श्रीभाष्यम् 01-04-35 सर्वव्याख्यानाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये सर्वव्याख्यानाधिकरणम्॥८॥ (अधिकरमणार्थः – सर्ववेदान्तगतानां सर्वेषां जगत्कारणत्वपरवाक्यानां, ब्रह्मपरत्वमेव) (सर्वविद्यासम्बन्धिविचाररूपम्) १३८. एतेन सर्वे व्याख्याताव्याख्याता: ॥ १–४–२९ ॥ (उक्तेनार्थेन सर्ववेदान्ततात्पर्यनिर्णयः) एतेन पादचतुष्टयोक्तन्यायकलापेन, सर्ववेदान्तेषु जगत्कारणप्रतिपादनपरास्सर्वे वाक्यविशेषाश्चेतनाचेतनविलक्षणसर्वज्ञसर्वशक्तिब्रह्मप्रतिपादनपरा व्याख्याता:। व्याख्याता: इति पदाभ्यासोऽध्यायपरिसमाप्तिद्योतनार्थ:॥ २९॥ इति श्रीशारीरकमीमांसाभाष्ये सर्वव्याख्यानाधिकरणम्॥८॥ इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये प्रथमस्याध्यायस्य चतुर्थ: पाद:॥४॥ ॥ समाप्तश्च प्रथमोऽध्याय: ॥
श्रीभाष्यम् 01-04-34 प्रकृत्यधिकरणम्
श्रीशारीरकमीमांसाभाष्ये प्रकृत्यधिकरणम्॥ ७ ॥ (अधिकरणार्थः – ब्रह्मण एव जगन्निमित्तता, जगदुपादानता च) (सद्विद्या छा.उ. 6) १३२. प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ १–४–२३ ॥ (पेटिकासङ्गतिः) एवं निरीश्वरसाङ्ख्ये निरस्ते सति सेश्वरसाङ्ख्य: प्रत्यवतिष्ठते – यद्यपीक्षणादिगुणयोगात् सर्वज्ञमीश्वरं जगत्कारणत्वेन वेदान्ता: प्रतिपादयन्ति; तथापि वेदान्तैरेव जगदुपादानतया प्रधानमेव प्रतिपाद्यत इति प्रतीयते। न हि वेदान्तास्सर्वज्ञस्यापरिणामिनोऽधिष्ठातु: ईश्वरस्याधिष्ठेयेनाचेतनेन परिणामिना प्रधानेन विना जगत: कारणत्वमवगमयन्ति। (उक्तार्थे श्रुतिस्मृतिप्रदर्शनपूर्वकं पूर्वः पक्षः) तथाह्यपरिणामिनमेनं प्रकृतिं […]
श्रीभाष्यम् 01-04-33 वाक्यान्वयाधिकरणम्
श्री शारीरकमीमांसाभाष्ये वाक्यान्वयाधिकरणम्॥६॥ (अधिकरणार्थः – वाक्यविशेषैः उपास्यतया विहितं ब्रह्मैव, न पुरुषः) (मैत्रेयीविद्या बृ.उ. 6-5) १२८. वाक्यान्वयात् ॥ १–४–१९ ॥ (सङ्गतिप्रतिपादनम्) अत्रापि कापिलतन्त्रसिद्धपुरुषतत्त्वावेदनपरं वाक्यं क्वचिद्दृश्यत इति तदतिरिक्त ईश्वरो नाम न कश्चित्सम्भवतीत्याशङ्क्य निराकरोति। (विषयप्रदर्शनम्) बृहदारण्यके मैत्रेयीब्राह्मणे श्रूयते – न वा अरे पत्यु: कामाय पति: प्रियो भवति (बृ.६.५.६) इत्यारभ्य – न वा अरे सर्वस्य कामाय सर्वं प्रियं भवति […]
श्रीभाष्यम् 01-04-32 जगद्वाचित्वाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये जगद्वाचित्वाधिकरणम् ॥ ५ ॥ (अधिकरणार्थः – जगत् परब्रह्मकारणकमेव, न पुरुषपदवाच्यजीवकारणकम्) (बालाकिविद्या कौ.उ. 4) १२५. जगद्वाचित्वात् ॥ १–४–१६ ॥ (सङ्गतिप्रदर्शनम्) (वेदान्तवाक्येषु चेतनकारणत्वबोधेऽपि जीवपरत्वेन निर्वाह्यत्वशङ्का) पुनरपि साङ्ख्य: प्रत्यवतिष्ठते यद्यपि वेदान्तवाक्यानि चेतनं जगत्कारणत्वेन प्रतिपादयन्ति, तथापि तन्त्रसिद्धप्रधानपुरुषातिरिक्तं वस्तु जगत्कारणं वेद्यतया न तेभ्य: प्रतीयते। तथाहि भोक्तारमेव पुरुषं कारणं वेद्यतयाऽधीयते कौषीतकिनो बालाक्यजातशत्रुसंवादे ब्रह्म ते ब्रवाणि (कौषी.४.१८) इत्युपक्रम्य यो वै बालाक […]
