आदित्यादिमत्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य प्रथमःपादः ॥ आदित्यादिमत्यधिकरणम् ॥ ४ ॥      *य एवाऽसौ तपति तमुद्गीथमुपासीते*(छान्.१-३-१)त्यत्र कर्माङ्गभूत-उद्गीथे आदित्यदृष्टिः कर्तव्या उतादित्ये उद्गीथदृष्टिरिति विशये *ब्रह्मदृष्टि-रुत्कर्षादि*(ब्र.सू.४-१-५)ति सूत्रोक्तन्यायेनोत्कृष्टदृष्टेरेवापकृष्टे कर्तव्यत्वात्, कर्माङ्गस्योद्गीथस्य कर्मोपकारकत्वेनोत्कृष्टतया तद्बुद्धिरेवादित्ये कर्तव्येति पूर्वपक्षे प्राप्ते उच्यते – आदित्यादिमतयश्चाङ्ग उपपत्तेः ॥ ४-१-६ ॥ अत्र चशब्दोऽवधारणे । अङ्ग एवादित्यादिमतयः कार्याः । कर्मा-राध्यतया आदित्यादीनामेवोत्कृष्टत्वस्योपपत्तेरिति ॥ इति आदित्यादिमत्यधिकरणम् ॥

प्रतीकाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य प्रथमःपादः ॥ प्रतीकाधिकरणम् ॥ ३ ॥    *मनो ब्रह्मेत्युपासीते*(छान्.३-१८-१)ति प्रतीकोपासनस्यापि ब्रह्मोपासन-त्वाविशेषात् ब्रह्मणश्च उपासितुरात्मत्वेन आत्मत्वेनैवोपासनम् कार्यमिति पूर्वपक्षे प्राप्त उच्यते । न प्रतीके न हि सः ॥४-१-४॥ मनोविशेष्यकब्रह्मविशेषणकोपासने ब्रह्मणः दृष्टिविशेषणत्वेन विशेष्य-भूतमनसः उपासकम् प्रत्यात्मत्वासम्भवेन अब्रह्माणि मनसि ब्रह्मदृष्ट्या-नुसन्धानमेवेदम् । ननु अत्रापि ब्रह्मण एवोपास्यत्वमस्तु अचेतनस्य अल्पशक्तेर्मन आदेरुपास्यत्वासम्भवात् मनसः दृष्टिविशेषणत्वमङ्गीकृत्य ब्रह्मण एवोपास्यत्वस्य न्याय्यत्वादित्यत्राह – ब्रह्मदृष्टिरुत्कर्षात् […]

आत्मत्वोपासनाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य प्रथमःपादः ॥ आत्मत्वोपासनाधिकरणम् ॥ २ ॥      *पृथगात्मनम् प्रेरितारञ्च मत्वा जुष्टस्ततस्तेनामृतत्वमेती*(श्वेत.१-६)ति जीवेश्वरपृथक्त्वज्ञानस्य अमृतत्वसाधनत्वश्रवणात् स्वात्मानम् प्रत्यपृथक्सिद्धविशेष्यत्वलक्षणमात्मत्वम् ब्रह्मणो नास्त्येव । अत एव *आत्मेत्येवोपासीते*(बृह.३-४-७)तीतिकरणेन दृष्टिविधित्वम् सूच्यते । तादृशी च दृष्टिर्न मोक्षार्थोपासन विषया । ततश्च मोक्षोपासने  तात्त्विक-विषयत्वावश्यम्भावेनातस्मिन्स्तदारोपरूपदृष्टिविधेरयुक्तत्वात् पृथक्त्वे-नैवानुसन्धानम् कार्यम् नत्वपृथक्सिद्धविशेष्यत्वरूपात्मत्वेनेति पूर्वपक्षे पठति – आत्मेति तूपगच्छन्ति ग्राहयन्ति चेति ॥ ४-१-३ ॥ *त्वम् वा अहमस्मि […]

आवृत्त्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थोऽध्यायः ॥ चतुर्थस्याध्यायस्य प्रथमःपादः ॥ आवृत्त्यधिकरणम् ॥ १ ॥   *ब्रह्मविदाप्नोति परमि*(तै.अ.१-२)त्यादिषु मोक्षसाधनम् वेदनम् सकृत्कृतमेव शास्त्रार्थः । *स यो ह वै तत्परमम् ब्रह्म वेद ब्रह्मैव भवती*(मुण्ड.३-२-९)ति ब्रह्मवेदनस्य परप्राप्त्युपायत्वश्रुतेः सकृत्कृतेऽपि वेदने शास्त्रार्थनिर्वृत्तेः असकृदावृत्तौ ज्योतिष्टोमादेरिव फल-भूम्नः कल्पनीयतया अपुनरावृत्तिलक्षण मोक्षरूपफलभेदस्याभावाच्चेति पूर्वःपक्षः । सिद्धान्तस्तु – आवृत्तिरसकृदुपदेशात् ॥ ४-१-१ ॥   असकृदावृत्तम् वेदनमित्यर्थः । […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.