श्रीवेदान्तसार: Ady 03 Pada 01
श्रीवेदान्तसार: ॥ तृतीयाध्यायस्य प्रथम पाद:॥ ३–१–१ २८८। तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्त: प्रश्ननिरूपणाभ्याम् – जीवो देहाद्देहान्तरप्राप्तौ भूतसूक्ष्मैस्संपरिष्वक्तो यातीति पञ्चाग्निविद्यायां प्रश्नप्रतिवचनाभ्यावगम्यते। वेत्थ यथा पञ्चम्यामाहुतावाप: पुरुषवचसो भवन्ति इति प्रश्न:, इति तु पञ्चम्यामाहुतावाप: पुरुषवचसो भवन्ति इति प्रतिवचनम्। उत्तरैस्सूत्रैरर्थोऽभिव्यज्यते। स चायमर्थ: । जीवो ब्राह्मणादिदेहस्थ: स्वाहादानादिकर्मकृत् तत्तत्फलभोगायास्माद्देहादुत्थाय गच्छन्, एतद्देहस्थाभि: भूतान्तरसंसृष्टाभि: सूक्ष्माकाराभिरद्भि: संपरिष्वक्तोऽग्नित्वेन निरूपितं द्युलोकं प्राप्य, ताभिरेवामृतमयदेहाकार-परिणताभिरद्भि: परिष्वक्तो देवानां शेषत्वमुपगम्य, तैस्सह तत्र भोगमनुभूय, […]
श्रीवेदान्तसार: Ady 02 Pada 04
श्रीवेदान्तसार: ॥ अथ द्वितीयाध्याये चतुर्थ: पाद:॥ २–४–१ २६९। तथा प्राणा: – यथा जीवोत्पत्ति: नित्यत्वश्रुतेर्नोपपद्यते। तथेन्द्रियाण्यपि, असद्वा इदमग्र आसीत्, ऋषयो वाव तेऽग्रे सदासीत्।। प्राणा वा व ऋषय: इति प्रलयकाले प्राणानां स्थित्युपदेशात्॥१॥ २७०। गौण्यसंभवात्तत्प्राक्छ्रुतेश्च – तस्य परमात्मन एव सृष्टे: प्रागवस्थानश्रुते: ऋषिशब्द: प्राणशब्दश्च परमात्मन्येव। बहुत्वासंभवात्, बहुवचनश्रुतिर्गौणी॥२॥ २७१। तत्पूर्वकत्वाद्वाच: – परमात्मन: सृष्टिपूर्वकत्वात् इतरेषां नामयोग्यस्य तदानीं प्राणशब्दो नेन्द्रियविषय:॥३॥ इति […]
श्रीवेदान्तसार: Ady 02 Pada 03
श्रीवेदान्तसार: अथ द्वितीयाध्यायस्य तृतीय: पाद: २–३–१ २१७। न वियदश्रुते: – वियन्नोत्पद्यते, अश्रुते:, श्रुति: – श्रवणम्। निरवयवस्य, आत्मन इवोत्पत्तिश्रवणासंभवात्॥१॥ २१८। अस्ति तु – श्रवणं संभवत्येव, आकाशस्संभूत: इत्येव हि श्रुति: अतीन्द्रियार्थविषया वियदुत्पत्तिं प्रतिपादयति। आत्मनोऽपि न जायते इति प्रतिषेधादनुत्पत्ति:॥२॥ २१९। गौण्यसंभवाच्छब्दाच्च – तत्तेजोऽसृजत इति तेज: प्राथम्यवचनात् आकाशस्संभूत: इति श्रुतिर्गौणी वायुश्चान्तरिक्षं चैतदमृतम् इति शब्दाच्च॥३॥ २२०। स्याच्चैकस्य ब्रह्मशब्दवत् – एकस्य […]
श्रीवेदान्तसार: Ady 02 Pada 02
श्रीवेदान्तसार: अथ द्वितीयाध्याये द्वितीय: पाद: २–२–१ १७५। रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्च – दार्वादेरचेतनस्य रथप्रासादादिनिर्माणे तदभिज्ञानधिष्ठितस्य रचनानुपपत्तेश्च तज्ज्ञाधिष्ठितस्य रचनाप्रवृत्तेश्च अनुमानगम्यं प्रधानमचेतनं प्राज्ञानधिष्ठितं न जगत्कारणम्॥१॥ १७६। पयोम्बुवच्चेत्तत्रापि – यथा पय: अम्बु च दध्यादिभावेऽनपेक्षं, तद्वत्प्रधानमपीतिचेत्, तत्राप्युक्त एव हेतु:, तस्यापि पक्षीकृतत्वात्॥२॥ १७७। व्यतिरेकानवस्थितेश्चानपेक्षत्वात् – प्राज्ञाधिष्ठितत्वानपेक्षत्वेन सर्वदा सृष्टिप्रसङ्गाच्च न प्रधानं कारणम्॥३॥ १७८। अन्यत्राभावाच्च न तृणादिवत् – क्षीरीभवद्धेनूपयुक्ततृणादिवत् प्रधानमपीति न युक्तं वक्तुम्, […]
श्रीवेदान्तसार: Ady 02 Pada 01
