सर्ववेदान्तप्रत्ययाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥


सर्ववेदान्तप्रत्ययाधिकरणम् ॥१॥

   नानाशाखास्वाम्नातानि वैश्वानराक्षरोपासनादीनि अभ्यासप्रकर-णान्तराभ्याम् भिद्यन्ते । इतरथा अविशेषपुनश्श्रवणलक्षणाभ्यासस्य प्रकरणान्तरस्य च वैयर्थ्यप्रसङ्गादिति शाखान्तराधिकरणपूर्वपक्ष- न्यायेन पूर्वपक्षे प्राप्ते उच्यते –

सर्ववेदान्तप्रत्ययम् चोदनाद्यविशेषात् ॥३-३-१॥

सर्ववेदान्तेषु प्रतीयमानम् वैश्वानराद्युपासनमेकमेव – चोदनाद्यविशेषात् । चेदना तावद्वैश्वानरमुपासीतेत्यादिकैकरूपैव । ब्रह्मप्राप्तिरूपफलसम्योगो- ऽप्यविशिष्टः । उपायस्वरूपमप्यविशिष्टम् । वैश्वानरविद्येति समाख्याऽप्य-विशिष्टा । अतः *एकम् वा सम्योगरूपचोदनाख्याविशेषादि*(जै.मी.सू. २-४-९)ति शाखान्तराधिकरणसिद्धान्तसूत्रोक्तन्यायेनोपासनैक्यमेव स्वीकृतम् ।

भेदान्नेति चेदेकस्यामपि ॥ ३-३-२ ॥

शाखान्तरे अभ्यासप्रकरणान्तरवशेन विद्याभेदावश्यम्भावान्न विद्यैक्यम् । ननु विद्यैक्ये पुनश्श्रवणवैयर्थ्यप्रसङ्गादिति चेन्न । एकस्यामपि विद्यायामध्येतृभेदात् पुनश्श्रवणसार्थक्योपपत्तेः न विद्याभेदः । ननु विद्यैक्ये मुण्डकाम्नाताक्षरविद्यायाः शाखान्तरोदिताक्षरविद्यैक्येन *तेषामेवैताम् ब्रह्मविद्याम् वदेत शिरोव्रतम् विधिवद्यैस्तु चीर्णमि*(मुण्ड. ३-२-१०)त्याथर्वणिकमात्रानुष्ठेयशिरोव्रताङ्गकत्वम् शाखान्तराधीताक्षर-विद्याया अपि स्यात् । न चेष्टापत्तिः । शिरोव्रतशून्यानामनाथर्वणिका-नामक्षर विद्यानिष्ठा न स्यात् । अत आथर्वणिकमात्रानुष्ठेयशिरोव्रताङ्गक-मुण्डकाम्नाताक्षरविद्यायाः शाखान्तराधीताक्षरविद्या भिद्यत इत्यभ्युप-गन्तव्यमिति चेत् तत्राह –

स्वाध्यायस्य तथात्वे हि समाचारेऽधिकाराच्च

सववच्च तन्नियमः ॥ ३-३-३ ॥

तथात्व इति निमित्तसप्तमी । स्वाध्यायस्य तथात्वसिध्यर्थम् अध्ययनजन्यसम्स्कारभाक्त्वसिध्यर्थम् शिरोव्रतोपदेशः । शिरोव्रताङ्ग-काध्ययनेन उपनिषद्रूपस्वाध्यायस्य सम्स्कारो भवति । उपनिषदध्य-यनाङ्गम् शिरोव्रतम्, न विद्याङ्गम् । *नैतदचीर्णव्रतोऽधीयीत*(मुण्ड.३-२-११)ति शिरोव्रतस्याध्ययनसम्योगावगमात् । समाचाराख्ये आथर्व-णिकग्रन्थे *इदमपि वेदव्रतेन व्याख्यातमि*(आथर्वण समाचारे ग्रन्थे)ति शिरोव्रते वेदव्रतशब्दप्रयोगाच्चाध्ययनाङ्गमेव शिरोव्रतम् न विद्याङ्गम् । सववच्च तन्नियमः – यथा सप्तसूर्यादयः शतौदनपर्यन्ताः सवहोमा आथर्वणिकैकाग्निसम्बन्धात्तत्रैव नियता भवन्ति एवम् शिरोव्रतमपि आथर्वणिकाध्ययनसम्बन्धात्तत्रैव नियतम् भवति ।

दर्शयति च ॥ ३-३-४ ॥

दर्शयति च श्रुतिरुपासनस्य सर्ववेदान्तप्रत्ययत्वम् । तथा हि छान्दोग्ये – तस्मिन्यदन्तस्तदन्वेष्टव्यमि*(छान्.८-१-१)त्युक्त्वा *किम् तदत्र विद्यते यदन्वेष्टव्यमि*(छान्.८-१-१)ति प्रश्नपूर्वकमपहतपाप्मत्वादि- गुणाष्टकविशिष्टः परमात्मा तस्मिन्नुपास्य इत्युक्तम् । तैत्तिरीयके तु छान्दोग्यस्थम् प्रतिनिर्देशमुपजीव्य *तत्रापि दह्रम् गगनम् विशोकस्तस्मिन्यदन्तस्तदुपासितव्यमि*(छान्.८-१-१)ति गुणाष्टक विशिष्टस्य परमात्मन उपासनमुच्यते । तदेतदुपजीवनम् विद्यैक्यम् दर्शयति ।
एवम् सिद्धस्य विद्यैक्यस्य प्रयोजनमुच्यते –

उपसम्हारोऽर्थाभेदाद्विधिशेषवत्समाने च ॥ ३-३-५ ॥

एवम् सर्ववेदान्तेषु समाने सत्युपासने वेदान्तान्तराम्नातगुणा वेदान्तान्तरे उपसम्हर्तव्याः, विधिशेषवदर्थाभेदात् । यथा एकस्मिन्वे-दान्ते श्रुतो वैश्वानरदहरादिविधिशेषो गुणः तद्विद्यासम्बन्धात्तदुपकारा-यानुष्ठीयते तथा वेदान्तान्तरोदितोऽपि गुण: तत्सम्बन्धित्वाविशेषादुप सम्हर्तव्यः । चशब्दोऽवधारणे ।

इति सर्ववेदान्तप्रत्ययाधिकरणम् ॥ १ ॥

 

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.