विषयवाक्यदीपिका अध्यक्षाधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। अध्यक्षाधिकरणम् सोऽध्यक्षे तदुपगमादिभ्यः (ब्र.सू.4.2.4)प्रश्नोपनिषदि षष्ठप्रश्ने ।।स ईक्षांचक्रे कस्मिन्नहमुत्क्रांते उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति स प्राणमसृजतेति ।।मदुत्क्रांतिप्रतिष्ठासहभूतोत्क्रांतिप्रतिष्ठः को वा स्यादिति विचिंत्य प्राणं जीवोऽसृजदित्यर्थः । अत्र जीवस्य प्राणस्रष्टृत्वमदृष्टद्वारा द्रष्टव्यम् ।।इति अध्यक्षाधिकरणं
विषयवाक्यदीपिका वागधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। वागधिकरणम् अत एव च सर्वाण्यनु (ब्र.सू.4.2.2)तस्मादुपशांततेजाः पुनर्भवमिंद्रियैर्मनसि संपद्यमानैर्यच्चित्तस्तेनैष प्राणमायाति ।।इदं च प्रश्नोपनिषद्गतम् । अस्य चायमर्थः । अपगतदेहौष्ण्यः सन्पुनर्जन्मप्राप्तुं मनसि संपद्यमानैरिंद्रियैः सहितं प्राणमीदृश्या मनोवासनयासहित एव सन्नागच्छतीत्यर्थः ।।।। इति वागाधिकरणम् ।।
विषयवाक्यदीपिका आसीनाधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। आसीनाधिकरणम् अचलत्वंचापेक्ष्य ४ । १ ॥ ९ ॥ छान्दोग्येसप्तमाध्यायेषष्ठखंडेभूमविद्यायाम् ॥ ध्यानंवावचित्ताद्भूयः ध्यायतीवष्टथिवीध्यायतीवांतरिक्षम् ॥ घ्यातुः श्रेष्ठयादेवध्यातारंपृथिव्यादयोप्यनुकुवैति। तस्माद्धयानंश्रेष्ठमित्यर्थः॥ यत्रैकाग्रतातत्राविशेषात् ॥ ४ ॥ १ ॥ ११ ॥ श्वेताश्वतरोपनिषदि ॥ समेशुचौशर्करावह्निवालुकाविवर्जितेशब्दजलाशयादिभिः । मनोनुकूलेनतुचक्षुः पीडने गुहानिवाताश्रयणेप्रयोजयेत् ॥ निम्नोन्नतत्वादिरहितेपरिशुद्धे क्षुद्रपाषाण वह्निवालुकारहिते वाद्यध्वनिजलाशयाद्यत्यंत सामीप्यरहिते मनोनुकूलेचक्षुः पोडनादिहेत्वौष्ण्यादिरहिते गुहादिलक्षणनिवातदेशाश्रयणेन योगमनुतिष्ठेदित्यर्थः ॥ इत्यासीनाधिकरणम् ॥
विषयवाक्यदीपिका आवृत्त्यधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। आवृत्त्यधिकरणम् आवृत्तिरसकृदुपदेशात् (ब्र.सू.4.1.1)मुण्डकोपनिषदि तृतीयमुण्डके प्रथमखण्डे ।।ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः ।।ज्ञानहेतुभूतपरमात्मप्रसादेन विशुद्धांतःकरणः सन्निरवयवं परमात्मानं ध्यायमानो ध्यायन्ध्यानेन दर्शनसमानाकारज्ञानविशेषेण परमात्मानं साक्षात्करोतीत्यर्थः । कठवल्ली मंत्रोयम् ॥इत्यावृत्त्यधिकरणम् ।।
विषयवाक्यदीपिका विधुराधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। विधुराधिकरणम् विशेषानुग्रहश्च (ब्र.सू.3.4.38)प्रश्नोपनिषदि प्रथमप्रश्ने ।।अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्वीक्ष्यादित्य मभिजयंते ।।अथशब्दो वाक्यंतरोपक्रमे । ये तावत्किं प्रजयाकरिष्याम इति विरक्ता ऋषयः ते कायक्लेशादिलक्षणेन तपसा स्त्रीसंगराहित्यलक्षणेन ब्रह्मचर्य्येणास्तिक्यबुद्धिलक्षणया श्रद्धया विद्यया प्रत्यगात्मविद्यया परमात्मानमुपास्यार्चिरादिनोत्तरेणायनेनादित्याच्चंद्रमसं चंद्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्मगमयतीत्युक्तप्रकारेण ब्रह्मप्राप्तिद्वारभूतमादित्यमभिजयंते प्राप्नुवंतीत्यर्थः ।।
विषयवाक्यदीपिका यथाश्रयभावाधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। यथाश्रयभावाधिकरणम् समाहारात् (ब्र.सू.3.3.61)छान्दोग्ये प्रथमप्रपाठके पंचमखण्डे ।।अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इति होतृषदनाद्धैवापि दुरुद्गीथमनुसमाहरति ॥अपि दुरुद्गीथं वेदनहीनमप्युद्गीथमित्यर्थः । होतृषदनात् होतृकर्तृकोद्गीथ प्रणवैक्यज्ञानादित्यर्थः । होतृषदनेत्यत्र पूर्वपदादिति षत्वम् । अयं भावः । उद्गीथप्रणवैकत्वविज्ञानं होत्रापि कर्त्तव्यमुद्गात्रापि कर्तव्यं, प्रणवे होतुरुद्गीथ उद्गातुश्च कर्तृत्वात् । तत्रोद्गातुरेतादृशैकत्वविज्ञानाभावेन दोषयुक्तमप्युद्गात्रा […]
