कामाद्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ कामाद्यधिकरणम् ॥ १६ ॥     *य एषोऽन्तर्हृदय आकाशस्तस्मिन् शेते सर्वस्य वशी सर्वस्येशान*(बृह.४-१-१७) इति आकाशशयानत्ववशित्वादिगुण- विशिष्टतयोपास्यः छान्दोग्यदहरविद्याप्रतिपादितापहतपाप्मत्वादि-गुणाष्टकविशिष्टाकाशाद्भिन्नः । अतो रूपभेदाद्विद्याभेद इति पूर्वपक्षे प्राप्तेऽभिधीयते । कामादीतरत्र तत्र चायतनादिभ्यः ॥ ३-३-३८ ॥ तत्र चेतरत्र च स्थलद्वयेऽपि कामादिविशिष्टम् ब्रह्मैवोपास्यम् । हृदयायतनत्व सेतुत्वविधरणत्वदिभिर्विद्यैक्यप्रत्यभिज्ञानात् वाजसनेयक-श्रुतवशित्वादीनाम् छान्दोग्यश्रुतसत्य सङ्कल्पत्वविततिरूपतया रूपभेदा-भावात्, *परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत* […]

अन्तरत्वाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ अन्तरत्वाधिकरणम् ॥१५॥ अन्तराभूतग्रामवत् स्वात्मनोऽन्यथाभेदानुपपत्तिरिति चेन्नोपदेशवत् ॥ ३-३-३५ ॥     अन्तरशब्दाद्भावप्रधानात् *सुपाम् सुलगि*(अष्टा.७-१-३९)ति तृतीयैक-वचनस्याकारादेशेऽन्तरेति रूपम् । अन्तरा अन्तरत्वेनेत्यर्थः । अन्तरा-शब्दो मध्यवचनोऽप्यस्ति । तयोरेकशेषेण सूत्रेऽयमन्तरेति निर्देशः। ततश्चायमर्थः – उषस्तब्राह्मणे *एष त आत्मा सर्वान्तर*(बृह.५-४-१) इति सर्वान्तरत्वेन निर्देश: भूतग्रामवत् स्वात्मनः भूतग्रामवान्यः स्वात्मा भूतग्रामशब्दिताचेतनान्तर्यामी यः प्रत्यगात्मा तद्विषयकः । न तु […]

अक्षराध्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ अक्षराध्यधिकरणम् ॥१४॥      *एतद्वै तदक्षरम् गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमि* (बृह.५-८-८)त्यादिनिर्दिष्टाः अक्षरसम्बन्धिनः अस्थूलत्वादयः प्रपञ्च-प्रत्यनीकतारूपाः सर्वकर्मत्वसर्वकामत्वादिवत् सर्वासु परविद्यासु नोप-सम्हर्तव्याः उपसम्हारे प्रमाणाभावात् । न च स्वरूपनिरूपकाणाम् सत्यत्वज्ञानत्वादिधर्माणाम् सर्वपरविद्योपसम्हारस्य *आनन्दादयः प्रधानस्ये*(ब्र.सू.३-३-११)त्यधिकरणसिद्धत्वात्तद्वेदेवास्थूलादिकम् किन्न स्यादिति चेन्न । सत्यत्वादिकमन्तरेण ब्रह्मस्वरूपस्यैव प्रत्येतुम-शक्यतया सत्यत्वादेस्सर्वविद्योपसम्हारेऽप्यस्थूलत्वादीनामभावरूपाणाम् *लब्धरूपे क्वचित्किञ्चित्तादृगेव निषिध्यत*  इति न्यायेन ब्रह्मप्रतीत्यनन्तरभाविप्रतीतिकानाम् ब्रह्मस्वरूपप्रतीत्युपयोगित्वाभावेन सर्वपरविद्योपसम्हारे प्रमाणाभावादिति प्राप्त उच्यते […]

अनियमाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ अनियमाधिकरणम् ॥ १३ ॥      उपकोसलविद्यायाञ्चार्चिरादिगतेः पाठात् यस्याम् विद्यायामर्चि-रादिगतिः श्रूयते तन्निष्ठानामेवार्चिरादिगत्या ब्रह्मप्राप्तिः नान्येषाम् । न च *तद्य इत्थम् विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते*(छान्.५-१०-१) *श्रद्धाम् सत्यमुपासत*(बृ.५-२-१५) इति सर्वब्रह्मविद्या-साधारण्यम् श्रुतमिति वाच्यम् । तथासत्युपकोसलविद्यायामर्चिरादिगति-श्रुतिवैयर्थ्यप्रसङ्गादिति पूर्वपक्षे प्राप्ते उच्यते – अनियमस्सर्वेषामविरोधश्शब्दानुमानाभ्याम् ॥३-३-३२॥ सर्वेषाम् सर्वोपासननिष्ठानामर्चिरादिमार्गेणैव गन्तव्यत्वात् एतद्विद्या-निष्ठानमेवेति नियमो नास्ति । तथा […]

साम्परायाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ साम्परायाधिकरणम् ॥ १२ ॥     कौषीतकिनामुपनिषदि – *स आगच्छति विरजानदीम् मनसात्येति तत्सुकृतदुष्कृते धूनुते*(कौषी. १-३-४) इति विरजानद्यतिक्रमणहेतुतया तदनन्तरभाविसुकृतदुष्कृतधूननश्रवणात् *अश्न इव रोमाणि विधूय पापम् चन्द्र इव राहोर्मुखात्प्रमुच्य । धूत्वा शरीरमकृतम् कृतात्मा ब्रह्मलोकमभिसम्भवानी*(छान्.८-१३-१)ति *तस्य पुत्रा दायमुपयन्ति सुहृदस्साधुकृत्याम् द्विषन्तः पापकृत्यामि* ति श्रुत्योः विरोधे देहवियोग पुत्रदायसङ्क्रान्तिसमकाल एव सुकृतदुष्कृतहानसङ्क्रमण-श्रवणात् कर्मैकदेशस्य देहवियोगकाले […]

हान्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ हान्यधिकरणम् ॥ ११ ॥       छन्दोगा: *धूत्वा शरीरमि*(छान्.८-१३-२)ति पुण्यपापयोर्हानिम्, शाट्यायनिनः *सुहृदस्साधुकृत्याम्*(शप्यायिनः अथर्वणिकाः) इत्यादिना प्रियाप्रियेषु सङ्क्रमणम्, कौषीतकिनः *तत्सुकृतदुष्कृते धूनुते*(कौषी.२-४) इत्यादिना पुण्यपापयोर्हानिसङ्क्रमणे च प्रतिपादयन्ति । हान्युपाय-नोभयचिन्तनानाम् किम् वैकल्पिकत्वम् उत समुच्चय इति सम्शये पृथगाम्नानात् समुच्चयाङ्गीकारे तस्य कौषीतकिवाक्यसिद्धत्वेन शाखा-न्तराम्नानवैयर्थ्यप्रसङ्गाच्च वैकल्पिकत्वमेव । न चानेकशाखापाठस्या-ध्येतृभेदेन परिहरणीयता अविशेषपुनश्श्रवणाभावादिति पूर्वपक्षे प्राप्त उच्यते – […]

वेधाद्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ वेधाद्यधिकरणम् ॥ १० ॥     आथर्वणिकादीनाम् तत्तदुपनिषदारम्भे पठितानाम् *शुक्रम् प्रविध्ये* (आथर्वणिकाः)त्यादीनाम् मन्त्राणाम् *देवासुराह ह वै सत्रम् निषेदुः* (छान्.१-२-१)इत्यादि बृहदारण्यकारम्भपठितब्राह्मणप्रतिपादितप्रवर्ग्यादेश्च कर्मणो लिङ्गादिबलेन अन्यत्र विनियुक्तत्वेऽपि विद्यासन्निधिपाठानर्थ-क्यपरिहाराय विद्यार्थत्वमिति प्राप्त उच्यते – वेधाद्यर्थभेदात् ॥३-३-२५॥ सन्निधिपाठस्य दिवाकीर्त्यत्वारण्यपाठ्यत्वादिकार्यार्थतयाप्युपपत्तेः बलवद्भिर्लिङ्गादिभिः अभिचाराध्ययनज्योतिष्टोमाद्यर्थत्वावसायात् मन्त्रप्रतिपाद्यस्य वेधाद्यर्थस्य विद्यार्थत्वाभावेन विद्यार्थाद्भेदात् न तत्प्रकाशनद्वारा विद्याशेषत्वम् अपि त्वभिचारादिशेषत्वमिति सिद्धान्तः । […]

