आसृत्युपक्रमाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य द्वितीयः पादः आसृत्युपक्रमाधिकरणम् ॥ ५ ॥ *अत्र ब्रह्म समश्रुत*(कठ.२-६-१४) इत्यत्रैव विदुषो ब्रह्मभावश्रवणात् नोत्क्रान्तिरिति प्राप्ते उच्यते – समाना चासृत्युपक्रमादमृतत्वञ्चानुपोष्य ॥४-२-७॥ आसृत्युपक्रमात् आगत्युपक्रमात् । नाडीप्रवेशात् प्रागुत्क्रान्तिर्विद्वद-विदुषोस्समाना । *शतञ्चैका च हृदयस्य नाड्यस्तासाम् मूर्धानमभि-निस्सृतैका । तयोर्ध्वमायन्नमृतत्वमेती*(कठ.२-६-१६ & बृह.४-४-७)ति विदुषोऽपि नाडीविशेषेणोत्क्रमणश्रवणादुत्क्रान्तिरवर्जनीयैव । *अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्रुत*(कठ.२-६-१४) इति विदुषोऽत्रैव श्रूयमाणम् यदमृतत्वम् तदनुपोष्य शरीरेन्द्रियसम्बन्धमदग्ध्वैव […]
भूताधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य द्वितीयः पादः भूताधिकरणम् ॥४॥ *प्राणस्तेजसी*(छान्.६-८-६)ति जीवयुक्तस्य प्राणस्य तेजोमात्र एव सम्पत्तिश्रवणान्न सर्वभूतसम्पत्तिरिति प्राप्ते उच्यते – भूतेषु तच्छ्रुतेः ॥ ४-२-५॥ स जीवः प्राणस्सम्हतेषु सर्वेषु भूतेषु सम्पद्यते । *पृथिवीमय आपोमयस्तेजोमय*(बृह.६-४-५) इति सञ्चरतो जीवस्य सर्वभूतमय-त्वश्रवणेन सर्वभूतसम्पत्तेर्वक्तव्यत्वात् । नैकस्मिन्दर्शयतो हि ॥ ६ ॥ एकस्मिन् तेजोमात्रे न सम्पद्यते एकैकस्य भूतस्य कार्याक्षमत्वम् *अनेन जीवेनात्मनाऽनुप्रविश्य […]
अध्यक्षाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य द्वितीयः पादः अध्यक्षाधिकरणम् ॥३॥ *प्राणस्तेजसी*(छान्.६-८-६)ति श्रुतेः प्राणस्तेजसि सम्पद्यत इति प्राप्ते उच्यते – सोऽध्यक्षे तदुपगमादिभ्यः॥४-२-४॥ सः इन्द्रियसहितः प्राणः अध्यक्षे जीवे सम्पद्यते । *एवमेवेममात्मा-नमन्तकाले सर्वे प्राणा अभिसमायन्ती*(बृह.६-३-३८)ति प्राणानाम् जीवोपगमस्य तेन सहोत्क्रान्तेश्च श्रवणाज्जीव एव सम्पद्यते गंगया सम्युज्य सागरम् गच्छन्त्याम् यमुनायाम् यमुना सागरम् गच्छतीति प्रयोगवज्जीवद्वारा प्राणस्य तेजस्सम्पत्तावपि *प्राणस्तेजसी*(छान्.६-८-६) त्युक्तिरुपपद्यते । न च […]
मनोधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य द्वितीयः पादः मनोधिकरणम्॥२॥ *मनः प्राणे*(छान्.६-८-६) इत्यत्र मनोवृत्तेरेव प्राणे अप्यय उच्यते, मनश्शब्दस्य मनोवृत्तिष्वपि प्रचुरप्रयोगसत्त्वात् । न तु पूर्वोक्तरीत्या सम्योगविशेषस्सम्पत्तिशब्दार्थ इति प्राप्ते उच्यते – तन्मनः प्राण उत्तरात् ॥४-२-३॥ मनसो निर्व्यापारताहेतुभूतः प्राणेन सम्योगविशेष एव इहापि सम्पत्ति- शब्दार्थः । ततश्च मन एव प्राणे सम्पद्यते *मनःप्राण*(छान्.६-८-६) इत्युत्तरवाक्यादित्यर्थः । मनश्शब्दस्य मनोवृत्तिपरत्वेऽपि सम्पत्तिश्रुते-र्गौणत्वावश्यम्भावेन मनश्शब्दस्य […]
वागधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य द्वितीयः पादः वागधिकरणम् ॥ १ ॥ *वाङ्मनसि सम्पद्यते*(छान्.६-८-६) इति श्रूयमाण वाचो मनस्सम्त्ति- त्तिर्वाग्वृत्तिविषया न तु वाग्विषया । वाचो मनःप्रकृतिकत्वाभावेनाप्रकृति-भूते मनसि वाचः साक्षाल्लयासम्भवात् । न च वाग्वृत्तेरप्यप्रकृतिभूते मनसि सम्पत्तिशब्दितो लयो न सम्भवतीति वाच्यम् । मनसि स्थितेऽपि वाग्व्यापाराभावमात्रेण सम्पद्यत इत्युपपत्तेः । विद्यमानायास्तु वाचस्तादात्विकाभावस्याप्यभावेन सम्पत्तिश्रुतेरत्यन्तासम्भवादिति पूर्वपक्षे प्राप्त उच्यते – वाङ्मनसि […]
