शरीरेभावाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥

शरीरेभावाधिकरणम्

एक आत्मनश्शरीरे भावात् ॥ ३-३-५१ ॥

    किम् कर्तृत्वादिविशिष्टम् प्रत्यगात्मनस्साम्सारिकस्वरूपमनु-सन्धेयम् उत प्रजापतिवाक्योदितापहतपाप्मत्वादिलक्षणस्साम्सारिकरूप- व्यतिरेक एवानुसन्धेय इति विशये कर्तृत्वादिविशिष्टमेव रूपमनुसन्धेयम् । शरीरे वर्तमानस्योपासितुरात्मनस्तथाभावात् इति पूर्वपक्षे प्राप्त उच्यते

व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् ॥ ३-३-५२ ॥

प्रजापतिवाक्योदितापहतपाप्मत्वादिलक्षणस्साम्सारिकस्वरूप  एवानुसन्धेयः । न तु कर्तृत्वादिविशिष्टस्वरूपमपि । कुतः ? तथोपासने सत्येव तत्क्रतुन्यायेन तादृशात्मस्वरूप फलप्राप्तेर्भावित्वात् । ननु प्रजापतिविद्यायाः प्रकरणाद्दहरविद्याशेषत्वेन विद्यान्तरशेषत्वे प्रमाणाभाव इति चेन्न । प्रजापतिवाक्योदितप्रत्यगात्मब्रह्मविद्यायाः ब्रह्मप्राप्तिपूर्वका-पहतपाप्मत्वादिगुणाष्टकविशिष्टस्वात्माविर्भावलक्षणमोक्षरूपफलस्य तत्क्रतुन्यायेन तादृशस्वात्मोपासनसाध्यत्वेन सर्वब्रह्मविद्याङ्गत्वसिद्धेः सर्वपरविद्यास्वपि प्रजापतिवाक्योदितापहतपाप्मत्वादिलक्षणसाम्सारिक-रूपव्यतिरेकस्यैवानुसन्धेयत्वात् । न तूपलब्धिवत् – यथा ब्रह्मस्वरूपो-पलब्धिः यथावस्थितब्रह्मानुसन्धानादेव तथाऽऽत्मोपलब्धिरपि । यथा प्रकरणविशेषश्रुतानाम् सत्यत्वज्ञानत्वादिस्वरूपनिरूपकधर्माणाम् *आनन्दादयः प्रधानस्ये*(ब्र.सू.३-३-११)त्यधिकरणोक्तन्यायेन सर्वब्रह्म-विद्यापेक्षितब्रह्मस्वरूपप्रतिपत्त्युपयोगितया सामर्थ्यरूपाल्लिङ्गात् प्रकरणभङ्गेन सर्वब्रह्मविद्यासाधारण्यमाश्रीयते यथा वा *तमेतम् वेदानुवचनेन ब्राह्मणा विविदिषन्ती*(बृह.६-४-२२)ति विद्याविशेष-प्रकरणश्रुतानाम् वेदानुवचनादीनाम् सर्वब्रह्मविद्यापेक्षितचित्तनैर्मल्यो-पयोगित्वलक्षणसामर्थ्यरूपलिङ्गवशेन सर्वविद्यासाधारण्यम् तथैव प्रजापतिवाक्योदितप्रत्यगात्मविद्याया अपि सर्वविद्यासाधारण्यम् न्याय्यमिति ॥

इति शरीरेभावाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.