लिङ्गभूयस्त्वाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥

लिङ्गभूयस्त्वाधिकरणम् ॥१९॥

   सहस्रशीर्षमित्यस्यानुवाकस्य प्रकृतदहरविद्योपास्यनिश्चायकत्वमेव युक्तम् । न तु सर्वपर विद्योपास्यनिश्चायकत्वम् । कुतः *सहस्रशीर्षमि* (तै.महा.ना.११.अनु)त्यादिद्वितीयानिर्देशेन पूर्वानुवाकोदितो पासनासम्बन्धे *तस्मिन्यदन्तस्तदुपासितव्यमि*(तै.महा.ना.१०.अनु)ति उपासिगतेन कृत्प्रत्ययेन उपास्यस्य कर्मणोऽभिहितत्वादुपास्ये द्वितीयानुपपत्तेः । विश्वमेवेदम् पुरुषः*(तै.महा.ना.११.अनु) *तत्त्वम् नारायण*(तै.महा.ना. ११.अनु) इत्यादिप्रथमानिर्देशात् द्वितीयार्थाश्रयणे विद्यामुपासीतेति विधि-पदाध्याहारप्रसङ्गाच्च । *येनावृतम् खञ्चदिवम् महीम् च*( तै.महा.ना. १.अनु) इत्यादिवत् प्रथमार्थे द्वितीया आश्रयणीया । तथा च पूर्वानुवाको-दितदहरविद्योपास्यविशेष समर्पकतया तदेकवाक्यत्वसम्भवे वाक्यभेद-कल्पनाया अयुक्तत्वात् । *पद्मकोशप्रतीकाशम्*(तै.महा.ना.११.अनु) इत्यस्मिन्ननुवाके प्रकृतदहरविद्याप्रत्यभिज्ञानात् प्रकृतहानानौचित्या-च्चेति पूर्वपक्षे प्राप्त उच्यते –

लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॥३-३-४३॥

यद्यपि दहरविद्या प्रकृता तदेकवाक्यत्वञ्च युक्तम्, तथाऽपि सकलपरवद्योपास्य निर्द्धारणार्थत्वे बहूनि लिङ्गान्युपलभ्यन्ते । तत्तत्परविद्यावाक्यगतानि परब्रह्मपरतत्त्वादिपदरूपाणि चिह्नानीह वाक्ये दृश्यन्ते । यदि प्रकृतविद्योपास्यदेवताविशेषसमर्पकमिदम् वाक्यजातम् स्यात्, परब्रह्मपरतत्त्वादिप्रयोगो नारायणपदावृत्तिश्च न स्यात् । एकेन नारायणपदेनैव समीहितसिद्धेः । अतः परब्रह्मादिपदवाच्यस्य नारायण-त्वविधानायैव अयम् सम्रम्भः *शिवश्च नारायणः शक्रश्च नारायण*    (आथर्वणः) इतिवत् परम् ब्रह्मापि नारायणः परतत्त्वमपि नारायण इति वाक्यभेदोऽपि न दोषाय । तल्लिङ्गम् प्रकरणाद्वलीयः । तदप्युक्तम् पूर्वकाण्डे – *श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्याना समवाये पारदौर्बल्यमर्थविप्रकर्षादि*(जै.मी.सू.३-३-१४)ति न च सकलपरविद्यो-पास्यनिश्चायकत्वे *पद्मकोशप्रतीकाशमि*(तै.महा.ना.११.अनु)ति दहर-विद्योपास्यविशेषणोपसम्हारो न युक्त इति वाच्यम् । *ऐतदात्म्यमिदम्म् सर्वमि*(छान्.६-८-७)ति सामान्येन निर्दिष्टस्य *तत्त्वमसी*(छान्.६-८-७)ति विशेषे उपसम्हारवत् सकलपरविद्योपास्यतया अभिहितस्य नारायणस्य प्रकृतदहरविद्योपास्यतया उपसम्हारे दोषाभावादिति स्थितम् ॥

इति लिङ्गभूयस्त्वाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.