इतरक्षपणाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य प्रथमःपादः ॥ इतरक्षपणाधिकरणम् ॥ ११ ॥ *तस्य तावदेवचिरम् यावन्नविमोक्ष्येऽथ सम्पत्स्य*(छान्.६-२४-२) इति विद्यायोनिशरीरपातमात्रस्यैवान्तरायत्व श्रवणात् प्रारब्धयोः पुण्य-पापकर्मणोस्सत्वेऽपि विद्यायोनिशरीरावसान एव मोक्ष इति प्राप्त उच्यते – भोगेन त्वितरे क्षपयित्वाऽथ सम्पद्यते ॥ ४-१-१९ ॥ तुशब्दः पक्षव्यावृत्त्यर्थः । आरब्धकार्ये पुण्यपापे फलभोगेन क्षपयित्वा ब्रह्म सम्पद्यते । ते च प्रारब्धपुण्यपापे विद्यायोनिशरीरमात्रोपभोग्यफले चेत् विद्यायोनिशरीरावसाने अनेकशरीरभोग्यफले चेत् तदवसाने […]
अग्निहोत्राद्यधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य प्रथमःपादः ॥ अग्निहोत्राद्यधिकरणम् ॥ १० ॥ विद्योत्पत्त्यनन्तरभाविनामाश्रमधर्माणाम् सुकृतत्वाविशेषेण विद्योत्प-त्तिकार्यार्थत्वाभावेन च अनारब्धकार्यस्य विद्याननुगुणकारीर्यादिकर्मवद-श्लेषस्यैव वक्तव्यत्वात् आश्रमकर्मत्वेनानुष्ठानेऽपि विद्यार्थतया अनुष्ठानमेव युक्तमिति प्राप्तेऽभिधीयते – अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥४-१-१६॥ अग्निहोत्राद्याश्रमकर्म विद्योत्पत्त्याख्यकार्यायैव आप्रयाणादनुष्ठेयमेव । *तमेतम् वेदानु वचनेने*(बृह.६-४-२२)त्यादिना विद्योत्पत्तिकार्यार्थत्व-दर्शनात् । न च विद्याया निष्पन्नतया न तदर्थमनुष्ठानमावश्यकमिति वाच्यम् । आप्रयाणादनुवर्तनीयाया अहरहरभ्यासाधेयातिशयाया विद्याया अहरहरुत्पत्त्यर्थमनुष्ठानस्यावश्यकत्वात् । नन्वेवमग्निहोत्रादिसाधुकृत्या विद्योत्पत्त्यर्था […]
अनारब्धकार्याधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य प्रथमःपादः ॥ अनारब्धकार्याधिकरणम् ॥ ९ ॥ *एवम् हास्य सर्वे पाप्मानः प्रदूयन्त*(छान्.५-२४-३)ति सर्वकर्म-प्रदाहश्रवणात् ब्रह्मविद्योत्पत्त्यनन्तरमेव सर्वकर्मणाम् नाशः । देहस्थि-तिस्तु चक्रभ्रमणादिवत्सम्स्कारवशादप्युपपद्यत इति प्राप्ते उच्यते – अनारब्धकार्ये एव तु पूर्वे तदवधेः॥४-१-१५॥ विद्योत्पत्तेः प्राचीने अनारब्धकार्ये एव सुकृतदुष्कृते नश्यतः नत्वा-रब्धकार्ये । *तस्य तावदेव चिरम् यावन्न विमोक्ष्य*(छान्.६-१४-२) इति शरीरपातविलम्बावधिश्रवणाद्यावच्छरीरधारणम् प्रारब्धकर्मानुवृत्तेरवश्य-म्भावात्, कर्मव्यतिरिक्तस्य देहधारकसम्स्कारस्य सद्भावे प्रमाणाभावा-दित्युक्तम् ॥ […]
इतराधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य प्रथमःपादः ॥ इतराधिकरणम् ॥८॥ पुण्यकर्मफलस्य सुखरूपत्वेन विदुषोऽनिष्टत्वाभावात् नाश्लेषविनाशा-विति पूर्वपक्षे प्राप्त उच्यते – इतरस्याप्येवमसम्श्लेषः पाते तु ॥ ४-१-१४ ॥ विदुषः पुण्यस्यापि मोक्षविरोधित्वेन अनिष्टफलत्वसाम्यादेव अश्लेष-विनाशौ । विद्यानुगुणस्य वृष्ट्यन्नारोग्यफलस्य शरीरपाते सति अनिष्ट-त्वादश्लेषः । इति इतराधिकरणम् ॥
तदधिगमाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य प्रथमःपादः ॥ तदधिगमाधिकरणम् ॥ ७ ॥ *नाभुक्तम् क्षीयते कर्म कल्पकोटिशतैरपी*(ब्रह्मवैवर्त प्रकृतिखण्ड.२६-अ.७० श्लो)ति भोगादेव कर्मक्षयश्रवणात् अश्लेषविनाशश्रुतिः कथञ्चित् विद्यास्तुत्यर्थतया नेयेति प्राप्त उच्यते – तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॥ ४-१-१३ ॥ उपासने प्रारब्धे तत्समार्थ्यादेव पूर्वाघविनाशः उत्तराघाश्लेषश्च भवति तद्व्यपदेशात् । *एवम् हास्य सर्वे पाप्मानः प्रदूयन्ते*(छान्.५-२४-३)। *एवमेवम् विदि पापम् कर्म न श्लिष्यत*(छान्.४-१४-३) इति श्रुतेः । […]