अन्यथात्वाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥

अन्यथात्वाधिकरणम् ॥२॥

    वाजिनाम् तावत् *द्वया ह वै प्राजापत्या देवाश्चासुराश्चे*(बृह.३-१-१) त्यारम्भ *ते ह देवा ऊचुर्हन्तासुरान्यज्ञ उद्गीथेनात्ययामे*(बृह.३-१-१) ति उद्गीथेनासुरविध्वम्सनम् प्रतिज्ञायोद्गीथे वागादिमनःपर्यन्तदृष्टा-वसुरैरभिभवमुक्त्वा *अथ हेममासन्यम् प्राणमूचुरि*(बृह.३-३-१-७) त्यादिनोद्गीथे प्राणदृष्ट्याऽसुरपरिभवमुक्त्वा *भवत्यात्मना पराऽस्य द्विषन् भ्रातृव्यो भवति य एवम् वेद*(बृह.३-३-१-७) इति शत्रुपराजय-फलायोद्गीथे प्राणदृष्टिर्विहिता । एवम् छन्दोगानामपि *देवासुरा ह वै यत्र सम्येतिर*(छान्.१-२-१) इत्यारभ्य *तद्ध देवा उद्गीथमाजहृरनेनैना-नभिभविष्याम*(छान्.१-२-१) इत्युद्गीथेनासुरपराभवम् प्रतिज्ञाय तद्वदे-वोद्गीथे वागादिदृष्टौ दोषमभिधाय *अथ ह य एवायम् मुख्यः प्राणस्त-मुद्गीथमुपासाञ्चक्रिरे*(छान्.१-२-७) इत्यादिनोद्गीथे प्राणदृष्ट्याऽसुर-पराभवमुक्त्वा *यथाऽश्मानमाखणमृत्वा विध्वगूँसत एवगँ ह वै स विध्वगूँसते य एवम् विदि पापम् कामयते*(छान्.१-७-८) इति शत्रुपराभवायोद्गीथे प्राणदृष्टिर्विहिता । तत्रोभयत्राध्यस्तप्राणभावस्योद्गीथ-स्यैवोपास्यत्वश्रवणेन रूपाभेदाच्छत्रुपराभवरूपफलसम्योगाविशेषा-दुद्गीथविद्येति समाख्यैक्याच्च तयोरैक्यमिति पूर्वपक्षः । तत्र राद्धान्त-छायया परिचोद्य परिहरति ।

अन्यथात्वम् शब्दादिति चेन्नाविशेषात् ॥ ३-३-६ ॥

वाजसनेयके – *अथ हेममासन्यम् प्राणमूचुस्त्वम् न उद्गायेति तथेति तेभ्य एष प्राण उदगायत्*(बृह.३-३-१-७) इत्युद्गानकर्तरि प्राणदृष्टि-विधानात् छान्दोग्ये *अथ ह य एवायम् मुख्यः प्राणस्तमुद्गीथमु-पासाञ्चक्रिर*(छान्.१-२-७) इति उद्गानकर्मणि प्राणदृष्टिविधानाच्छब्दा-दुपास्यरूपान्यथात्वप्रतीतेर्भेद इति चेन्न । देवासुरसङ्ग्रामोपक्रमादिबहु-सारूप्यात् वाजसनेयकेऽपि *हन्तासुरान्यज्ञ उद्गीथेनात्ययामे*(बृह.३-१-१) त्युद्गीथेनोपक्रमात्तदविरोधाय *तेभ्य एष प्राण उदगायत्*(बृह.३-३-१-७) इत्युद्गानकर्मरूप एवोद्गीथे पाकादिषु सौकर्यातिशयविवक्षया *पच्यत ओदनः स्वयमेवे*त्योदने कर्तृत्वोपचारवदद्गानकर्मण्येव कर्तृत्वोपचारो-पपत्तेरुद्गीथ एवोभयत्राप्युपास्यः । अतो विद्यैक्यमिति प्राप्ते प्रचक्ष्महे ।

न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् ॥ ३-३-७ ॥

नवेति पूर्वपक्षम् व्यावर्तयति । प्रकरणभेदात् छान्दोग्ये *ओमित्येत-दक्षरमुद्गीथमुपासीत*(छान्.१-१-१)इति प्रकृतो-द्गीथावयवप्रणवविषयकमुपासनम् । वाजसनेयके प्रणवस्याप्रकृतत्वात् *उद्गीथेनात्ययामे*(बृह.३-३-१)ति कृत्स्नोद्गीथस्यैव प्रस्तुतत्वात्कृत्स्नो-द्गीथविषयकमेवोपासनम् अतो रूपभेदाद्विद्याभेदः । किञ्च छान्दोग्ये उद्गीथस्याध्यस्तप्राणभावस्योपास्यत्वम् वाजिनाम् तु *अथ हेममासन्यम् प्राणमूचुस्त्वम् न उद्गायेति तथेति तेभ्य एष प्राण उदगायत्*(बृह.३-३-७) इत्यध्यस्तप्राणभावस्योद्गातुरुपास्यत्वम् । न च वाजसेनयके उद्गातुरुपास्यत्वे *उद्गीथेनात्ययामे*(बृह.३-३-१)त्युपक्रमविरोधश्शङ्कनीयः । उद्गातुरुपासने उद्गीथस्यानु प्रविष्टतयोपक्रमावगतस्योद्गीथस्यापरित्यागात् । अत्र च वक्तव्यम् बृहदारण्यकप्रकाशिकायामुक्तम् । तत्रैवानुसन्धेयम् ॥

ञ्ज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॥ ३-३-८ ॥

ननूद्गीथविद्येति सञ्ज्ञैक्याद्विद्यैक्यमुक्तमिति चेन्न । तत्सञ्ज्ञैक्यम् विधेयभेदेऽप्यस्त्येव । यथाऽग्निहोत्रसञ्ज्ञा नित्याग्निहोत्रे कुण्डपायिनामयनाग्निहोत्रे च । एवम् छान्दोग्यगतप्रथमप्रपाठकोदितासु बह्वीषु उद्गीथविद्येति सञ्ज्ञैक्यस्य दर्शनाच्च तदप्रयोजकमिति भावः ।

व्याप्तेश्च समञ्जसम् ॥ ३-३-९ ॥

छान्दोग्ये प्रथमपाठके उत्तरास्वपि विद्यासु *ओमित्येतदक्षरमुद्गीथ-मुपासीते*(छान्.१-१-१)त्यादिषूद्गीथावयवस्य प्रणवस्य व्याप्तत्वेन न तन्मध्यपातित्वादस्या अपि विद्याया उद्गीथावयवप्रणवविषयत्वमेव । ततश्च छान्दोग्यवाजसनेयकोद्गीथविद्यायाश्चाध्यस्तप्राणभावोद्गानकर्तृ-विषयत्वात् प्रधानभूतोपास्य भेदे बह्वर्थवादसारूप्यस्याप्रयोजकत्वा-द्विद्याभेद इति स्थितम् ।

इति अन्यथात्वाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.