परायत्ताधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्री शारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य तृतीयः पादः

परायत्ताधिकरणम् ॥ ६ ॥

   *कर्ता शास्त्रार्थवत्त्वादि*(ब्र.सू.२-३-३३)ति प्रतिपादितम् जीवानाम् कर्तृत्वम् न परमात्मायत्तम् । तथात्वे हि प्रवृत्तिनिवृत्त्योस्सालभञ्जी-कावदस्वतन्त्रम् जीवम् नियोजयतोर्विधिनिषेधशास्त्रयोरानर्थक्यम् स्यादिति पूर्वपक्षे प्राप्त उच्यते –

परात्तु तच्छ्रुतेः ॥ २-३-४० ॥

तुशब्द: पक्षम् व्यावर्तयति । तच्च कर्तृत्वम् परात् परमात्मायत्त-मित्यर्थः । *यमात्मानमन्तरो यमयती*(बृह.५-७-२२)ति तत्कर्तृत्वस्य परायत्तत्वश्रवणात् ।
नन्वेवम् विधिनिषेधशास्त्रानर्थक्यम् तत्राह –

कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः ॥ २-३-४१ ॥

परमात्मा जीवकृतम् पूर्वप्रयत्नमपेक्ष्य तदनुमतिदानेन प्रवर्तयति । एवम् सति विधिप्रतिषेधावैयर्थ्यानुग्राहकत्वादिकम् सिध्यति । स भगवान् पुरुषोत्तमः अवाप्तसमस्तकामस्सर्वज्ञस्सर्वैश्वरस्सत्यसङ्कल्प-स्स्वमाहात्म्यानुगुणलीलाप्रवृत्तः एतानि कर्माणि समीचीनानि एतान्य-समीचीनानीति कर्मद्वैविध्यम् सर्वम् विधाय तदुपादानोचितदेहेन्द्रि-यादिकम् तन्नियमनशक्तिञ्च सर्वेषाम् क्षेत्रज्ञानाम् सामान्येन प्रदिश्य स्वशासनावबोधिशास्त्रञ्च प्रदर्श्यान्तरात्मतयाऽनुप्रविश्यानुमन्तृतया च नियच्छन्स्तिष्ठति । ते चे क्षेत्रज्ञास्तदाहितशक्तयः तत्प्रदिष्टकरणकळे-बरादिकाः तदाधाराः स्वयमेव स्वेच्छानुगण्येन पुण्यापुण्यरूपे कर्मणी उपाददते । ततश्च पुण्यरूपकर्मकारिणम् स्वशासनानुवर्तिनम् ज्ञात्वा धर्मार्थकाममोक्षैर्वर्धयते । शासनातिवर्तिनम् च तद्विपर्ययेण योजयति । अतस्स्वातन्त्र्यदयाळुत्वादिवैकल्यचोद्यस्य नावकाशः । दया हि नाम स्वार्थनिरपेक्षा परदुःखासहिष्णुता । सा च स्वशासनातिवृत्तिव्यवसा-यिन्यपि वर्तमाना न गुणायावकल्पते । प्रत्युतापुम्स्त्वमेवावहति तन्निग्रह एव तत्र गुणः । अन्यथा शत्रुनिग्रहादीनामगुणत्वप्रसङ्गात् । स्वशासनातिवृत्तिव्यवसायनिवृत्तिमात्रेणानाद्यनन्तकल्पोपचितदुर्विषहा-नन्तापराधानङ्गीकारेण निरतिशयसुखसम्वृद्धये स्वयमेव प्रयतते । यथोक्तम् – *तेषाम् सततयुक्तानाम् भजताम् प्रीतिपूर्वकम् । ददामि बुद्धियोगम् तम् येन मामुपयान्ति ते*(गी.