विषयवाक्यदीपिका पूर्वविकल्पाधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। पूर्वविकल्पाधिकरणम् पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवत् (ब्र.सू.3.3.44)बृहदारण्यके वाजसनेयके अग्निरहस्ये ।।तत् षट्त्रिंशतं सहस्राण्यपश्यदात्मनोऽग्नीनर्कान्मनोमयान्मनश्चितः ॥तन्मन एव षट्त्रिंशत्सहस्रदिनात्मकपुरुषायुषान्तर्गतैकैकदिनप्रभवमानसवृत्तिसङ्धानग्नित्व-दृष्ट्योपास्यमानान्मनश्चितः आत्मनःसंबंधिनः । अत एव अर्कान् अर्चनीयान्मनोमयान्मनोनिष्पाद्यानपश्यदित्यर्थः । कर्मण्यग्न्याख्यायामिति मनश्चीयत इत्यर्थे श्येनचिदादिशब्दवदसौ क्विबन्तो निष्पन्नः मनश्चितो नामाग्नीनित्यर्थः ॥तेषु मनसैवाऽऽधीयन्त मनसाऽचीयन्त मनसैषु ग्रहा अगृह्यन्त मनसाऽस्तुवन्मनसाऽशंसन् ॥एषु मनश्चिदाद्यग्निषु उपयुक्तान्याधानचयनग्रहणस्तोत्रशस्त्राण्यपि मनोनिष्पाद्यान्येवेत्यर्थः । न च सर्वेषां मनोव्यापाराणामग्नित्वदृष्ट्या क्रोडीकृतत्वादाधानचयनग्रहणस्तोत्र शस्त्रादिदृष्टिविषयो […]
विषयवाक्यदीपिका लिङ्गभूयस्त्वाधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। लिङ्गभूयस्त्वाधिकरणम् लिंगभूयस्त्वात्तद्धि बलीयस्तदपि (ब्र.सू.3.3.43)तैत्तिरीयके षष्ठप्रश्ने दशमानुवाके ।।दह्रं विपाप्मं परवेश्मभूतं यत्पुण्डरीकं पुरमध्यसंस्थम् ।तत्रापि दह्रं गगनं विशोकस्तस्मिन्यदंतस्तदुपासितव्यम् ।।अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुंडरीकं वेश्म दहरोऽस्मिन्नंतराकाशस्तस्मिन्यदंतस्तदन्वेष्टव्यमिति च्छांदोग्योक्तरीत्योपास्यतया सन्निहितस्य परस्य ब्रह्मणः पुरभूतस्योपासकस्य शरीरस्य मध्ये संस्थितं दहरमल्पं विपाप्मं निरस्तपापं परमात्मनोऽवरवेश्मभूतं यद्धृदयपुण्डरीकं तत्रापि यदल्पं विशोकोपलक्षितापहतपाप्मत्वादिगुणकं गगनं गगनवदपरिच्छेद्यं ब्रह्म तस्मिन्नंतश्च यत्तदुभयमप्युपासितव्यमित्यर्थः । अत्र […]
विषयवाक्यदीपिका अन्तरत्वाधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। अन्तरत्वाधिकरणम् अंतरत्वाधिकरणंसू. ॥ अन्तराभूतग्रामवत्स्वात्मनोऽन्यथा भेदानुपपत्तिरिति चेन्नोपदेशवत् ॥(ब्र.सू.3.3.35)बृहदारण्यके पंचमाध्याये चतुर्थब्राह्मणारम्भे ॥अथ हैनमुषस्तश्चाक्रायणः पप्रच्छ ॥नाम्ना उषस्तः । चक्रस्य गोत्रापत्यम् । नडादिभ्यः फक् । चाक्रायणः ॥याज्ञवल्क्येति होवाच यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वांतरस्तन्मे व्याचक्ष्वेति ।।अपरोक्षादपरोक्षमित्यर्थः । सुपां सुलुगित्यादिना आदादेशः । अपरोक्षत्वं नाम सर्वदेशकालसन्निहितत्वम् । देशकालसन्निकर्षे ह्यापरोक्ष्यदर्शनाद्यदपरोक्षं साक्षाद्ब्रह्म । […]
विषयवाक्यदीपिका वेधाद्यधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। वेधाद्यधिकरणम् वेधाद्यर्थभेदात् (ब्र.सू.3.3.24)आथर्वणिका उपनिषदारंभे अधीयते ।।शुक्रं प्रविध्य हृदयं प्रविध्य धमनीः प्रविध्य शिरोभिव्रज्य त्रिधा विवृत्त इति ॥अभिचारकर्मणि देवताप्रार्थनार्थो मंत्रः । अस्य चायमर्थः । हे देवते मच्छत्रोः शुक्रं तेजिष्ठमंगं प्रविध्य । लोण्मध्यमैकवचनम् । विदारयेत्यर्थः । हृदयं प्रविध्य हृदयं च विदारयेत्यर्थः । धमनीः – सिराः प्रविध्य […]