यथाश्रयभावाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ यथाश्रयभावाधिकरणम् ॥२६॥ अङ्गेषु यथाश्रयभावः ॥ ३-३-५९ ॥ अङ्गेष्वाश्रितानामुपासनानाम् क्रतोर्बहिःप्रयोगासम्भवेनाश्रयतन्त्र-त्वस्य वक्तव्यतया प्रयोगवचनेनाश्रयाणामुद्गीथादीनाम् समुच्चयनियमे-नाश्रितानामपि समुच्चयनियमो युक्तः । इतरथा तदाश्रितत्वानुपपत्ते-रित्यर्थः । शिष्टेश्च ॥ ३-३-६० ॥ *गोदोहनेन पशुकामस्य प्रणयेदि*(आप श्रौत.दर्शे)तिवदधिकारान्त- राश्रवणेव *उद्गीथमुपासीते*(छान्.१-१-१)त्युद्गीथाङ्गतयोपासनविधानाच्च नियमेनोपासनोपादेया । न च वीर्यवत्तरत्वरूपफलार्थत्वस्य *तन्निर्धार-णानियम*(ब्र.सू.३-२-४१) इत्यत्रोक्तत्वात्कथम् तस्योद्गीथङ्गत्वमिति वाच्यम् । *उद्गीथमुपासीते*(छान्.१-१-१)ति वाक्योनोपासनस्योद्गीथ-रूपाश्रयसम्बन्धे वीर्यवत्तरत्वरूपफलसम्बन्धे च बोध्यमाने वाक्यभेद-प्रसङ्गात् । […]

विकल्पाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ विकल्पाधिकरणम् ॥ २५ ॥    सद्विद्यादीनाम् ब्रह्मप्राप्तिफलकानामेकस्मिन् पुरुषे समुच्चयो वा विकल्पो वेति सम्शये अग्निहोत्रदर्शपूर्णमासादीनाम् स्वर्गैकफलानाम् भूयस्त्वापेक्षया यथैकस्मिन्नधिकारिणि समुच्चयः तथा एकस्मिन्नेव पुरुषे ब्रह्मानुभवभूयस्त्वापेक्षया समुच्चयस्स्यादिति पूर्वपक्षे प्राप्त उच्यते – विकल्पोऽविशिष्टफलत्वात् ॥३-३-५७॥ तासाम् विद्यानाम् विकल्प एव । ब्रह्मानुभवविरोध्यनाद्यविद्याकर्म-निरसनपूर्वकानवधिकातिशयानन्द ब्रह्मानुभवरूपफलस्य सर्वविद्यासाधा-रण्यात् विकल्प एव । काम्यास्तु यथाकामम् समुच्चीयेरन्न वा पूर्वहेत्वभावात् […]

शब्दाभेदाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ शब्दाभेदाधिकरणम् ॥२४॥     नानाशाखागतानाम् मोक्षैकफलानाम् सद्विद्याभूमविद्यादीनाम् किमेक-विद्यात्वम् उत विद्याभेद इति सम्शये सर्वासु विद्यासु वेद्यस्य ब्रह्मण एकत्वेन रूपभेदाभावात् विद्यैक्यमिति पूर्वपक्षे प्राप्त उच्यते –   नाना शब्दादिभेदात् ॥ ३-३-५६ ॥ विद्याः परस्परम् विभिन्ना एव  पूर्वकाण्डोदितशब्दान्तराभ्यासादि-विधेयभेदापादकहेतुसद्भावात् । यद्यपि वेद उपसीतेत्यादि शब्दानाम् पर्यायत्वेनाविच्छिन्नस्मृतिसन्ततिरूपैकार्थबोधकत्वात् तादृशस्मृतीनाम् च ब्रह्मैकविषयत्वम् तथापि तत्तद्विद्याप्रकरणप्रतिपादितजगदेककारणत्वा-पहतपाप्मत्वादिविभिन्नविशेषणविशिष्टब्रह्मविषयप्रत्ययावृत्तिबोधकत्वेन विद्यानाम् […]

