आप्रयाणाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य प्रथमःपादः ॥ आप्रयाणाधिकरणम् ॥ ६ ॥ इदमपवर्गसाधनमुपासनम् एकस्मिन्नेवाहनि कार्यम् शास्त्रार्थस्य तावतैव कृतत्वादिति पूर्वपक्षे प्राप्ते उच्यते – आप्रयाणात्तत्रापि हि दृष्टम् ॥४-१-१२॥ उपासनम् आमरणमनुवर्तनीयम् *स खल्वेवम् वर्तयन् यावदायुषम् ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तते न च पुनरावर्तत*(छान्.८-१५-१) इति उपासनस्य यावदायुषमनुवर्तनीयत्वविधानात् । इति आप्रयाणाधिकरणम् ॥
आप्रयाणाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य प्रथमःपादः ॥ आप्रयाणाधिकरणम् ॥ ६ ॥ इदमपवर्गसाधनमुपासनम् एकस्मिन्नेवाहनि कार्यम् शास्त्रार्थस्य तावतैव कृतत्वादिति पूर्वपक्षे प्राप्ते उच्यते – आप्रयाणात्तत्रापि हि दृष्टम् ॥४-१-१२॥ उपासनम् आमरणमनुवर्तनीयम् *स खल्वेवम् वर्तयन् यावदायुषम् ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तते न च पुनरावर्तत*(छान्.८-१५-१) इति उपासनस्य यावदायुषमनुवर्तनीयत्वविधानात् । इति आप्रयाणाधिकरणम् ॥
आसीनाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य प्रथमःपादः ॥ आसीनाधिकरणम् ॥५॥ आसीनस्सम्भवात् ॥४-१-७॥ आसीन एव उपासीत | तस्यैव उपासनस्य सम्भवात् । तिष्ठतो गच्छतश्च यत्नसापेक्षत्वात् शयानस्य निद्राप्रसक्तेश्च उपासनस्य ध्यान-रूपत्वाच्च एकाग्रचित्ततावश्यम्भावात् चित्तैकाग्र्यस्यासन सापेक्षत्वा-च्चासीन एव कुर्यात् । ध्यानाच्च ॥ ४-१-८ ॥ सजातीयप्रत्ययान्तराव्यवहितचिन्तालक्षणध्यानलक्षणत्वादुपासनस्य तत्र च चित्तैकाग्र्यावश्यम्भावेन तत्सिद्धये आसीनत्वस्यापेक्षितत्वाच्च । अचलत्वञ्चापेक्ष्य ॥ ४-१-९ ॥ *ध्यायतीव पृथिवी ध्यायतीवान्तरिक्षमि*(छान्.७-३-७)त्यादिषु निश्चलत्वधर्मेण ध्यातृसाम्यव्यपदेशदर्शनात् ध्यातृनिश्चलत्वस्यापेक्षि-तत्वात् […]
आदित्यादिमत्यधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य प्रथमःपादः ॥ आदित्यादिमत्यधिकरणम् ॥ ४ ॥ *य एवाऽसौ तपति तमुद्गीथमुपासीते*(छान्.१-३-१)त्यत्र कर्माङ्गभूत-उद्गीथे आदित्यदृष्टिः कर्तव्या उतादित्ये उद्गीथदृष्टिरिति विशये *ब्रह्मदृष्टि-रुत्कर्षादि*(ब्र.सू.४-१-५)ति सूत्रोक्तन्यायेनोत्कृष्टदृष्टेरेवापकृष्टे कर्तव्यत्वात्, कर्माङ्गस्योद्गीथस्य कर्मोपकारकत्वेनोत्कृष्टतया तद्बुद्धिरेवादित्ये कर्तव्येति पूर्वपक्षे प्राप्ते उच्यते – आदित्यादिमतयश्चाङ्ग उपपत्तेः ॥ ४-१-६ ॥ अत्र चशब्दोऽवधारणे । अङ्ग एवादित्यादिमतयः कार्याः । कर्मा-राध्यतया आदित्यादीनामेवोत्कृष्टत्वस्योपपत्तेरिति ॥ इति आदित्यादिमत्यधिकरणम् ॥
प्रतीकाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य प्रथमःपादः ॥ प्रतीकाधिकरणम् ॥ ३ ॥ *मनो ब्रह्मेत्युपासीते*(छान्.३-१८-१)ति प्रतीकोपासनस्यापि ब्रह्मोपासन-त्वाविशेषात् ब्रह्मणश्च उपासितुरात्मत्वेन आत्मत्वेनैवोपासनम् कार्यमिति पूर्वपक्षे प्राप्त उच्यते । न प्रतीके न हि सः ॥४-१-४॥ मनोविशेष्यकब्रह्मविशेषणकोपासने ब्रह्मणः दृष्टिविशेषणत्वेन विशेष्य-भूतमनसः उपासकम् प्रत्यात्मत्वासम्भवेन अब्रह्माणि मनसि ब्रह्मदृष्ट्या-नुसन्धानमेवेदम् । ननु अत्रापि ब्रह्मण एवोपास्यत्वमस्तु अचेतनस्य अल्पशक्तेर्मन आदेरुपास्यत्वासम्भवात् मनसः दृष्टिविशेषणत्वमङ्गीकृत्य ब्रह्मण एवोपास्यत्वस्य न्याय्यत्वादित्यत्राह – ब्रह्मदृष्टिरुत्कर्षात् […]
