श्रीवेदान्तसार: Ady 04 Pada 02
श्रीवेदान्तसार: ॥ अथ चतुर्थाध्याये द्वितीय: पाद: ॥ ४–२–१ ४८९। वाङ्मनसि दर्शनाच्छब्दाच्च – अस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि संपद्यत इति शब्दात्, उत्क्रान्तौ मनस: प्रागेव वाच उपरतिदर्शनाच्च वाङ्मनसि संपद्यते – युज्यत इति॥१॥ ४९०। अत एव सर्वाण्यनु – अत: इन्द्रियैर्मनसि संपद्यमानै: इति शब्दात्, उपरतिदर्शनाच्च, वाचमनु सर्वाणीन्द्रियाणि मनसि च संयुज्यन्ते॥२॥ इति वागधिकरणम् ॥१॥ ४–२–२ ४९१। तन्मन: प्राण उत्तरात् – […]
श्रीवेदान्तसार: Ady 04 Pada 01
श्रीवेदान्तसार: ॥ अथ श्रीवेदान्तसारे चतुर्थाध्याये प्रथम: पाद: ॥ ४–१–१ ४७०। आवृत्तिरसकृदुपदेशात् – ब्रह्मविदाप्नोति परम् इत्यादिषु मोक्षसाधनं वेदनमसकृदावृत्तम्, विद्यात्, उपासीत इति विद्युपास्योरुपक्रमोपसंहारयोर्व्यतिकरेणोपदेशात्॥१॥ ४७१। लिङ्गाच्च – लिङ्गं स्मृति:, मां ध्यायन्त उपासते, तेषामहं समुद्धर्ता मृत्युसंसार सागरात्, तद्रूपप्रत्यये चैका सन्ततिश्चान्यनिस्पृहा, तद्ध्यानं इत्यादिस्मृतेश्च॥२॥ इति आवृत्त्यधिकरणम्॥१॥ ४–१–२ ४७२। आत्मेति तूपगच्छन्ति ग्राहयन्ति च – यद्यपि अधिकं तु भेदनिर्देशात्, अधिकोपदेशात् इत्यादिषु प्रत्यगात्मनोऽर्थान्तरत्वं ब्रह्मण: […]
श्रीवेदान्तसार: Ady 03 Pada 04
श्रीवेदान्तसार: ॥ अथ तृतीयाध्याये चतुर्थ: पाद: ॥ ३–४–१ ४१९। पुरुषार्थोऽतश्शब्दादिति बादरायण: – विद्यात: पुरुषार्थ: इति भगवान् बादरायणो मेने, ब्रह्मविदाप्नोति परम्, यो वेद….सोऽश्नुते सर्वान् कामान् सह इत्यादिशब्दात्॥१॥ ४२०। शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनि: – तत्त्वमसि इत्यादि सामानाधिकरण्येन कर्मसु कर्तुरेव ब्रह्मत्वावगमात्, तद्वेदनस्य तत्संस्कारतया कर्मशेषत्वात्, द्रव्यादिष्विव फलश्रुतिरर्थवाद:॥२॥ ४२१। आचारदर्शनात् – यक्ष्यमाणो ह वै भगवन्तोऽहमस्मि इत्यादौ ब्रह्मविद: कर्मप्रधानाचार दर्शनात् विद्या कर्माङ्गम्॥३॥ […]
श्रीवेदान्तसार: Ady 03 Pada03
श्रीवेदान्तसार: अथ तृतीयाध्याये तृतीय: पाद:। ३–३–१ ३५५। सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् – सर्ववेदान्तप्रत्ययं दहराद्युपासनमेकमेव, विद्यात्, उपासीत इति कर्मविधिष्विव चोदनाफलसंयोगरूपाख्यानामविशेषात्॥१॥ ३५६। भेदान्नेति चेदेकस्यामपि – अविशेषपुन:श्रुतिर्भेदापादिकेति न विद्यैक्यमिति चेत्, विद्यैक्येऽपि शाखान्तरे प्रतिपत्तृभेदान्न भेद:॥२॥ ३५७। स्वाध्यायस्य तथात्वे हि समाचारेऽधिकाराच्च सववच्च तन्नियम: – आथर्वणवेदे तेषामेवैतां ब्रह्मविद्यां वदेत इति शिरोव्रतवतां नियम: शिरोव्रतस्य स्वाध्यायाङ्गत्वेन नैतदचीर्णव्रतोऽधीयीत इति तस्याध्ययनसंबन्धावगमात्, समाचाराख्यग्रन्थे इदमपि वेदव्रतेन व्याख्यातमिति वेदव्रतत्वावगमाच्च। ब्रह्मविद्यामित्यत्र […]
श्रीवेदान्तसार: Ady 03 Pada 02
श्रीवेदान्तसार: ॥ अथ तृतीयाध्यायस्य द्वितीय: पाद:॥ ३–२–१ ३१५। सन्ध्ये सृष्टिराह हि – सन्ध्ये – स्वप्ने, अथ रथान् रथयोगान् इत्यादिना अभिहिता सृष्टिर्जीवकृता। पुष्करिण्यस्स्रवन्त्यस्सृजते स हि कर्ता, इति। स्वप्नदृशं जीवमेव कर्तारमाह श्रुति:॥१॥ ३१६। निर्मातारं चैके पुत्रादयश्च – य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाण:, इति, एनं जीवं स्वाप्नार्थनिर्मातारम् एके शाखिनोऽधीयते। अत्र कामशब्दनिर्दिष्टा: काम्यमानतया पुत्रादय:, पूर्वत्र सर्वान् […]