मनोधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य द्वितीयः पादः मनोधिकरणम्॥२॥ *मनः प्राणे*(छान्.६-८-६) इत्यत्र मनोवृत्तेरेव प्राणे अप्यय उच्यते, मनश्शब्दस्य मनोवृत्तिष्वपि प्रचुरप्रयोगसत्त्वात् । न तु पूर्वोक्तरीत्या सम्योगविशेषस्सम्पत्तिशब्दार्थ इति प्राप्ते उच्यते – तन्मनः प्राण उत्तरात् ॥४-२-३॥ मनसो निर्व्यापारताहेतुभूतः प्राणेन सम्योगविशेष एव इहापि सम्पत्ति- शब्दार्थः । ततश्च मन एव प्राणे सम्पद्यते *मनःप्राण*(छान्.६-८-६) इत्युत्तरवाक्यादित्यर्थः । मनश्शब्दस्य मनोवृत्तिपरत्वेऽपि सम्पत्तिश्रुते-र्गौणत्वावश्यम्भावेन मनश्शब्दस्य […]
वागधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य द्वितीयः पादः वागधिकरणम् ॥ १ ॥ *वाङ्मनसि सम्पद्यते*(छान्.६-८-६) इति श्रूयमाण वाचो मनस्सम्त्ति- त्तिर्वाग्वृत्तिविषया न तु वाग्विषया । वाचो मनःप्रकृतिकत्वाभावेनाप्रकृति-भूते मनसि वाचः साक्षाल्लयासम्भवात् । न च वाग्वृत्तेरप्यप्रकृतिभूते मनसि सम्पत्तिशब्दितो लयो न सम्भवतीति वाच्यम् । मनसि स्थितेऽपि वाग्व्यापाराभावमात्रेण सम्पद्यत इत्युपपत्तेः । विद्यमानायास्तु वाचस्तादात्विकाभावस्याप्यभावेन सम्पत्तिश्रुतेरत्यन्तासम्भवादिति पूर्वपक्षे प्राप्त उच्यते – वाङ्मनसि […]
इतरक्षपणाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य प्रथमःपादः ॥ इतरक्षपणाधिकरणम् ॥ ११ ॥ *तस्य तावदेवचिरम् यावन्नविमोक्ष्येऽथ सम्पत्स्य*(छान्.६-२४-२) इति विद्यायोनिशरीरपातमात्रस्यैवान्तरायत्व श्रवणात् प्रारब्धयोः पुण्य-पापकर्मणोस्सत्वेऽपि विद्यायोनिशरीरावसान एव मोक्ष इति प्राप्त उच्यते – भोगेन त्वितरे क्षपयित्वाऽथ सम्पद्यते ॥ ४-१-१९ ॥ तुशब्दः पक्षव्यावृत्त्यर्थः । आरब्धकार्ये पुण्यपापे फलभोगेन क्षपयित्वा ब्रह्म सम्पद्यते । ते च प्रारब्धपुण्यपापे विद्यायोनिशरीरमात्रोपभोग्यफले चेत् विद्यायोनिशरीरावसाने अनेकशरीरभोग्यफले चेत् तदवसाने […]
अग्निहोत्राद्यधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य प्रथमःपादः ॥ अग्निहोत्राद्यधिकरणम् ॥ १० ॥ विद्योत्पत्त्यनन्तरभाविनामाश्रमधर्माणाम् सुकृतत्वाविशेषेण विद्योत्प-त्तिकार्यार्थत्वाभावेन च अनारब्धकार्यस्य विद्याननुगुणकारीर्यादिकर्मवद-श्लेषस्यैव वक्तव्यत्वात् आश्रमकर्मत्वेनानुष्ठानेऽपि विद्यार्थतया अनुष्ठानमेव युक्तमिति प्राप्तेऽभिधीयते – अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥४-१-१६॥ अग्निहोत्राद्याश्रमकर्म विद्योत्पत्त्याख्यकार्यायैव आप्रयाणादनुष्ठेयमेव । *तमेतम् वेदानु वचनेने*(बृह.६-४-२२)त्यादिना विद्योत्पत्तिकार्यार्थत्व-दर्शनात् । न च विद्याया निष्पन्नतया न तदर्थमनुष्ठानमावश्यकमिति वाच्यम् । आप्रयाणादनुवर्तनीयाया अहरहरभ्यासाधेयातिशयाया विद्याया अहरहरुत्पत्त्यर्थमनुष्ठानस्यावश्यकत्वात् । नन्वेवमग्निहोत्रादिसाधुकृत्या विद्योत्पत्त्यर्था […]
अनारब्धकार्याधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य प्रथमःपादः ॥ अनारब्धकार्याधिकरणम् ॥ ९ ॥ *एवम् हास्य सर्वे पाप्मानः प्रदूयन्त*(छान्.५-२४-३)ति सर्वकर्म-प्रदाहश्रवणात् ब्रह्मविद्योत्पत्त्यनन्तरमेव सर्वकर्मणाम् नाशः । देहस्थि-तिस्तु चक्रभ्रमणादिवत्सम्स्कारवशादप्युपपद्यत इति प्राप्ते उच्यते – अनारब्धकार्ये एव तु पूर्वे तदवधेः॥४-१-१५॥ विद्योत्पत्तेः प्राचीने अनारब्धकार्ये एव सुकृतदुष्कृते नश्यतः नत्वा-रब्धकार्ये । *तस्य तावदेव चिरम् यावन्न विमोक्ष्य*(छान्.६-१४-२) इति शरीरपातविलम्बावधिश्रवणाद्यावच्छरीरधारणम् प्रारब्धकर्मानुवृत्तेरवश्य-म्भावात्, कर्मव्यतिरिक्तस्य देहधारकसम्स्कारस्य सद्भावे प्रमाणाभावा-दित्युक्तम् ॥ […]
इतराधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य प्रथमःपादः ॥ इतराधिकरणम् ॥८॥ पुण्यकर्मफलस्य सुखरूपत्वेन विदुषोऽनिष्टत्वाभावात् नाश्लेषविनाशा-विति पूर्वपक्षे प्राप्त उच्यते – इतरस्याप्येवमसम्श्लेषः पाते तु ॥ ४-१-१४ ॥ विदुषः पुण्यस्यापि मोक्षविरोधित्वेन अनिष्टफलत्वसाम्यादेव अश्लेष-विनाशौ । विद्यानुगुणस्य वृष्ट्यन्नारोग्यफलस्य शरीरपाते सति अनिष्ट-त्वादश्लेषः । इति इतराधिकरणम् ॥
तदधिगमाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य प्रथमःपादः ॥ तदधिगमाधिकरणम् ॥ ७ ॥ *नाभुक्तम् क्षीयते कर्म कल्पकोटिशतैरपी*(ब्रह्मवैवर्त प्रकृतिखण्ड.२६-अ.७० श्लो)ति भोगादेव कर्मक्षयश्रवणात् अश्लेषविनाशश्रुतिः कथञ्चित् विद्यास्तुत्यर्थतया नेयेति प्राप्त उच्यते – तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॥ ४-१-१३ ॥ उपासने प्रारब्धे तत्समार्थ्यादेव पूर्वाघविनाशः उत्तराघाश्लेषश्च भवति तद्व्यपदेशात् । *एवम् हास्य सर्वे पाप्मानः प्रदूयन्ते*(छान्.५-२४-३)। *एवमेवम् विदि पापम् कर्म न श्लिष्यत*(छान्.४-१४-३) इति श्रुतेः । […]
आप्रयाणाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य प्रथमःपादः ॥ आप्रयाणाधिकरणम् ॥ ६ ॥ इदमपवर्गसाधनमुपासनम् एकस्मिन्नेवाहनि कार्यम् शास्त्रार्थस्य तावतैव कृतत्वादिति पूर्वपक्षे प्राप्ते उच्यते – आप्रयाणात्तत्रापि हि दृष्टम् ॥४-१-१२॥ उपासनम् आमरणमनुवर्तनीयम् *स खल्वेवम् वर्तयन् यावदायुषम् ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तते न च पुनरावर्तत*(छान्.८-१५-१) इति उपासनस्य यावदायुषमनुवर्तनीयत्वविधानात् । इति आप्रयाणाधिकरणम् ॥
आप्रयाणाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य प्रथमःपादः ॥ आप्रयाणाधिकरणम् ॥ ६ ॥ इदमपवर्गसाधनमुपासनम् एकस्मिन्नेवाहनि कार्यम् शास्त्रार्थस्य तावतैव कृतत्वादिति पूर्वपक्षे प्राप्ते उच्यते – आप्रयाणात्तत्रापि हि दृष्टम् ॥४-१-१२॥ उपासनम् आमरणमनुवर्तनीयम् *स खल्वेवम् वर्तयन् यावदायुषम् ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तते न च पुनरावर्तत*(छान्.८-१५-१) इति उपासनस्य यावदायुषमनुवर्तनीयत्वविधानात् । इति आप्रयाणाधिकरणम् ॥
आसीनाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य प्रथमःपादः ॥ आसीनाधिकरणम् ॥५॥ आसीनस्सम्भवात् ॥४-१-७॥ आसीन एव उपासीत | तस्यैव उपासनस्य सम्भवात् । तिष्ठतो गच्छतश्च यत्नसापेक्षत्वात् शयानस्य निद्राप्रसक्तेश्च उपासनस्य ध्यान-रूपत्वाच्च एकाग्रचित्ततावश्यम्भावात् चित्तैकाग्र्यस्यासन सापेक्षत्वा-च्चासीन एव कुर्यात् । ध्यानाच्च ॥ ४-१-८ ॥ सजातीयप्रत्ययान्तराव्यवहितचिन्तालक्षणध्यानलक्षणत्वादुपासनस्य तत्र च चित्तैकाग्र्यावश्यम्भावेन तत्सिद्धये आसीनत्वस्यापेक्षितत्वाच्च । अचलत्वञ्चापेक्ष्य ॥ ४-१-९ ॥ *ध्यायतीव पृथिवी ध्यायतीवान्तरिक्षमि*(छान्.७-३-७)त्यादिषु निश्चलत्वधर्मेण ध्यातृसाम्यव्यपदेशदर्शनात् ध्यातृनिश्चलत्वस्यापेक्षि-तत्वात् […]