पुरुषविद्याधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ पुरुषविद्याधिकरणम् ॥ ९ ॥      *तस्यैवम् विदुषो यज्ञस्यात्मा यजमान*(तै.महाना.५२ अनु) इति श्रुतायाः पुरुषविद्याया: *पुरुषो वा व यज्ञ*(छान्.३-१५-१) इति छान्दोग्यश्रुता पुरुषविद्या न भिन्ना पुरुषविद्येति समाख्यैक्यात् पुरुष-सन्बन्धिषु यज्ञावयवत्वकल्पनासामान्यात् मरणावभृथसाम्याच्चेति पूर्वपक्षे प्राप्त उच्यते – पुरुषविद्यायामपि चेतरेषामनाम्नानात् ॥ ३-३-२४ ॥ उभयत्राम्नातयोः पुरुषविद्यात्वेऽपि विद्याभेदोऽस्त्येव कुतः ? इतरेषा-मनाम्नात् । *यत्सायम् प्रातर्मध्यन्दिनम् […]

सम्भृत्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ सम्भृत्यधिकरणम् ॥ ८ ॥      ब्रह्मज्येष्ठा वीर्या सम्भृतानि ब्रह्माग्रे ज्येष्ठम् दिवमाततान । ब्रह्मा भूतानाम् प्रथमो हि जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुम् कः*(तै.यजु.अष्ट. २-४-७) इति राणायनीयानाम् खिलमन्त्रश्श्रूयते । अत्र परिच्छेदातीते ब्रह्मणि व्यापकत्वादिकथनस्य स्वरूपोपदेशार्थत्वाभावेन उपासनार्थत्वस्य सिद्धतया स्वप्रकारतयोपासन विध्यश्रवणेन अनारभ्याधीतस्य द्यु॒व्याप्त्यादेः प्रकरणान्तरगतविद्यार्थत्वे वक्तव्ये नियामकाभावादस्थूल-त्वादिवत् सत्यत्वादिवच्च सर्वविद्यार्थत्वे प्राप्त उच्यते – […]

सम्बन्धाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ सम्बन्धाधिकरणम् ॥ ७ ॥      *य एष एतस्मिन्मण्डले पुरुषो यश्चायम् दक्षिणेऽक्षन्नि*(बृह.५-५-२)त्यादिना अक्ष्यादित्यवर्तितया व्याहृतिशरीरकतया चोपास्यत्वे-नोपदिष्टस्य ब्रह्मणः *तस्योपनिषदहरित्यधिदैवतम्*(बृह.७-५-३) *तस्योपनिषदहमित्यध्यात्ममि*(बृह.७-५-३)ति ये अहरित्यहमिति च रहस्यनामनी उपदिष्टे किम् स्थानविशेषनियते अतश्चाहरिति नाम  आदित्यमण्डलस्थानविशिष्टस्यैव अहमिति च नामाक्षिस्थपुरुषस्यैवेति नियमोऽस्ति उत नेति चिन्तायाम् पूर्वपक्ष उच्यते – सम्बन्धादेवमन्यत्रापि ॥३-३-२०॥ यथा मनोमयत्वादिविशिष्टस्यैकत्वादुपास्यैक्येन विद्यैक्यात् शाण्टडिल्यविद्यायाम् गुणोपसम्हारः, एवमक्ष्यादित्यसम्बन्धिनो […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.