१०-१०) इति । ननु कूपे पतन्तम् बालकम् दृष्ट्वा उपेक्षमाणस्यानुमतिम् कृतवतो वा पुम्सो नैर्घृण्यादिप्रसक्तिवत् स्वाहितकर्मप्रवृत्तपुरुषविषये उपेक्षकत्वे वा अनुमन्तृत्वे वा प्रयोजकत्वे वा सर्वेश्वरस्य तस्य निर्दयत्वादि-कमवश्यम्भावीति चेन्न । शास्त्रप्रर्वतनमुखेन सामान्येनाहितप्रवृत्ति-निवारणस्य कृतत्वान्नोपेक्षणम् । तत्तत्प्रवृत्तिकाले तु विशेषतो निवारकत्वाभावलक्षणमुपेक्षकत्वम् तु स्वतन्त्रस्य न पर्यनुयोज्यम् । एतादृशस्वातन्त्र्यमेव दोष इति चेत्, तत्र किम् प्रमाणम् । न प्रत्यक्षम् तस्येश्वरविषये अप्रमाणत्वात् । नाप्यनुमानम् तत्र हि किमीश्वराख्यम् धर्मिणम् शास्त्रैकसमधिगम्यमभ्युपेत्य तत्स्वातन्त्र्यस्य दोषत्वमनुमीयते उतानभ्युपगम्य । अनभ्युपगमे हेतोराश्रयासिद्धिः । अभ्युपगमे धर्मि-ग्राहकेण शास्त्रेण तस्य गुणत्वेन प्रतिपन्नत्वात् कालात्ययापदिष्टत्वम् । चिकीर्षापूर्वककृतिमत्वेन सालम्भजिकाविलक्षणतया जीवस्य कर्तृत्वान्न शास्त्रानर्थक्यम् । प्रवर्तकज्ञानचिकीर्षोत्पादकत्वेन साफल्यात् । कालादि-वत् साधारणकृतिहेतोरीश्वरस्य न वैषम्यादिप्रसक्तिश्च । उक्तञ्च भगवता पराशरेण *निमित्तमात्रमेवासौ सृज्यानाम् सर्गकमणी*(वि.पु.१-४-५०)ति । निमित्तमात्रम् साधारणमित्यर्थः । गीतञ्च भगवताऽपि – *तस्य कर्तारमपि माम् विध्यकर्तारमव्ययमि*(गी.४-१३)ति । साधारणम् कर्तारम् विद्धि असाधारणकर्तारम् न विद्धीति हि तस्यार्थः । उक्तञ्च व्यासार्यैः – *वैयर्थ्यम् यावता न स्याद्विधानप्रतिषेधयोः । नियन्तृत्व-श्रुतेस्तावान् सङ्कोचो न त्वतः पर*(श्रुतप्रकाशिका) इति ।
नन्वेवम् साधारणकारणत्वादिभिरेव सर्वकार्योत्पत्तिसम्भवे ईश्वरस्य प्रयोजकत्वानुमन्तृत्वादिकम् कुतोऽभ्युपगन्तव्यमिति चेत्, कल्पनाया-मेवेदृशचोद्यावकाशः । *अन्तः प्रविष्टश्शास्ता जानानाम् सर्वात्मा*(तै. आर.३-११-१०) *एष ह्येव साधुकर्म कारयती*(कौषी.३-९) त्यादिप्रमाण-पतिपन्नार्थे ईदृशचोद्यानवाकाशादिति । जीवस्य परमात्मायत्तकर्तृत्वे न कोऽपि दोषः ।
यत्त्वत्र परैरुक्तम् – *स समानस्सन्नुभौ लोकौ सञ्चरति ध्यायतीव लेलायतीवे*(बृह.६-३-७)ति इवशब्द प्रयोगात् कर्तृत्वमात्मनो नास्त्ये-वेति तदसत् । पूर्वाधिकरणे साङ्ख्यभिमताकर्तृत्वमात्मनः पूर्वपक्षीकृत्य कर्तृत्वस्य परैरपि सिद्धान्तितत्वात् । वस्तुस्थितौ चिन्त्यमानायाम-चेतनत्वात् कूटस्थत्वाच्च नान्तःकरणस्य वा चितो वा कर्तृत्वमित्य-भ्युपगमस्य, परस्पराविवेकेन परस्परधर्माध्यास इत्यभ्युपगमस्य च, परेषाम् साङ्ख्यानाञ्च साम्येन साङ्ख्यपक्षात्परपक्षे वैषम्याभावेन *कर्ता शास्त्रार्थवत्वादि*(ब्र.