भूमज्यायस्त्वाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ भूमज्यायस्त्वाधिकरणम् ॥ २३ ॥     छान्दोग्ये वैश्वानरविद्यायाम् द्युमूर्धादिव्यस्तोपासनेषु औपमन्यवादि-भिरुक्तेषु *अत्यन्नम् पश्यति प्रियम् भवत्यस्य ब्रह्मवर्चसम् कुले य एते वैश्वानरमुपास्त*(छान्.५-१२-२) इति व्यस्तोपासनेषु फलश्रवणाद्व्यस्तो-पासनमेव प्रामाणिकम् । *यस्त्वेतमेवम् प्रादेशमात्रमभिविमानमात्मानम् वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ती* (छान्.५-१८-१)ति व्यस्तोपासनसमुदायानुवाद एव । न तु समस्तो-पासनविधिः । अथवा अनेन वाक्येन समस्तोपासनमपि विधीयते […]

अङ्गावबद्धाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥  अङ्गावबद्धाधिकरणम् ॥ २२ ॥     *ओमित्येतदक्षरमुद्गीथमुपासीते*(छान्.१-१-१)त्यादौ निर्विशेष-सामान्येन व्यवहारासम्भवाद्विशेषाकाङ्क्षायाम् तत्तच्छाखागतानामेवो- द्गीथव्यक्तीनाम् सन्निहितत्वात् तन्मात्रविषयत्वमेव उद्गीथश्रुतेर्युक्तम् । ततश्च ताण्डिशाखागतरसतमत्वकामाप्तिहिरण्मयपुरुषाकाशादिदृष्टि-विशिष्टोपासने ताण्डिशाखागतोद्गीथव्यक्तेरेव क्रतुमध्यप्रयुक्ताया उपास्यत्वम् न तु शाखान्तरगतोद्गीथव्यक्तेः । न च सर्वशाखा गतोद्गीथा-नामैक्यम् शङ्क्यम् स्वरादिभेदेन उद्गीथव्यक्तीनाम् भिन्नत्वात् । न चोद्गीथश्रुतेस्सङ्कोचलक्षण बाधप्रसङ्ग इति वाच्यम् । शुक्लपटमान-येत्यादौ पटशब्दस्य व्यक्तिविशेषार्थकत्वेऽपि *जातिव्यक्ती गृहीत्वेह वयन्तु श्रुतलक्षिते […]

शरीरेभावाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ शरीरेभावाधिकरणम् एक आत्मनश्शरीरे भावात् ॥ ३-३-५१ ॥     किम् कर्तृत्वादिविशिष्टम् प्रत्यगात्मनस्साम्सारिकस्वरूपमनु-सन्धेयम् उत प्रजापतिवाक्योदितापहतपाप्मत्वादिलक्षणस्साम्सारिकरूप- व्यतिरेक एवानुसन्धेय इति विशये कर्तृत्वादिविशिष्टमेव रूपमनुसन्धेयम् । शरीरे वर्तमानस्योपासितुरात्मनस्तथाभावात् इति पूर्वपक्षे प्राप्त उच्यते व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् ॥ ३-३-५२ ॥ प्रजापतिवाक्योदितापहतपाप्मत्वादिलक्षणस्साम्सारिकस्वरूप  एवानुसन्धेयः । न तु कर्तृत्वादिविशिष्टस्वरूपमपि । कुतः ? तथोपासने सत्येव तत्क्रतुन्यायेन तादृशात्मस्वरूप फलप्राप्तेर्भावित्वात् […]

पूर्वविकल्पाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ पूर्वविकल्पाधिकरणम् ॥२०॥ पूर्वविकल्पः प्रकरणात्स्यात् क्रियामानसवत् ॥३-३-४४॥     तत्र मनश्चितादयो विद्यामयाग्नयः क्रियामयक्रत्वङ्गतया क्रिया । एवम् एषाञ्च विहितानाम् फलाकाङ्क्षायाम् पूर्वत्र *असद्वा इदमग्र आसीदि*(तै.आन.७-१)तीष्टकचिताग्नेः  प्रस्तुतत्वात् तस्य च क्रत्वव्यभिचारित्वेन क्रतूपस्थापकत्वात् तेन च क्रतोस्सन्निहिततया सन्निहितेन क्रतुना एकवाक्यतैव कल्प्यते । न च तस्य क्रतोरिष्ट-कचिताग्न्यावरुद्धत्वात् कथम् तत्र विद्यामयस्य मनश्चितादेरग्नेस्समावेश इति वाच्यम् । […]