श्रीभाष्यम् 01-04-31 कारणत्वाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये कारणत्वाधिकरणम्॥४॥ (अधिकरणार्थः – सद्रूपस्य ब्रह्मण एव जगत्कारणता, न कापिलस्य प्रधानस्य) (अव्याकृतब्रह्मविद्या बृ.उ. 3-4-7) १२३. कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्ते: ॥ १–४–१४ ॥ पुन:प्रधानकारणवादी प्रत्यवतिष्ठते – न वेदान्तेष्वेकस्मात्सृष्टिराम्नायत इति जगतो ब्रह्मैककारणत्वं न युज्यते वक्तुम्। तथा हि सदेव सोम्येदमग्र आसीत् (छा.६.२.१) इति सत्पूर्विका सृष्टिराम्नायते; असद्वा इदमग्र आसीत् (तै.आ.७) इत्यसत्पूर्विका च; अन्यत्र असदेवेमग्र आसीत् । तत्सदासीत्। । तत्समभवत् (छा.३.१९.१) […]
श्रीभाष्यम् 01-04-30 संख्योपसंग्रहाधिकरणम्
श्रीशारीरकमीमासांभष्ये संख्योपसंग्रहाधिकरणम्॥३॥ (अधिकरणार्थः – कापिलमतानङ्गीकारेऽपि पञ्चजनशब्दार्थसिद्धिः) (ज्योतिषां ज्योतिर्विद्या बृ.उ. 6-4-16)) १२०. न संख्योपसंग्रहादपि नानाभावादितरेकाच्च ॥ १–४–११ ॥ (विषयवाक्यप्रदर्शनम्) वाजसनेयिनस्समामनन्ति यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठित:। तमेवम्मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम् (बृ.३.४.१७) इति। (संशयस्वरूपम्) किमयं मन्त्र: कापिलतन्त्रसिद्धतत्त्वप्रतिपादनपर:, उत नेति सन्दिह्यते। (पूर्वपक्षः) किं युक्तम्? तन्त्रसिद्धतत्त्वप्रतिपादनपर इति कुत😕 पञ्चशब्दविशेषितात्पञ्चजन-शब्दात्पञ्चविंशतितत्त्वप्रतीते:। एतदुक्तं भवति – पञ्चजना: (बृ.६.४.१७) इति समासस्समाहारविषय:। पञ्चानां जनानां समूहा: पञ्चजना:; पञ्चपूल्य इतिवत्। […]
श्रीभाष्यम् 01-04-29 चमसाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये चमसाधिकरणम् ॥ २ ॥ (अधिकरणार्थः – प्रकृत्यादीनां ब्रह्मात्मकता) (अजाविद्या मन्त्रि.उ. 1. श्वे.उ. 4) ११७. चमसवदविशेषात् ॥ १–४–८ ॥ (प्रकृताधिकरणप्रयोजनकृत्यम्) अत्रापि तन्त्रसिद्धप्रक्रिया निरस्यते, न ब्रह्मात्मकानां प्रकृतिमहदहङ्कारादीनां स्वरूपम्, श्रुतिस्मृतिभ्यां ब्रह्मात्मकानां तेषां प्रतिपादनात्। (मन्त्रिकोपनिषत्सिद्धं प्रकृत्यादिस्वरूपम्) यथा आथर्वणिका अधीयते – विकारजननीमज्ञामष्टरूपामजां ध्रुवाम्। ध्यायतेऽध्यासिता तेन तन्यते प्रेर्यते पुन:। सूयते पुरुषार्थं च तेनैवाधिष्ठिता जगत्। गौरनाद्यन्तवती सा जनित्री भूतभाविनी। सिताऽसिता च […]
श्रीभाष्यम् 01-04-28 आनुमानिकाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये प्रथमाध्ये (अन्योन्यव्यवच्छेदपादः) चतुर्थपादः आनुमानिकाधिकरणम्॥१॥ (अधिकरणार्थः – अव्यक्तशब्दार्थः, न सांख्योक्तं प्रधानं, किन्तु शरीरमेव) (अधिकरणद्वयार्थनिगमनम्) ११०. आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॥ १–४–१ ॥ (द्वितीय-तृतीयपादार्थसङ्ग्रहः) उक्तं परमपुरुषार्थलक्षणमोक्षसाधनतया जिज्ञास्यं जगज्जमन्मादिकारणं ब्रह्माचिद्वस्तुन: प्रधानादेश्चेतनाच्च बद्धमुक्तोभयावस्थाद्विलक्षणं, निरस्तसमस्तहेयगन्धं, सर्वज्ञं, सर्वशक्ति, सत्यसङ्कल्पं, समस्तकल्याणगुणात्मकं, सर्वान्तरात्मभूतं, निरङ्कुशैश्वर्यमिति। (प्रकृतचतुर्थपादार्थसङ्ग्रहः) इदानीं कापिलतन्त्रसिद्धाब्रह्मात्मकप्रधानपुरुषादिप्रतिपादनमुखेन प्रधानकारणत्व-प्रतिपादनच्छायानुसारीणि अपि कानिचिद्वाक्यानि कासुचिच्छाखासु सन्तीत्याशङ्क्य ब्रह्मैककारणत्वस्थेम्ने तन्निराक्रियते। (विषयप्रदर्शनम्) कठवल्लीष्वाम्नायते – इन्द्रियेभ्य: परा ह्यर्था अर्थेभ्यश्च परं […]