श्रीवेदान्तसार: ॥ अथ श्रीवेदान्तसारे द्वितीयाध्याये प्रथम: पाद: ॥ २–१–१ १३९। स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृतनवकाशदोषप्रसङ्गात् – उपबृंहणापेक्षे वेदान्तार्थनिर्णये सति, कपिलस्मृत्युपबृंहणेन वेदान्तार्थ: प्रधानकारणवाद इत्यनभ्युपगमे, कपिलस्मृतेरुपबृंहणानन्वयेनानवकाशप्रसक्तिरिति चेत्, न, अन्यासां वेदविरोधिनीनां बह्वीनां मन्वादिस्मृतीनां अनवकाशप्रसक्ते:। वेदस्योपबृंहणापेक्षत्वेऽपि अनन्यपराविरुद्धानेकस्मृतिषु सतीषु, विरुद्धार्थाया वेदोदितार्थविशदीकरणत्वाभावेन तस्या उपबृंहणत्वमन्याय्यमित्यर्थ: ॥ १॥ योगीन्द्रकपिलस्य तथाऽनुपलब्धे: कथं स्मृत्यन्तरं न्याय्यमिति चेत्, तत्राह – १४०। इतरेषां चानुलब्धे: – वेदार्थसाक्षात्कारचतुरमन्वादियोगीन्द्राणां कपिलदृष्टार्थानुपलब्धे: कपिलोपलब्धिर्भ्रम […]
शारीरकन्यायकलापसङ्ग्रहः
॥ श्रीः ॥ । श्रीमते रामानुजाय नमः । शारीरकन्यायकलापसङ्ग्रहः [श्रीसेनेश्वरार्यैः विरचितः] जगद्भार: सुविन्यस्त: सेनेशे यत्र विष्णुना । तस्यावतारमपरम् सेनानाथ गुरुम् भजे ॥ ॥ प्रथमोऽध्यायः – प्रथमः पादः ॥ शास्त्रावतारः [प्रतिज्ञा] प्रणम्य रामानुजसम्यमीश्वरम् प्रबोधहेतुम् हृदयाम्बुजन्मनः । करोमि तद्दर्शनमार्गगोचरम् शारीरकन्यायकलापसङ्ग्रहम् ॥१॥ [अध्यायचतुष्टयार्थः] प्रमाणता तत्प्रतियोगिभङ्गः सम्राधनम् तस्य फलोपभोगः । एतानि सम्यक् परिचिन्तितानि शास्त्रेत्विहाध्यायचतुष्टयेन ॥२॥ [प्रथमाध्यायीयपादचतुष्टयार्थाः] अस्पष्टतरमस्पष्टम् स्पष्टम् छायानुसारि […]
विषयवाक्यदीपिका जगद्व्यापारवर्जाधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। जगद्व्यापारवर्जाधिकरणम् जगद्व्यापारवर्ज्जं प्रकरणादसन्निहितत्त्वाच्च (ब्र.सू.4.4.17)बृहदारण्यके तृतीयाध्याये चतुर्थब्राह्मणे ।।ब्रह्म वा इदमग्र आसीदेकमेव तदेकँ सन्नव्यभवत तच्छ्रेयोरूपमत्यसृजत क्षत्रम् ।।एकत्वादेव विवृद्धं नाभवत् ।तच्छ्रेयोरूपमत्यसृजत् ।।तच्छ्रेष्ठं शरीरमत्यसृजत क्षत्रम् ।।क्षत्रियाख्यं श्रेष्ठं शरीरमसृजत् ।।तदेव प्रपंचयति ।।यान्येतानि देवत्रा क्षत्राणींद्रो वरुणः ।।इत्यादि।।देवत्रा देवेषु । स्पष्टमन्यत् ।।इति जगद्व्यापारवर्जाधिकरणम् ।। क्षेमाय यःकरुणया क्षितिनिर्ज्जरणां भूमावजंृभयत भाष्यसुधामुदारः ।वामागमाध्वगवदावदतूलवातो […]
विषयवाक्यदीपिका कार्याधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। कार्याधिकरणम् कार्यात्यये सहाध्यक्षेणातः परमभिधानात् (ब्र.सू.4.3.9)परामृतात्परिमुच्यंति सर्वे ।।परामृतं परमात्मानं प्राप्येति ल्यब्लोपे पंचमी ।।इति कार्याधिकरणम्
विषयवाक्यदीपिका अर्चिराद्यधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। अर्चिराद्यधिकरणम् अर्चिरादिना तत्प्रथितेः (ब्र.सू.4.3.1)स वायु मागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छति तस्मै स तत्र विजिहीते यथा डंबरस्य खमिति ।।बृहदारण्यकगतम् । रथचक्रं रध्रं यादृग्भवति तथा प्राप्ताय ब्रह्मविदे स वायुर्विजिहीते मार्गप्रदे (वे) शादवयवान्निस्सारयति ।डंबरशब्दो वाद्यविशेषवाची ।।इत्यर्चिराद्यधिकरणम् ।।
विषयवाक्यदीपिका दक्षिणायनाधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। दक्षिणायनाधिकरणम् अतश्चायनेपिदक्षिणे (ब्र.सू.4.2.19)तेषां यदा तत्पर्यवैत्यथेममेवाकाशमभिनिष्पद्यंते ।।इति बृहदारण्यकपंचाग्निविद्यागतं वचनम् । तेषां कर्मिणां यदा कर्मपर्यवैति परिक्षीणं भवति ।।ते चंद्रं प्राप्यान्नं भवंति तांस्तत्र देवा यथा सोमं राजानमाप्यायस्वापक्षीय स्वेत्येवमेनाँस्तत्र भक्षयंति ।।तदा ततश्च्युता द्रवीभूता आकाशसादृश्यं प्राप्नुवंतीत्यर्थः ।।इति दक्षिणायनाधिकरणम्