लिङ्गभूयस्त्वाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ लिङ्गभूयस्त्वाधिकरणम् ॥१९॥    सहस्रशीर्षमित्यस्यानुवाकस्य प्रकृतदहरविद्योपास्यनिश्चायकत्वमेव युक्तम् । न तु सर्वपर विद्योपास्यनिश्चायकत्वम् । कुतः *सहस्रशीर्षमि* (तै.महा.ना.११.अनु)त्यादिद्वितीयानिर्देशेन पूर्वानुवाकोदितो पासनासम्बन्धे *तस्मिन्यदन्तस्तदुपासितव्यमि*(तै.महा.ना.१०.अनु)ति उपासिगतेन कृत्प्रत्ययेन उपास्यस्य कर्मणोऽभिहितत्वादुपास्ये द्वितीयानुपपत्तेः । विश्वमेवेदम् पुरुषः*(तै.महा.ना.११.अनु) *तत्त्वम् नारायण*(तै.महा.ना. ११.अनु) इत्यादिप्रथमानिर्देशात् द्वितीयार्थाश्रयणे विद्यामुपासीतेति विधि-पदाध्याहारप्रसङ्गाच्च । *येनावृतम् खञ्चदिवम् महीम् च*( तै.महा.ना. १.अनु) इत्यादिवत् प्रथमार्थे द्वितीया आश्रयणीया । […]

प्रदानाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ प्रदानाधिकरणम् ॥ १८ ॥      तद्य इहात्मानमनुविद्य व्रजन्ती*(छान्.८-१-६)ति दहराकाशो-पासनमुक्त्वा *एताम्श्च सत्यान्कामान्*(छान्.८-१-६) इत्यपहतपाप्म-त्वादिगुणानामुपासनस्य पृथगभिधानाम्नानादपहतपाप्मत्वादिगुणो-पासनदशायाम् न धर्मिस्वरूपम् चिन्तनीयम् । ततश्च प्रथमम् दहरा-काशाख्यम् धर्मिस्वरूपमनुसन्धाय तस्यापहतपाप्मत्वविजरत्वविशोकत्व-सत्यकामत्वसत्यसङ्कल्पत्वरूपाः कामा इत्येव चिन्तनीयम् । न तु *अपहत पाप्मा विजरो विमृत्युरि* (छान्.८-१-५)ति गुणिनोऽपि चिन्तनमिति पूर्वपक्षे प्राप्त उच्यते – प्रदानवदेव तदुक्तम् ॥ ३-३-४२ ॥ यद्यपि […]

तन्निर्धारणानियमाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ तन्निर्धारणानियमाधिकरणम् ॥१७॥    *ओमित्येतदक्षरमुद्गीथमुपासीते*(छान्.१-१-१)त्यादिना विहितानामङ्गावबद्धोपासनानामव्यभिचरितक्रतुसम्बन्धिजुहूपस्थापितक्रतुफलनिराकाङ्क्षपर्णतादिवत् अव्यभिचरितक्रतुसम्बन्ध्युद्गीथोपस्थापित-क्रतुफलेनैव नैराकाङ्क्ष्यात् *तदेव वीर्यवत्तरम् भवती*(छान्.१-१-१०)ति वीर्यवत्तरत्वादि श्रवणानामर्थवादत्वाद्व्रीहिप्रोक्षणपर्णतादिवदङ्गत्वात् उपासनानि क्रतौ नियमेनोपादेयानीति पूर्वपक्षे प्राप्ते उच्यते –   तन्निर्धारणानियमस्तद्दृष्टेः पृथग्घ्यप्रतिबन्धः फलम्॥ ३-३-४१ ॥   निर्धारणम् – निश्चयेन मनसोऽवस्थापनम् ध्यानमित्यर्थः । तस्यो-पासनस्यानियमः नियमेनाननुष्ठानम् । *तेनोभौ कुरुतो यश्चैतदेवम् वेद यश्च न वेदे*(छान्.१-१-१०)त्यनियमदर्शनात्, तस्योपासनस्य प्रबलकर्मा-प्रतिबन्धरूपवीर्यवत्तरत्वलक्षणफलान्तरवत्त्वेन कर्माङ्गत्वाभावादित्यर्थः […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.