अपशूद्राधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् प्रथमाध्यायस्य तृतीयः पादः ॥ अपशूद्राधिकरणम् ॥९॥ वस्वादीनामर्थित्वसामर्थ्ययोस्सम्भवात् ब्रह्मविद्यायामधिकारोऽस्तीत्युक्तम्, तर्हि शूद्राणामप्यधिकारस्स्यादिति शङ्कया सङ्गतिः । छान्दोग्ये सम्वर्गविद्यायाम् रैक्वो जानश्रुतिम् *आजहार इमाश्शूद्रे*(छान्.४-२-५)त्यामन्त्र्य ब्रह्मविद्यामुपदिदेशेति श्रवणात्, विदुरादीनाम् ब्रह्मनिष्ठानामपि दर्शनात्, अग्निविद्यासाध्ययज्ञादिषु अग्निविद्याशून्यानाम् शूद्राणाम् कर्मकाण्डा-पशूद्राधिकरणन्यायेन अधिकारासम्भवेऽपि ब्रह्मोपासने अधिकारस्सम्भवत्येव । न च शूद्रस्य ब्रह्मोपासनोपयुक्तज्ञानाभावशङ्कनीयः । इतिहासपुराणादिना तज्ज्ञानसम्भवात् । न चैवम् यज्ञादिष्वपि तथा प्रसङ्गः अग्नयभावात् । […]
मध्वधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् प्रथमाध्यायस्य तृतीयः पादः ॥ मध्वधिकरणम् ॥८॥ मध्वादिष्वसम्भवादनधिकारम् जैमिनिः ॥१–३–३० ॥ पूर्वाधिकरणे देवादीनाम् ब्रह्मविद्यायाम् सामान्येनाधिकारोऽस्तीत्युक्तम् । इदानीम् वस्वादिदेवताविशेषाणाम् मधुविद्यायाः वस्वादिगणभोग्यरोहितरूपा-दिपञ्चामृताश्रयादित्योपासनरूपतया अस्याम् विद्यायामधिकारस्सम्भवति नेति विचार्यत इति प्रासङ्गिकी सङ्गतिः । विचारोपयोगीनि मधुवाक्यानि सङ्ग्रहेण लिख्यन्ते *असौ वा आदित्यो देवमधु*(छान्.३-१-१) असावादित्यो वस्वादीनाम् देवतानामामोदहेतुत्वान्मधु । अत्र मधुत्वदृष्टिः कर्तव्येत्यर्थः । मधुत्वोपयोगीनि सम्पादयति *तस्य […]
देवताधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् प्रथमाध्यायस्य तृतीयः पादः ॥ (पे–३) देवताधिकरणम् ॥७॥ मनुष्याधिकारप्रसङ्गात् देवानाम् ब्रह्मविद्यायामधिकारोऽस्ति न वेति प्रासङ्गिकी सङ्गतिः । ननु वस्वादिदेवतानाम् नानाविग्रहाभावेन उपासनसामर्थ्याभावात् कथमुपा-सनाधिकारः । न हि देवादीनाम् शरीरवत्त्वे प्रमाणमुपलभ्यते । न तावत् प्रत्य-क्षानुमाने तस्य तदगोचरत्वात् । नापि *वज्रहस्तः पुरन्दरः*(तै.अष्ट.२,प्रश्न.६,अनु. ७-३४), तेनेन्द्रो वज्रमुदयच्छदि*(तै.सम्हि.काण्ड-२,प्रश्न.४,अनु.१२) त्यादीनाम् प्रामाण्यम् । मन्त्रार्थवादानाम् – अनुष्ठेयस्मृतिस्तुतिप्रयोजनकतया विग्रहादौ तात्पर्याभावेन […]
प्रमिताधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् प्रथमाध्यायस्य तृतीयः पादः ॥ प्रमिताधिकरणम् ॥६॥ शब्दादेव प्रमितः ॥१–३–२३॥ पूर्वत्र अणीयस्त्वरूपमल्पपरिमाणम् परस्मिन्नुपपादितम् । इदानीमङ्गुष्ठ-मात्रत्वमप्यल्पपरिमाणम् तस्य उपपद्यत इति सङ्गतिः । *अङ्गुष्ठमात्रः पुरुषो मद्ध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य न ततो विजुगुप्सते*(कठ २-४-१२) । कालत्रयवर्तिनिखिलचेतनाचेतनेश्वरः पुरुषः उपा-सकशरीरमध्ये अङ्गुष्ठपरिमाणस्सन्नास्ते । ततो भूतभव्येशानत्वादेव वात्सल्या-तिशयाद्देहगतानपि दोषान् भोग्यतया पश्यतीत्यर्थः । ननु अयम् […]
दहराधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् प्रथमाध्यायस्य तृतीयः पादः ॥ दहराधिकरणम् ॥५॥ पूर्वाधिकरणे *परात्परम् पुरिशयम् पुरुषमीक्षत*(प्रश्न.५-५) इत्युक्तस्य पुरिशयस्य परमात्मत्वम् समर्थितम् इहापि तथैव पुरिशयस्य परमात्मत्वम् समर्थ्यत इति सङ्गतिः । छान्दोग्ये – *अथ यदिदमस्मिन् ब्रह्मपुरे दहरम् पुण्डरीकम् वेश्म दहरोऽ–स्मिन्नन्तर आकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यम् तद्वाव विजिज्ञासितव्यमि* (छान्.८-१-१)ति । विद्यान्तरारम्भनिदर्शनार्थोऽयमथशब्दः । उपास्यतया सन्नि-हितस्य परब्रह्मणः स्थानतया नवद्वारादिमत्त्वेन च पुरशब्दिते अस्मिन् […]
