अम्शाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य तृतीयः पादः अम्शाधिकरणम् ॥ ७ ॥ *ज्ञाज्ञौ द्वावजावीशनीशावि*(श्वेता.१-९)त्यादिभेदश्रुत्यनुरोधादभेदवादो जात्याद्यभेदाभिप्रायेण गौणो नेतव्यः । अथवा *तत्वमस्या*(छान्.६-८-७)द्य भेदश्रुत्यनुरोधाद्भेदव्यपदेश औपाधिकभेदपरतया नेतव्य इत्येवम् पूर्वपक्षे प्राप्त उच्यते – अम्शो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॥ २-३-४२ ॥ नानाव्यपदेशात् – भेदव्यपदेशात् । अन्यथा चापि – अभेदेनापि व्यपदेशात्, श्रुतिद्वयानुग्रहाय ब्रह्मणोंऽशो जीव इत्यवगम्यते । चिद-चिद्विशिष्टम् हि […]
परायत्ताधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य तृतीयः पादः परायत्ताधिकरणम् ॥ ६ ॥ *कर्ता शास्त्रार्थवत्त्वादि*(ब्र.सू.२-३-३३)ति प्रतिपादितम् जीवानाम् कर्तृत्वम् न परमात्मायत्तम् । तथात्वे हि प्रवृत्तिनिवृत्त्योस्सालभञ्जी-कावदस्वतन्त्रम् जीवम् नियोजयतोर्विधिनिषेधशास्त्रयोरानर्थक्यम् स्यादिति पूर्वपक्षे प्राप्त उच्यते – परात्तु तच्छ्रुतेः ॥ २-३-४० ॥ तुशब्द: पक्षम् व्यावर्तयति । तच्च कर्तृत्वम् परात् परमात्मायत्त-मित्यर्थः । *यमात्मानमन्तरो यमयती*(बृह.५-७-२२)ति तत्कर्तृत्वस्य परायत्तत्वश्रवणात् । नन्वेवम् विधिनिषेधशास्त्रानर्थक्यम् तत्राह […]
कर्त्रधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य तृतीयः पादः कर्त्रधिकरणम् ॥ ५ ॥ जीवो न कर्ता तस्यानाधेयातिशयत्वेन आत्मनि कृतेरसम्भवात् । *असङ्गो ह्ययम् पुरुष*(बृ.उ.६-३-१५) इति श्रुत्या असङ्गत्वावगमेन कृतिनिमित्तसम्योगाद्यभावाच्च । *हन्ता चेन्मन्यते हन्तुम् हतश्चेन्मन्यते हतम् । उभौ तौ न विजानीतो नायम् हन्ति न हन्यत*(कठ.१-२-१९) इति आन्मनः कर्तृत्वस्य *प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहङ्कारविमूढात्मा कर्ताऽहमिति […]
ज्ञाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य तृतीयः पादः ज्ञाधिकरणम् ॥ ४ ॥ *यो विज्ञाने तिष्ठन्*(बृह.५-७-२२) *विज्ञानम् यज्ञम् तनुते*(तै.आन. ५-अनु) *ज्ञानस्वरूपमत्यन्तनिर्मलम् परमार्थत*(वि.पु.१-२-६) इति श्रुतिस्मृतिभिर्ज्ञानस्वरूपत्वस्यैवात्मनः प्रतीतेः न ज्ञाता । अथवा *अथ यो वेदेदम् जिघ्राणीति स आत्मा*(बृह.५-७-२२), *एष हि द्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुष*(प्रश्न.४-९) इति श्रवणात् *अहम् जानाम्यहमज्ञासिषमि*त्याद्यनुभावाच्चागन्तुकज्ञानाश्रय एव न स्वयम् ज्ञानरूपः […]
आत्माऽधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य तृतीयः पादः (पे.२) आत्माऽधिकरणम् ॥ ३ ॥ यथा *वायुश्चान्तरिक्षम् चैतदमृतमि*(बृह.४-३-३)ति वाय्वन्तरिक्ष-योर्नित्यत्वश्रवणेऽपि *तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः*(तै. आन.१-अनु) *आकाशाद्वायुरि*(तै.आन.१-अनु)ति च तयोरुत्पत्तिश्रवणेन तदेकविज्ञानेन सर्वविज्ञानसिध्यर्थम् च सर्ववस्तुनो ब्रह्मविकारत्वस्य अवश्याश्रयणीयत्वादुत्पत्तिरङ्गीक्रियते, एवम् जीवानाम् नित्यत्वश्रवणेऽपि *तोयेन जीवान् व्यससर्ज भूम्याम्*(तै.महाना.१-४) *प्रजापतिः प्रजा असृजते*(तै.यजुः २-१-२)ति जीवानामपि सृष्टिश्रवणात् एकविज्ञानेन सर्वविज्ञानसिध्यर्थम् च जीवस्यापि सृष्टिरभ्युपगन्तव्येति पूर्वपक्षे प्राप्त उच्यते – […]
तेजोधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य तृतीयः पादः तेजोधिकरणम् ॥ २ ॥ तेजोऽतस्तथाह्याह ॥ २-३-१० ॥ *वायोरग्निः, अग्नेरापः, अद्भ्यः पृथिवी*(तै.आन.१.अनु)त्यादौ वायुरूपाद्ब्रह्मणः अग्निरुत्पद्यते उत केवलवायोरेवेति विशये, अतः केवलवायोरेव तेज उत्पद्यते । *वायोरग्निरि*(तै.आन.१.अनु)ति श्रुतिराह । आपः ॥ २-३-११ ॥ आपस्तेजस एवोत्पद्यन्ते । *अग्नेराप*(तै.आन.१.अनु) इति श्रुतिराह – पृथिवी ॥ २-३-१२ ॥ पृथिव्यद्भय एवोत्पद्यते । *अद्भयः […]
वियदधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य तृतीयः पादः (पे- १) वियदधिकरणम् ॥ १ ॥ न वियदश्रुतेः ॥ २-३-१ ॥ छान्दोग्ये *तत्तेजोऽसृजते*(छान्.६-२-३)ति तेजस एव प्रथमत-स्सृष्ट्यभिधानात् आकाशोत्पत्तेर श्रुतेराकाशो नोत्पद्यत इति पूर्वपक्षे प्राप्त उच्यते – अस्तितु ॥२-३-२॥ आकाशस्याप्युत्पत्तिरस्त्येव । तैत्तिरीयके *आत्मन आकाशस्सम्भूत* (तै.आन.२ अनु) इति उत्पत्तेः – श्रवणात् । पुनश्चोदयति – गौण्यसम्भवाच्छब्दाच्च ॥ २-३-३ ॥ […]