सम्बन्धाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥

सम्बन्धाधिकरणम् ॥ ७ ॥

     *य एष एतस्मिन्मण्डले पुरुषो यश्चायम् दक्षिणेऽक्षन्नि*(बृह.५-५-२)त्यादिना अक्ष्यादित्यवर्तितया व्याहृतिशरीरकतया चोपास्यत्वे-नोपदिष्टस्य ब्रह्मणः *तस्योपनिषदहरित्यधिदैवतम्*(बृह.७-५-३) *तस्योपनिषदहमित्यध्यात्ममि*(बृह.७-५-३)ति ये अहरित्यहमिति च रहस्यनामनी उपदिष्टे किम् स्थानविशेषनियते अतश्चाहरिति नाम  आदित्यमण्डलस्थानविशिष्टस्यैव अहमिति च नामाक्षिस्थपुरुषस्यैवेति नियमोऽस्ति उत नेति चिन्तायाम् पूर्वपक्ष उच्यते –

सम्बन्धादेवमन्यत्रापि ॥३-३-२०॥

यथा मनोमयत्वादिविशिष्टस्यैकत्वादुपास्यैक्येन विद्यैक्यात् शाण्टडिल्यविद्यायाम् गुणोपसम्हारः, एवमक्ष्यादित्यसम्बन्धिनो ब्रह्मण-स्सत्यस्य व्याहृतिशरीरकस्यैकत्वेन विद्यैक्यात् तत्सम्बन्धिनोर्नाम्नो-रप्यनियमेन स्थानद्वयेऽप्युपसम्हार इति । एवम् प्राप्त उच्यते –

न वा विशेषात् ॥ ३-३-२१ ॥

*य एष एतस्मिन्मण्डले पुरुषो यश्चायम् दक्षिणेऽक्षन् पुरुषः तावेता-वन्योन्यस्मिन् प्रतिष्ठितावि*(बृह.५-५-२)ति द्वित्वसङ्ख्यया प्रधानो-पास्यभेदप्रतीतेः, आदित्याक्षिस्थानभेदेन रूपभेदाच्च विद्याभेदान्न नाम्नोरनियमेन स्थानद्वयेऽप्युपसम्हारः ।

दर्शयति च ॥ ३-३-२२ ॥

तस्यैतस्य तदेव रूपम् यदमुष्यरूपमि*(छान्.१-७-५०)त्यादि-छान्दोग्यश्रुतिरेव स्थानभेदे परस्परगुणाप्राप्तिम् दर्शयति हि चाक्षुषे पुरुषे आदित्यपुरुषरूपाद्यतिदेशेन । यदि हि स्थानभेदेऽपि परस्परगुणप्राप्तिः  तर्ह्यतिदेशानर्थक्यमेव स्यात् । अत आदित्यस्थानविशिष्टस्यैवाहरिति नाम अक्षिस्थस्यैवाहमिति नामेति व्यवस्थेति स्थितम् ॥

इति सम्बन्धाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.