आत्मत्वोपासनाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य प्रथमःपादः ॥ आत्मत्वोपासनाधिकरणम् ॥ २ ॥ *पृथगात्मनम् प्रेरितारञ्च मत्वा जुष्टस्ततस्तेनामृतत्वमेती*(श्वेत.१-६)ति जीवेश्वरपृथक्त्वज्ञानस्य अमृतत्वसाधनत्वश्रवणात् स्वात्मानम् प्रत्यपृथक्सिद्धविशेष्यत्वलक्षणमात्मत्वम् ब्रह्मणो नास्त्येव । अत एव *आत्मेत्येवोपासीते*(बृह.३-४-७)तीतिकरणेन दृष्टिविधित्वम् सूच्यते । तादृशी च दृष्टिर्न मोक्षार्थोपासन विषया । ततश्च मोक्षोपासने तात्त्विक-विषयत्वावश्यम्भावेनातस्मिन्स्तदारोपरूपदृष्टिविधेरयुक्तत्वात् पृथक्त्वे-नैवानुसन्धानम् कार्यम् नत्वपृथक्सिद्धविशेष्यत्वरूपात्मत्वेनेति पूर्वपक्षे पठति – आत्मेति तूपगच्छन्ति ग्राहयन्ति चेति ॥ ४-१-३ ॥ *त्वम् वा अहमस्मि […]
आवृत्त्यधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थोऽध्यायः ॥ चतुर्थस्याध्यायस्य प्रथमःपादः ॥ आवृत्त्यधिकरणम् ॥ १ ॥ *ब्रह्मविदाप्नोति परमि*(तै.अ.१-२)त्यादिषु मोक्षसाधनम् वेदनम् सकृत्कृतमेव शास्त्रार्थः । *स यो ह वै तत्परमम् ब्रह्म वेद ब्रह्मैव भवती*(मुण्ड.३-२-९)ति ब्रह्मवेदनस्य परप्राप्त्युपायत्वश्रुतेः सकृत्कृतेऽपि वेदने शास्त्रार्थनिर्वृत्तेः असकृदावृत्तौ ज्योतिष्टोमादेरिव फल-भूम्नः कल्पनीयतया अपुनरावृत्तिलक्षण मोक्षरूपफलभेदस्याभावाच्चेति पूर्वःपक्षः । सिद्धान्तस्तु – आवृत्तिरसकृदुपदेशात् ॥ ४-१-१ ॥ असकृदावृत्तम् वेदनमित्यर्थः । […]
मुक्तिफलाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥ मुक्तिफलाधिकरणम् ॥१५॥ *यक्षानुरूपो बलिरि*ति न्यायेन बलवत्कर्मसाध्यानाम् मुक्तिफलक-ब्रह्मोपासनानाम् प्रबलकर्मान्तरप्रतिबन्धासम्भवात् नियतैहिकत्वमेवेति पूर्वपक्षः । सिद्धान्तस्तु एवम् मुक्तिफलानियमस्तदवस्थावधृते– स्तदवस्थावधृतेः ॥ ३-४-५१ ॥ मुक्तिफलकविद्यानामपि ऐहिकत्वनियमो नास्ति, अप्रस्तुतप्रतिबन्ध-त्वरूपावस्थाया अविशेषेण तत्राप्यवधृतत्वात् । तत्रापि प्रबलानाम् ब्रह्म-विदपचारादिप्रतिबन्धकानाम् सम्भवात् । द्विरुक्तिरध्यायपरिसमाप्त्यर्था ॥ इति मुक्तिफलाधिकरणम् ॥ ***** श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयःपादः ॥ तृतीयोऽध्यायस्समाप्तः ॥ *****
ऐहिकाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥ ऐहिकाधिकरणम् ॥१४॥ मुक्तिव्यतिरिक्तफलकोपासनानामुद्गीथविद्यारहितयज्ञादिकर्मनिष्पाद्या-नामपि यज्ञादि रूपसाधननिष्पत्तौ सत्याम् विळम्बे हेत्वभावात् इह जन्मन्येव निष्पत्तिरिति पूर्वपक्षः – सिद्धान्तस्तु ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥ ३-४-५० ॥ मुक्तिव्यतिरिक्तफलकमुपासनम् अप्रस्तुतप्रतिबन्धे प्रतिबन्धाभावे ऐहिकम् इहैव जन्मनि सम्भवति । सति प्रतिबन्धे जन्मान्तरे । न च प्रतिबन्धासम्भवश्शङ्कनीयः । *यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरम् भवती*(छान्.१-१-१०)ति उद्गीथविद्यायाः प्रबलकर्मान्तरा-प्रतिबद्धफलत्वावेदनेन […]
अनाविष्काराधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥ अनाविष्काराधिकरणम् ॥ १३ ॥ *बाल्येन तिष्ठासेदि*(बृह.५-५-१)त्यत्र बाल्यशब्दस्य भावकर्म-साधारणत्वेऽपि वयोविशेषलक्षण बालभावस्य इच्छया सम्पादितुम-शक्यत्वेनाविधेयत्वात् कर्मैव विधेयम् । तत्र कामचारकाम वादका-मभक्षत्वादिकम् यद्बालस्य कर्म यच्च डम्भादिराहित्यलक्षणम् स्वमाहात्म्यानाविष्करणरूपम् कर्म तत्सर्वम् बाल्यशब्देन विधेयम्, अविशेषात् । न च निषिद्धस्य कामचारादेर्विधानमयुक्तमिति वाच्यम् । वामदेव्योपासनाङ्गतया प्रार्थयमानसर्वयोषिदपरिहारलक्षणनिषिद्धकर्म-विधानवद्विद्याङ्गतया निषिद्धस्यापि कामचारादेर्विधानसम्भवादिति पूर्वपक्षे प्राप्ते उच्यते – अनाविष्कुर्वन्नन्वयात् ॥ ३-४-४९ […]