कार्याख्यानाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥

कार्याख्यानाधिकरणम् ॥ ५ ॥

    *लम्भुको ह वासो भवती*(छान्.५-२-२)त्यर्थवादोपबृम्हितात् *किम् मे वासो भविष्यतीत्याप इति होचुस्तस्माद्वा एतदशिष्यन्तः पुरस्ताच्चो-परिष्टाच्च अद्भिः परिदधती*(छान्.५-२-२)ति छान्दोग्ये श्रवणात् अपाम् वासस्त्वानुसन्धानम् प्रतीयते । बृहदारण्यके काण्वशाखायाम् – *आपो वास इति तद्विद्वाम्सः श्रोत्रिया अशिष्यंत आचामन्ति अशित्वा चाचा-मन्ति एतमेव तदनमनग्नम् कुर्वन्तो मन्यन्ते तस्मादेवम्विदशिष्य-न्नाचामेदशित्वा चाचामेदेतमेव तदनमनग्नम् कुरुत*(बृह.८-१-१४) इति अनग्नत्वचिन्तनात् वासस्त्वचिन्तनविधिरपि प्रतीयते । *आचामेदि* (बृह.८-१-१४)ति आचमनविधिप्रत्ययश्रवणात् आचमनविधिस्स्पष्टम् प्रतीयते । तत्र च द्वयोरपि विधेयत्वे गौरवात् एकस्यैव विधेयत्वे वक्तव्ये  *आचामेदि*(बृह.८-१-१४)त्याचमने स्पष्टविधिश्रवणात् स्मृत्याचारप्राप्ता-चमनातिरिक्तम् आचमनान्तरम् विधीयते । वासस्त्वादिश्रवणम् तु कथञ्चित् स्तुतिरूपतया नेतव्यमिति प्राप्तेऽभिधीयते –

कार्याख्यानादपूर्वम् ॥३-३-१८॥

विधेरप्राप्तविषयत्वस्वाभाव्यात् आचमनस्य स्मृत्याचाराभ्यामेव प्राप्तत्वात् आचमनान्तरविधाने विनिगमकानुपलम्भात् अप्राप्तम् आचमनीयास्वप्सु वासस्त्वानुसन्धानम् विधीयते । छान्दोग्ये आचमनस्यैवाप्रतीतेः शाखान्तरेति वासस्त्वानुसन्धानस्यानुगतत्वात्  तदेव विधीयत इति सिद्धान्तः ।

इति कार्याख्यानाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.