सू.२-३-३३)त्यधिकरणविरोधस्य परपक्षे दुर्निरसत्वात् । न च *यथा च तक्षोभयथे*(ब्र.सू.२-३-३९)त्यत्र *तत्त्वमसी*(छान्.६-८-७)त्यादिभिर्बहुकृत्वः  कर्तृत्वाद्यनर्थानाश्रयब्रह्मा- भेदबोधनात्कर्तृत्वमपरमार्थ इति परैरुक्तमिति वाच्यम् । *यो वै बालाक एतेषाम् पुरुषाणाम् कर्ते*(कौषी.४-१८)त्यादिवाक्यैर्ब्रह्मणस्सर्वकर्तृत्वा- वेदनेन ब्रह्माभेदबोधने सर्वकर्तृत्वापातेनाकर्तृत्वाप्रसक्तेः, *दृश्यते त्वग्र्यया बुध्या*(कठ.१-३-१२), *मनसा तु विशुद्धेन*(व्यास स्मृतिः), *ध्यायन्तो मनसैवायमि* ति करणत्वेन प्रतिपन्नस्य मनसः कर्तृत्वम् *अथ यो वेदेदम् जिघ्राणीति स आत्मा*(बृह.५-७-२२) *एष हि दृष्टा श्रोता कर्ता बोद्धा विज्ञानात्मा पुरुष*(प्रश्नः.४-९) इति कर्तृत्वेन प्रतिपन्नस्या-कर्तृत्वमित्युक्तेरयुक्तत्वात् विज्ञानशब्दिताया बुद्धेः कर्तृत्वे करणान्तरा-भ्युपगमप्रसङ्गात् प्रकृतिविवेकलक्षणसमाधौ प्रकृतेः कर्तृत्वासम्भवेन आत्मन एव कर्तृत्वमास्थेयमिति *शक्तिविपर्ययात्*(ब्र.सू.२-३-३७) *समाध्यभावाच्चे*(ब्र.सू.२-३-३८)ति सूत्रयोः स्वयमेवोक्तत्वाच्च । कर्तृत्वादिबन्धस्यात्मगतत्वाभावे बन्धमोक्षयोर्वैयधिकरण्यप्रसङ्गात् । न च कर्तृत्वाद्यनर्थाश्रयान्तःकरणतादात्म्याध्यासाधिष्ठानभावलक्षणो वा *अविद्यास्तमयो मोक्षस्सा सम्सार उदाहृत*  इत्युक्तरीत्या
तदध्यासहेत्वविद्यालक्षणबन्धो वा आत्मगतस्सम्भवतीति वाच्यम् । *तदधीनत्वादर्थवदि*(ब्र.सू.१-४-३)ति सूत्रे अविद्यात्मिका हि सा बीज-शक्तिरव्यक्तशब्दनिर्देश्या परमेश्वराश्रया मायामयी महासुप्तिः यस्याम् स्वरूपप्रतिबोधरहिताः शेरते सम्सारिणो जीवाः तदेवाव्यक्तम् क्वचिदा-काशशब्दनिर्दिष्टम् *एतस्मिन्नु खल्वक्षरे गार्गि आकाश ओतश्च प्रोत-श्चेति*(बृह.५-८-११), क्वचिदक्षरशब्दोदितम् *अक्षरात्परतः पर*(मुण्ड.२-१-२) इति श्रुतेः क्वचिन्मायेति निर्दिष्टम् *मायान्तु प्रकृतिम् विद्यादि* (श्वेत.४-१०)ति मन्त्रवर्णादिति शङ्करभाष्ये परमेश्वराश्रिताया एवा-विद्यायाः प्रतिपादनेन तन्मते जीवचैतन्ये सम्सारासम्भवात् ।
