आनन्दमयाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥ आनन्दमयाधिकरणम् ॥६॥ यदि सतो मुख्यमीक्षणम् वाच्यम् तर्हि चेतनत्वान्मुख्येक्षणार्हो जीव एव जगत्कारणमस्त्विति पूर्वपक्षोत्थानादवान्तरसङ्गतिः । तैत्तरीये आनन्दवल्ली विषयवाक्यतया प्रस्तूयते – *ब्रह्मविदाप्नोति परम्*(तै.आन.१) । निरतिशयबृहत्वाश्रयवस्तूपासकः सर्वेभ्यः उत्कृष्टम् प्राप्नोतीत्यर्थः । वेदनोपासन शब्दानामेकार्थत्वात्ब्रह्मविदित्यत्र विच्छ-ब्दोऽप्युपासनपरः । तत्क्रतुन्यायेन प्राप्यस्यैव उपास्यत्वात् ब्रह्मणः प्राप्यत्वकथनात् तस्यैव उपास्यत्वमिति द्रष्टव्यम्। अत्र ब्रह्म – तद्वेदनम् – प्राप्तिः प्राप्यञ्चेति चतुष्टयमुक्तम् […]

ईक्षत्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥ ईक्षत्यधिकरणम् ॥५॥ एवमुपोद्धाताधिकरणचतुष्टयेन शास्त्रारम्भे समर्थिते ईक्षत्यधिकरणमारभ्य शास्त्रं प्रतायते । अत्र वेदार्थविचारत्वात् शास्त्रयोस्सङ्गतिः । वेदान्तार्थविचारत्वात् ब्रह्मकाण्डसङ्गतिः । कारणविषयत्वात् द्विकसङ्गतिः । कारणवाक्यसमन्वयविषयत्वादध्याय सङ्गतिः । अस्पष्टतरास्पष्ट स्पष्टच्छायानुसारिवाक्यविचारत्वात् पादसङ्गतिरिति विवेकः । इतः परं पेटिकासङ्गतयः । तासु चावान्तरसङ्गतयश्च वक्तव्याः । तत्र पादशेषाधिकरणानां पेटिकासङ्गतिः । तथा हि-ब्रह्म जगतः कारणमेव न भवति, किं […]

समन्वयाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥ समन्वयाधिकरणम्।। 4 || तत्तु समन्वयात्।।4।। एवं मानान्तरसिद्धिमूलप्रामाण्यशङ््का निराकृता। अथाफलत्वनिबन्धनतदनारम्भशङ््कानिराकर- णार्थं चतुर्थमिदमधिकरणम्। अस्य च वाक्यद्वयं विषयः।तदर्थो लिख्यते–ईशावास्ये,सपर्यगाच्छु- क्लमकायमव्रणमस्नाविरं शुद्धमपापविद्धम्। कविर्मनीषी परिभूस्स्वयम्भूः याथार्थ्यतोऽर्थान्व्यदधा- च्छाश्वतीभ्यस्समाभ्यः’।पर्यगात्-परितो व्याप्तवान्। शुक्लमित्यादेःलिङ्गव्यत्ययः छान्दसः।शुक्लः-तेजिष्ठः।कायाभावादेव व्रणरहितः। अत एव स्नायुशून्यः। शुद्धः-रागद्वेषादिशून्यः” अपापविद्धश्च। कविः-क्रान्तदर्शी।मनीषी।मनीषा स्रष्टव्यालोचनरूपं ज्ञानम्। परिभूः– -सर्वदेशव्यापनशीलः” स्वयम्भूः-उत्पादकशून्यः। याथार्थ्यतः-परमात्मयाथातथ्यतः।यथापूर्वम्- सत्य त्वेनेतिवार्थः। शाश्वतीभ्यस्समेभ्यः-चिरकालस्थायितया स्वाप्नपदार्थविसदृशान् पदार्थान् व्यदधात्- अकार्षीदित्यर्थः। तलवकारोपनिषदि […]

शास्त्रयोनित्वाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥ शास्त्रयोनित्वाधिकरणम् ।। 3 || शास्त्रयोनित्वात्।। अथ ब्रह्मणो मानान्तरसिद्धिमूलशास्त्रानारम्भशङ््कानिराकरणार्थम् तृतीयमिदमधिकरणम् । शास्त्रयोनित्वादिति ।। बृहदारण्यके शाकल्य-याज्ञवल्क्यसम्वादे याज्ञवल्क्यः शाकल्यं पृच्छति – ‘एतान्यष्टावायतनानि अष्टौ लोका अष्टौ देवा अष्टौ पुरुषास्सर्वान् यस्तान् पुरुषान्निरूह्य प्रत्यूह्यात्यक्रामत् तन्त्वौपनिषदं” पुरुषं पृच्छामि तच्चेन्मे न वक्ष्यसि मूर्धा ते व्यपतिष्यदिति । यानि प्रागुक्तानि पृथिव्यादीन्यष्टावायतनानि, अग्न्याद्या अष्टौ लोकाः, अमृताद्यावष्टौ देवाः […]

जन्माद्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥ जन्माद्यधिकरणम् ।। 2 ।। इत्थं व्युत्पत्त्यभावमूलानारम्भशङ्कां निरस्य प्रतिपत्तिदौस्थ्यमूलां शङ्कां तत्प्रतिपत्त्यर्थलक्षणसमर्थनेन निराचिकीर्षुः किं” पुनस्तद्विचार्यं ब्रह्मेत्याकांक्षायां तल्लक्षणमाह — जन्माद्यस्य यतः।।1.1.2।। भृगुवल्ल्यां श्रूयते – ‘यतो वा इमानि भूतानी’ त्यारभ्य तद्ब्रह्मेत्यन्तम् । तस्य चायमर्थः । जीवन्ति – येनात्मभूतेन जीवन्तीत्यर्थः । प्रयन्ति सन्ति भूतानि यदयमभिसम्विशन्ति – यत्र लीयन्ते । समित्येकीकरणे । […]

जिज्ञासाधिकरणम्

॥श्रीः॥ ॥श्रीभूमिदेवीसमेतश्रीनिवासपरब्रह्मणे नमः ॥ ॥ श्रीमते रामानुजाय नमः ॥   ॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥ अतसीगुच्छसच्छायमञ्चितोरस्स्थलं श्रिया । अञ्जनाचलश्रृङ्गारमञ्जलिर्मम गाहताम् ॥ जिज्ञासाधिकरणम् ॥ 1 ॥ अथातो ब्रह्मजिज्ञासा।। ”परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन। तद्विज्ञानार्थं सगुरुमेवाभिग- च्छेत् समित्पाणिश्श्रोत्रि ब्रह्मनिष्ठम्।। तस्मै स विद्वानुपसन्नाय सम्यक्प्रशान्तचित्ताय शमान्विताय। येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्वतो ब्रह्मविद्याम्।।” […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.