अन्तरत्वाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥

अन्तरत्वाधिकरणम् ॥१५॥


अन्तराभूतग्रामवत् स्वात्मनोऽन्यथाभेदानुपपत्तिरिति

चेन्नोपदेशवत् ॥ ३-३-३५ ॥

    अन्तरशब्दाद्भावप्रधानात् *सुपाम् सुलगि*(अष्टा.७-१-३९)ति तृतीयैक-वचनस्याकारादेशेऽन्तरेति रूपम् । अन्तरा अन्तरत्वेनेत्यर्थः । अन्तरा-शब्दो मध्यवचनोऽप्यस्ति । तयोरेकशेषेण सूत्रेऽयमन्तरेति निर्देशः। ततश्चायमर्थः – उषस्तब्राह्मणे *एष त आत्मा सर्वान्तर*(बृह.५-४-१) इति सर्वान्तरत्वेन निर्देश: भूतग्रामवत् स्वात्मनः भूतग्रामवान्यः स्वात्मा भूतग्रामशब्दिताचेतनान्तर्यामी यः प्रत्यगात्मा तद्विषयकः । न तु परमात्मविषयकः । *यः प्राणेन प्राणिती*(बृह.५-४-१)ति प्राणि-तृत्वादिजीवधर्मस्य वाक्यशेषे कीर्तनात् । कहोळब्राह्मणम् तु अशनायाद्य-तीतत्वरूपपरमात्मलिङ्गात् परमात्मविषयकमेव । यदि ब्राह्मणद्वयमपि परमात्मविषयम् स्यात्, तर्ह्युषस्तेन पृष्टे प्रत्युक्ते च परमात्मस्वरूपे कहोळस्य पुनः प्रश्नः प्रतिवचनम् चासङ्गतम् स्यात् । अतो वेद्यभेदात् विद्याभेद इति पूर्वपक्षे प्राप्ते –
नोपदेशवत् – न वेद्यभेदो युज्यते, *यत्साक्षादपरोक्षात् ब्रह्म य आत्मा सर्वान्तर*(बृह.५-४-१) इति मुख्यब्रह्मत्वलक्षणसाक्षात् ब्रह्मत्वसर्वदेश-कालसन्निहितत्वलक्षणापरोक्षत्व सर्वान्तर्यामित्वरूपपरमात्मलिङ्ग-विशिष्टविषयत्वेन प्रश्नद्वयस्याप्येकविषयत्वावश्यम्भावात्, *यः प्राणेन प्राणिती*(बृह.५-४-१)ति वाक्यशेषश्रुतस्यापि निरुपाधिकसर्वप्राणि- प्राणनहेतुत्वस्य परमात्मलिङ्गत्वात् उत्तरत्र *न दृष्टेर्द्रष्टारम् पश्येरि* (बृह.५-४-२)त्यादिना इन्द्रियाधीनदर्शनादीनाम् कर्तारम् प्रत्यगात्मानम् प्राणनस्य कर्तृत्वेनोक्त इति न मन्वीथा इति प्रत्यगात्मव्यावृत्तेः प्रतिपादितत्वाच्च, उषस्तप्रश्नप्रतिवचनमपि परमात्मविषयमेव । अत एव कहोळप्रश्ने – *यदेव साक्षादपरोक्षात् ब्रह्मे*(बृह.५-५-१)ति एवकारेण पूर्वपृष्टाधिकविषयत्वम् व्यावर्तितम् । नन्वेवम् सति पुनः प्रश्नवैयर्थ्य-मिति चेन्न उपदेशवत् । यथा सद्विद्यायाम् *उत तमादेशप्राक्ष्य*(छान्.६-१-३) इति प्रक्रान्ते सदुपदेशे *भगवान्स्त्वेवमेतत् ब्रवीत्वि*(छान्.६-१-७)ति *भूय एव मा भगवान्विज्ञापयत्वि*(छान्.६-१-७)ति प्रश्नस्य *स य एषोऽणिमैतदैत्म्यमिदम् सर्वमि*(छान्.६-९-५)ति प्रतिवचनस्य च भूयो भूय आवृत्तिस्सतो ब्रह्मणस्तत्तन्माहात्म्यविशेषप्रतिपादनाय दृश्यते तद्वदेकस्यैव सर्वान्तरभूतस्य कृत्स्नप्राणिप्राणनहेतोः परस्य ब्राह्मणः अशनायाद्यतीतत्वादिरूपब्रह्मलिङ्गान्तरप्रतिपादनाय कहोळस्य पुनः प्रश्नोपपत्तेः ।

व्यतिहारो विशिम्षन्ति हीतरवत् ॥३-३-३६॥

हि यस्माद्धेतोरेकमेव परमात्मानम् याज्ञवल्क्यवचनानि सर्वप्राणिप्राणनहेतुत्वाशनायाद्यतीतत्वादिधर्मैर्विशिम्षन्ति तस्माद्धेतोर्वेद्यैक्याद्विद्यैक्येन व्यतिहारः ब्राह्मणद्वयश्रुतानाम् गुणानामितरेतरत्रोपसम्हारः कर्तव्यः – इतरवत् । यथा सद्विद्यायाम् वेद्यैक्यप्रयुक्तविद्यैक्यबलात् *भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाचे*(छान्.६-१-७)ति प्रश्नप्रतिवचनभेदेऽपि सर्वप्रतिवचनगतानाम् सर्वेषाम् धर्माणाम् सर्वत्रोपसम्हार: तद्वत् ।
ननु सद्विद्यायामपि प्रश्नप्रतिवचनभेदात् भेद एवास्त्वित्यत्राह –

सैव हि सत्यादयः ॥ ३-३-३७ ॥

सैव हि सच्छब्दाभिहिता देवतैव हि *ऐतदात्म्यमिदम् सर्वम् तत्सत्यम् स आत्मे*(छान्.६-८-७)ति श्रुता । सत्यत्वादयश्च धर्माः *उद्दालको हारुणि: श्वेतकेतुम् पुत्रमुवाचे*(छान्.६-९-१)त्यारभ्य प्रवृत्तेषु नवस्वपि खण्डेष्वनुगताः दृश्यमानाः वेद्यैक्यमवगमयन्ति । अतो न दृष्टान्तासिद्धिशङ्का कार्येति स्थितम् ॥

इति अन्तरत्वाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.