न च वाचस्पतिना परमेश्वराश्रयेत्यत्र *परमेश्वरविषयत्वेनाश्रयती*     (भामती) ति परमेश्वराश्रया परमेश्वरविषयेत्यर्थः । विद्यास्वरूपस्य परमात्मनोऽविद्याश्रयत्वासम्भवात् । *यस्याम् स्वरूपप्रतिबोधरहिता-श्शेरत*(भामती) इत्यत्रापि यस्यामविद्यायाम् सत्याम् शेरते जीवा इत्येवार्थ: अतश्च जीवाश्रया एवाविद्याः । न चाविद्योपाधिभेदाधीनो  जीवभेदः जीवभेदाधीनोऽविद्योपाधिभेद इति परस्पराश्रयादुभयासिद्धिरिति वाच्यम् । बीजाङ्कुरन्यायेन अनादित्वादुभयसिद्धेरिति अविद्यानाम् जीवाश्रितत्वमेव समर्थितमिति वाच्यम् । न च तस्याः जीवाश्रयत्वम् । जीवशब्दवाच्यस्य कल्पितत्वात् आविद्यकत्वाज्जीवशब्दवाच्यस्य,  जीवशब्दलक्ष्यस्य तु ब्रह्माव्यतिरेकेण ब्रह्माश्रयत्वपक्षस्यैवाश्रितत्वा- पातादित्यानन्दगिरिप्रभृतिभिस्तस्य पक्षस्य दूषिततया *आश्रयत्व विषयत्वभागिनी निर्विशेषचितिरेव केवला । पूर्वसिद्धतमसो हि पश्चिमेनाश्रयो भवति नापि गोचर*  इत्युक्तरीत्या चिन्मात्रस्यैवा-विद्याश्रयत्वेन जीवस्य बन्धाश्रयत्वासम्भवात् । न च बन्धो मोक्षश्च न जीवाश्रितः, अपि तु चिन्मात्राश्रित एव अतस्सम्भवत्येव बन्धमोक्षयो-स्सामानाधिकरण्यमिति वाच्यम् । अस्मिन् पक्षे मुक्तिर्नाम चिन्मात्रा-श्रितान्तः करणतादात्म्याध्यासाधिष्ठानभावापादकाऽविद्यानिवृत्तिरेव वाच्या । तत्र चाविद्यैक्यपक्षे एकमुक्तौ सर्वमुक्तिप्रसङ्गः । न च कस्यापि मुक्ति-र्नास्तीति शक्यम् वक्तुम् । *शुकस्तु मारुताच्छीघ्राम् गतिम् कृत्वान्त-रिक्षगाम् । दर्शयित्वा प्रभावम् स्वम् सर्वभूतगतोऽभवत्*  *तद्वैतत्पश्यन् ऋषिर्वामदेवः प्रतिपेदे तद्यो यो देवानाम् प्रत्यबुध्यत स एव तदभवदि*(बृह.३-४-१०)त्यादिप्रमाणविरोधप्रसङ्गात् । अतोऽविद्या-नानात्वेऽभ्युपगन्तव्ये तत्र च चिन्मात्राश्रितसर्वाविद्यानामेकविद्या-निवर्त्यत्वे एकमुक्तौ सर्वमुक्तिप्रसङ्गदोषतादवस्थ्यात्, एकाविद्यानिवृत्ति-मात्राभ्युपगमे चाविद्यान्तराश्रयत्वस्य चिन्मात्रे पूर्वमिवस्थित्वेनान्तः करणतादात्म्याध्यासाधिष्ठानभावलक्षणसम्सारानिवृत्तेस्तदवस्थत्वात् । अतस्सोऽप्यनुपपन्नः ।
