अदृश्यत्वादिगुणकाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाव प्रथमाध्यायस्य द्वितीयः पादः ॥ अदृश्यत्वादिगुणकाधिकरणम् ॥५॥ मुण्डकोपनिषदि – *शौनको ह वै महाशालोऽङ्गिरसम् विधिवदुपसन्नः पप्रच्छ, कस्मिन्नु भगवो विज्ञाते सर्वमिदम् विज्ञातम् भवतीति*(मुण्ड.१-१-३) सर्वोपादानम् किमिति प्रश्नार्थः । *तस्मै स होवाच द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति*(मुण्ड.१-१-४) । अत्र प्राप्तुमित्यध्याहारः । अत्र यद्वस्तु प्राप्तुम् द्वे ज्ञाने उपादेये इति ह वेदाभिज्ञाः […]
अन्तर्याम्यधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाव प्रथमाध्यायस्य द्वितीयः पादः ॥ अन्तर्याम्यधिकरणम् ॥४॥ *स्थानादिव्यपदेशाच्चे*(ब्र.सू.१-२-१४)तिसूत्रे *यश्चक्षुषि तिष्ठन्नि*(बृह.५-७-१८)त्यादिना उक्तम् चक्षुषि स्थितिनियमनादिकर्म परमात्मधर्म इति सिद्धव-त्कृत्वा अक्षिपुरुषस्य परमात्मधर्मत्वम् साधितम् । तदेवेदानीम् समर्थ्यत इति सङ्गतिः । अन्तर्यामिब्राह्मणमस्य विषयः । तत् सङ्गृहा लिख्यते – *अथ हैनमुद्दालक आरुणि: पप्रच्छ*(बृह-५-७-१) अरुणस्यापत्यमारुणिः *याज्ञवल्क्येति होवाच मद्रेष्ववसाम पतञ्जलस्य गृहेषु यज्ञमधीयानाः*(बृह-५-७-१) । *गृहाः पुम्सि च भूम्न्येव*(अमर […]
अन्तराधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाव प्रथमाध्यायस्य द्वितीयः पादः ॥ अन्तराधिकरणम् ॥३॥ एतदधिकरणचिन्तोपयुक्तम् प्रकरणमेव लिख्यते – *अथ हाग्नयस्समूदिरे तप्तो ब्रह्मचारी कुशलन्नः पर्यचारीत् हन्तास्मै ब्रह्मा-वोचामे*(छान्.४-१०-४)ति स्पष्टोऽर्थः । *तस्मै होचुः । प्राणो ब्रह्म कम् ब्रह्म खम् ब्रह्मेति । स होवाच विजानाम्यहम् यत् प्राणो ब्रह्म कञ्च तु खञ्च न विजानामीति* (छान्.४-१०-५) अस्यायमभिप्रायः मुमुक्षोर्मोक्षोपदेशाय प्रवृत्तैरग्निभिः ब्रह्मैवोपा- स्यमुपदिष्टम् […]
अत्त्रधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाव प्रथमाध्यायस्य द्वितीयः पादः ॥ अत्त्रधिकरणम् ॥२॥ कठवल्लीष्वाम्नायते – *यस्य ब्रह्म च क्षत्रञ्च उभे भवत ओदनः | मृत्युर्यस्योपसेचनम् क इत्था वेद यत्र सः*(कठ.१-२-२४) ब्रह्मक्षत्राख्यवर्णद्वयोपलक्षितकृत्स्नचराचरात्मकमिदम् जगत् यस्यौदनो भवति – विनाश्यम् भवतीत्यर्थः । यस्य मृत्युः स्वयमद्यमानत्वे सति अन्यस्या-दनहेतुर्भवति तत्प्रकारम् इदमित्थमिति को वेदेत्यर्थः । ननु ब्रह्मक्षत्रशब्देन कृत्स्नचराचरग्रहणे किम् बीजमिति चेत्, उच्यते – […]
सर्वत्रप्रसिद्ध्यधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाव प्रथमाध्यायस्य द्वितीयः पादः ॥ सर्वत्रप्रसिद्ध्यधिकरणम् ॥१॥ प्रथमे पादे समस्तप्रपञ्चविलक्षणपुरुषोत्तमाख्यवेदान्तवेद्यम् ब्रह्म एव जगत्कारणत्वम् प्रसाधितम् । तत्र जन्मादिसूत्रे ब्रह्म कारणमेव ब्रह्मैव कारणमिति अयोगान्ययोगव्यवच्छेदौ लक्षणस्य असम्भवातिव्याप्तिपरिहा- राय विवक्षितौ । तत्र अयोगव्यवच्छेदः प्रथमपादेन विवक्षितः । अन्ययोगव्यवच्छेदार्थस्त्रिपाद्यारम्भ इति विभागः । पूर्वपादे अस्पष्ट-जीवलिङ्गकानि विचारितानि। स्पष्टजीवलिङ्गानि द्वितीये, स्पष्टतरजीव-लिङ्गानि तृतीये, प्रधानच्छायानुसारीणि तुरीये, इति प्रायिकोऽयम् पादार्थ-विभागः । […]