ईक्षतिकर्माधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् प्रथमाध्यायस्य तृतीयः पादः ॥ ईक्षतिकर्माधिकरणम् ॥४॥ प्रश्नोपनिषदि – *अथ हैनम् शैब्यस्सत्यकामः पप्रच्छ*(प्रश्न.५-१) स्पष्टोऽर्थः । *स यो ह वै तद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत कतमम् वा व स तेन लोकम् जयती*(प्रश्न.५-१)ति, हे भगवान् योऽधिकारी मनुष्याणाम् मध्ये मरणान्तमोङ्कारमभिध्यायति सः कतमम् लोकम् तेन ओङ्कारेण आप्नोतीत्यर्थः । *तस्मै स होवाच एतद्वै सत्यकाम परञ्चापरञ्च ब्रह्म यदोङ्कारः तस्मादिद्वाने […]
अक्षराधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् प्रथमाध्यायस्य तृतीयः पादः ॥ अक्षराधिकरणम् ॥ ३ ॥ यथा जीवादूर्ध्वमुपदेशात् भूमा न जीवः, एवम् प्रधानादूर्ध्वमुप-देशादक्षरम् न प्रधानमिति समर्थ्यत इति सङ्गतिः । *वाजसनेयके गार्गिब्राह्मणे – *एतद्वै तदक्षरम् गार्गि*(बृह.५-८-८)। एतदधिकरणचिन्तोपयुक्तविषयाम्शो लिख्यते – *अहम् त्वा द्वाभ्याम् प्रश्नाभ्यामुपोदस्थाम्*(बृह.५-८-२) *गातिस्थे*(अष्टा.२-४-७७)ति सिचो लुक् । *तौ मे ब्रूहीति*(बृह.५-८-२) । याज्ञवल्क्य आह – *पृच्छ गार्गीति*(बृह.५-८-२) । […]
भूमाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् प्रथमाध्यायस्य तृतीयः पादः ॥ भूमाधिकरणम् ॥२॥ मुण्डके परमात्मप्रकरणाविच्छेदेन परमात्मत्वम् साधितम् । तर्हि भूम विद्यायाम् जीवप्रकरणाविच्छेद इति शङ्कया उत्थिता सङ्गतिः । छान्दोग्ये एतदधिकरणविषयाणामर्थ उच्यते । *अधीहि भगव इति होप-ससाद सनत्कुमारम् नारदः । यद्वेत्थ तेन मोपसीदत तस्त ऊर्ध्वम् वक्ष्यामीति* (छान्.७-१-१) – ज्ञाताम्शमुक्त्वा मत्समीपे उपसीद ततश्श्रुत्वा अज्ञाताम्शम् ते वदिष्यामीत्युक्तवानित्यर्थः । *स होवाच […]
द्युभ्वाद्यधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् प्रथमाध्यायस्य तृतीयः पादः ॥ (पे–१) द्युभ्वाद्यधिकरणम् ॥१॥ *यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतम् मनस्सह प्राणैश्च सर्वैस्तमेवैकम् जानथात्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः*(मुण्ड.२-२-५) यस्मिन्नक्षरे द्युपृथिव्यन्तरिक्षमनः प्राणादिकम् समवेतम्, तमेकमेव स्वेतरसमस्तवस्तु- नियन्तृत्वेन व्यापकतया आत्मानम् जानीथ अनात्मविषया वाचस्सन्त्यजत । *अमृतस्यैष सेतुः*(मुण्ड.२-२-५) नद्यादिषु सेतुर्हि कूलस्य प्रतिलम्भकः, सम्सारार्णवपारभूतस्य अमृतस्यैष प्रतिलम्भक इत्यर्थः । *अरा इव रथनाभौ सम्हता यत्र नाड्यः स […]
वैश्वानराधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाव प्रथमाध्यायस्य द्वितीयः पादः ॥ वैश्वानराधिकरणम् ॥६॥ त्रैलोक्यात्मकरूपोपन्यासात् अक्षरवद्वैश्वानरोऽपि परमात्मेति निर्णीयत इति सङ्गतिः । छान्दोग्ये *यस्त्वेतमेवम् प्रादेशमात्रमभिविमानमात्मानम् वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति*(छान्.५-१८-१) अभिविमानम् – सर्वाभिव्याप्ततया विगतमानम् विश्वेषाम् नराणाम् नेतारम् एतमात्मानम् प्रादेश-मात्रम् – द्युलोकादिप्रदेशसम्बन्धिनी प्रादेशीमात्रा यस्य तम् प्रादेशमात्रम् । द्युप्रभृतिप्रदेश परिच्छिन्नम् य उपास्ते स सर्वलोकसर्वभूतसर्वात्मवृत्तिब्रह्म-रूपमन्नमत्ति । सर्वत्र […]