नन्वहमिति भासमाने अविद्यान्तःकरणोपाधिभेदभिन्ने चिदम्शे अविद्यानिवृत्तिरुद्देश्येति चेन्न । अविद्याया अन्तः करणस्य वा न दर्पणादिवत् प्रतिबिम्बनोपाधित्वम् सम्भवति । दर्पणाद्युपाधिप्रतिहत-नायनरश्मिगृह्यमाणस्य बिम्बस्यैव प्रतिबिम्बतया चक्षुषा अगृह्यमाणस्य चिदम्शस्य प्रतिबिम्बत्वासम्भवेन घटादिवदवच्छेदकतयोपाधित्वे वक्तव्ये अन्तःकरणस्य सञ्चरत उपाधित्वे अवच्छेद्यचैतन्यप्रदेशस्य भिन्न-भिन्नतया कृतहानाकृताभ्यागमप्रसङ्गेन व्यापिन्या एवाविद्याया अवच्छेदकतयोपाधित्वे वक्तव्ये सर्वस्याप्यविद्यान्तर्गतचित्प्रदेशस्य सर्वाविद्यावृतत्वेन एकस्य ब्रह्मविद्यया एकाविद्याया नाशेऽप्यविद्यान्त-रायत्तसम्सारतादवस्थ्यात् अविद्यावच्छिन्नविकारप्रदेशे अनवच्छिन्नस्य ब्रह्मणोऽवस्थानासम्भवेन ब्रह्मणो विकारान्तरवस्थान प्रतिपादकान्त-र्यामिब्राह्मणानाञ्चस्यप्रसङ्गाच्च । अन्तर्यामिब्राह्मणस्य जीवविषयत्वा-भावस्यान्तर्याम्यधिकरणसिद्धत्वात् । नहि घटानवच्छिन्नाकाशस्य घटान्तरावस्थितिस्सम्भवति । *अत्र ब्रह्म समश्रुत*(कठ.२-६-१४) इति तन्मते अत्रैव ब्रह्मभावावेदक श्रुतिव्याकोपश्च स्यात् । अविद्यावच्छिन्नदेशे अवच्छिन्नब्रह्मभावासम्भवात् । विकारान्तरवस्थितस्य च गीताचार्यस्य भगवतः कृष्णस्य जीवत्वमेव स्यात् । ततश्च चिदाश्रित सर्वाविद्या-निवृत्तिकामनारूपमुमुक्षाया असम्भवात् एकाविद्यानिवृत्तिमात्रेण सम्सारस्यानपायात् मुमुक्षाब्रह्मविचारादिकम् वा एतादृशविवेकशालिनाम् न स्यात् । अत एव न प्रतिबिम्बो नाप्यवच्छेदो जीवः । अपि तु  कौन्तेयस्यैव राधेयत्ववत् ब्रह्मण एवाविकृतस्याविद्यया जीवभाव इति पक्षोऽपि व्युदस्तः । तथासति नित्यमुक्तश्रुतेर्निर्विषयत्वप्रसङ्गात् । पारमार्थिकशोकाभावाभिप्राया नित्यमुक्तत्वश्रुतिरिति चेत् मोक्षे शोका-भावश्रुतेरपि पारमार्थिकशोकाभावविषयत्वप्रसङ्गात् । *विवादगोचरता-पन्नप्रमाणज्ञानम् स्वप्रागभावव्यतिरिक्त स्वविषयावरण- स्वनिवर्त्य – स्वदेशगतवत्स्वन्तरपूर्वकमि*(पञ्चपादिका)त्यज्ञानस्य ज्ञानसमानाधि-करणत्वस्य विवरणे प्रतिपादितत्वात्, *जडस्याज्ञानाश्रयत्वे च भ्रान्ति-सम्यज्ज्ञानयोरपि तदाश्रयत्वप्रसङ्ग*(पञ्चपादिका) इति विवरणकृतोक्त-त्वाच्च, ज्ञात्राश्रितत्वेऽज्ञानस्य तदधीनम् कर्तृत्वादिकमपि तस्यैव । ततश्चाज्ञानस्य ज्ञानाश्रयशुद्धजीवाश्रितत्वात् कर्तृत्वादिकमप्यज्ञानाश्रय-शुद्धजीवाश्रितमेवेति सिद्धम् । ततश्च *ध्यायतीवे*(बृह.६-३-७)ति जीवशब्दप्रयोगः परतन्त्रप्रभौ *प्रभुरिवे*त्युक्तिवत् । अतः परतन्त्र-कर्तृत्वाश्रयत्वाज्जीवस्य इवशब्दप्रयोग उपपद्यत इत्येवास्थेयम् ॥

इति परायत्ताधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.