इन्द्रप्राणाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥ इन्द्रप्राणाधिकरणम् ॥११॥ कौषीतकिनामुपनिषदि – *प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियम् धामोपजगाम तम् हेन्द्र उवाच प्रतर्दन वरम् ते ददानीति स होवाच प्रतर्दनः त्वमेव वरम् वृणीष्व यम् त्वम्, मनुष्याय हिततमम् मन्यसे* (कौषी.३-१) स्पष्टोऽर्थः । *स होवाच मामेव विजानीहोतदेवाहम् मनुष्याय हिततमम् मन्ये*(कौषी.३-९) मोक्षसाधनमिति मम मतम् । अत-इतरत्प रित्यज्य मामुपास्वेत्यर्थः […]
ज्योतिरधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥ ज्योतिरधिकरणम् ॥१०॥ एवम् श्रुत्यवलम्बनपूर्वपक्षावान्तरपेटिका उक्ता । अथ कारणत्वाक्षेपक- लिङ्गानुगृहीतश्रुत्यवलम्बनमवान्तरपेटिकान्तरम् प्रस्तूयते । यद्यपि एतदधिकरणस्य *अथ यदतःपरो दिवो ज्योति*(छान्.३-१३-७) रित्यत्र ज्योतिश्शब्द एव सन्देहविषयः, तथाऽपि द्वितीयसूत्राद्यर्थवर्णनोप-युक्ततया लिख्यते । तथा हि-चतुष्पात्वषाङ्विध्याभ्याम् ब्रह्मणि गायत्री-सादृश्यानुसन्धानरूपा विद्या प्रस्तूयते । चतुर्विम्शत्यक्षरयुक्ता षडक्षरपाद- चतुष्टयवती च गायत्री भवति । तच्छन्दः पाञ्चालशाखाध्यायिनः उदाह-रन्ति – *पेटिला लगन्ते […]
प्राणाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥ प्राणाधिकरणम् ॥९॥ चिन्तोपयुक्तवाक्यानि व्याख्यायन्ते । *अथ हैनम् प्रस्तोतोपससाद* (छान्.१-११-४) उषस्तिवचनम् श्रुत्वा प्रस्तोता विनयेन उषस्तिसमीपमाग- तवानित्यर्थः । *प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता ताञ्चेदविद्वान प्रस्तो-ष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् कतमा सा देवतेति* (छान्.१-११-४) भगवान् माम् प्रति *प्रस्तोतर्या देवते*(छान्.१-११-४)त्या-दिना यान्देवतामुक्तवान् सा देवता केति पप्रच्छेत्यर्थः । *प्राण इति होवाच *(छान्.१-११-५) […]
आकाशाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥ आकाशाधिकरणम् ॥८॥ एवम् सद्विद्यानन्दवल्लीप्रतिपाद्यम् जगत्कारणवस्तु जीवस्स्या-दित्याक्षेपेणोत्थानादवान्तरसङ्गतिः । अथ जगत्कारणम् आकाशप्राणादिकमेव न ततोऽन्यत् जगत्कारणम् ब्रह्मास्त्विति श्रुत्यवलम्बपूर्वपक्षादवान्तरपेटिका । पेटिकान्तरम् प्रस्तूयते- पूर्वम् आदित्यपुरुषस्य वैशेषिकलिङ्गात् वेदान्तवेद्यजगत्कारणत्वमुक्तम्, तदयुक्तम् । लिङ्गतः प्रबलया श्रुत्या भूताकाशस्यैव कारणत्वात् इत्याक्षेपेणोत्थानादवान्तरसङ्गतिः । *त्रयो होद्गीथे कुशला बभूवुश्शिलकश्शालावत्यश्चेकितानो दाल्भ्य: प्रवाहणो जैवलिरिति । ते होचुः उद्गीथे वै […]
अन्तरधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥ अन्तरधिकरणम् ॥७॥ जगत्कारणम् वस्तु ईक्षणश्रवणात् *तत्त्वमसी*(छान्.६-(८-१६)) त्युप-सम्हाराच्च मा भूत्प्रधानम् मा भूच्चजीवसामान्यम् ततो भेदनिर्देशात् । तथाप्युपचितपुण्यविशेषाणाम् ब्रह्मादीनाम् विश्वामित्रा-दीनामृषीणाम् वा मध्ये यःकश्चित् जीवविशेष: कल्पभेदेन स्यात्, तत्र आनन्दवल्ल्युक्तजीव- सामान्यव्यावर्तकसकलमहिमोपपत्तेरिति शङ्कायाम् एतदधिकरणोत्थानम् । द्विर्देवताविषयकवाक्यमुदाह्रियते *अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते*(छान्.१-६-६) । आदित्यमण्डलस्यान्तः हिरण्मयः रमणीयः यो योगिभिर्दृश्यत इत्यर्थः। *हिरण्मय इति रूपसामान्यात् […]