श्रीभाष्यम् 01-04-34 प्रकृत्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये प्रकृत्यधिकरणम्॥

(अधिकरणार्थः – ब्रह्मण एव जगन्निमित्तता, जगदुपादानता च)

(सद्विद्या छा.उ. 6)

१३२. प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ १२३ ॥

(पेटिकासङ्गतिः)

एवं निरीश्वरसाङ्ख्ये निरस्ते सति सेश्वरसाङ्ख्य: प्रत्यवतिष्ठते यद्यपीक्षणादिगुणयोगात् सर्वज्ञमीश्वरं जगत्कारणत्वेन वेदान्ता: प्रतिपादयन्ति; तथापि वेदान्तैरेव जगदुपादानतया प्रधानमेव प्रतिपाद्यत इति प्रतीयते। न हि वेदान्तास्सर्वज्ञस्यापरिणामिनोऽधिष्ठातु: ईश्वरस्याधिष्ठेयेनाचेतनेन परिणामिना प्रधानेन विना जगत: कारणत्वमवगमयन्ति।

(उक्तार्थे श्रुतिस्मृतिप्रदर्शनपूर्वकं पूर्वः पक्षः)

तथाह्यपरिणामिनमेनं प्रकृतिं चैतदधिष्ठितां परिणामिनीमधीयते निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् (श्वे.१९) स वा एष महानज आत्माऽजरोऽमर: (बृ.२५) विकारजननीमज्ञां अष्टरूपामजां ध्रुवाम्, ध्यायतेऽध्यासिता तेन तन्यते प्रेर्यते पुन:। सूयते पुरुषार्थं च तेनैवाधिष्ठिता जगत्। गौरनाद्यन्तवती सा जनित्री भूतभाविनी (मान्त्रिक.) इति। तथा प्रकृतिमुपादानभूतामधिष्ठायैवेश्वरो विश्वं जगत्सृजतीति श्रूयते अस्मान्मायी सृजते विश्वमेतत् (श्वे..), मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् (श्वे..१०) इति। स्मृतिरपि मयाध्यक्षेण प्रकृतिस्सूयते सचराचरम् (.गी..१०) इति। एवमश्रुतेऽपि प्रधानोपादानत्वे ब्रह्मणो जगत्कारणत्वश्रुत्यन्यथानुपपत्त्यैव प्रधानस्वरूपं तस्येश्वराधिष्ठितस्य जगदुपादानत्वं च  सिद्ध्यति॥

(तत्र वेदान्त्यभिमतनिमित्तोपादानैक्यदूषणम्)

एवमेव हि लोके निमित्तोपादानयोरत्यन्तभेदो दृश्यते। मृत्सुवर्णादेरचेतनस्य घटकटकाद्युपादानत्वं चेतनस्य कुलालसुवर्णकारादेर्निमित्तत्वं च नियतमुपलभ्यते कार्यनिष्पत्तिश्च नियमेनानेककारकसव्यपेक्षा दृष्टा। एवं निमित्तोपादानयोर्भेद नियमं कार्यनिष्पत्तेरनेककारक-सव्यपेक्षत्वनियमं चातिक्रम्यैकमेव ब्रह्मोपादानं निमित्तं च प्रतिपादयितुं न प्रभवन्ति वेदान्तवाक्यानि। अतो ब्रह्म निमित्तकारणमेव, नोपादानम्। उपादानं तु तदधिष्ठितं प्रधानमेव इति॥

(सिद्धान्तप्रदर्शनम्)

एवं प्राप्तेऽभिधीयते प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् इति। प्रकृतिश्च उपादानं च। न निमित्तकारणमात्रं ब्रह्म, उपादानकारणं च ब्रह्मैवेत्यर्थ:। कुत😕 प्रतिज्ञादृष्टान्तानुपरोधात्। एवमेव हि प्रतिज्ञादृष्टान्तौ नोपरुध्येते। प्रतिज्ञा तावत् स्तब्धोऽस्युत तमादेशमप्राक्ष्य: येनाश्रतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम् (छां..१३) इत्येकविज्ञानेन सर्वविज्ञानविषया। दृष्टान्तश्च यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यात् (छा...), यथा सोम्यैकेन लोहमणिना (छा...), यथा सौम्यैकेन नखनिकृन्तनेन (छां...) इति कारणविज्ञानात्कार्यविज्ञानविषय:

(ब्रह्मणो निमित्तमात्रत्वे एकविज्ञानेन सर्वविज्ञानानुपपत्तिः)

यदि निमित्तकारणमेव जगतो ब्रह्म, तदा  तद्विज्ञानान्न समस्तं जगद्विज्ञातं स्यात्। न हि कुलालादिविज्ञानेन घटादिर्विज्ञायते। अत: प्रतिज्ञादृष्टान्तयोर्बाध एव। ब्रह्मण एवोपादानत्वे उपादानभूतमृत्पिण्डलोहमणिनखनिकृन्तनविज्ञानेन घटमणिककटकमुकुटवासीपरश्वथादितत्कार्य-विज्ञानवत् निखिलजगदुपादानभूते ब्रह्मणि विज्ञाते तत्कार्यं निखिलं जगद्विज्ञातं स्यात्। कारणमेवावस्थान्तरापन्नं कार्यम्, न द्रव्यान्तरमिति कार्यकारणरूपेण अवस्थितमृत्तद्विकारादि-निदर्शनेन प्रतिज्ञासमर्थनाद्ब्रह्म जगदुपादानं चेति निश्चीयते।

(निमित्तोपादानयोर्भेदस्य श्रौतत्वनिरासः)

यत्तु निमित्तोपादनयोर्भेदश्श्रुत्यैव प्रतीयत इति; तदसत्, निमित्तोपादानयोरैक्यप्रतीते: । उत तमादेशमप्राक्ष्य: येनाश्रुतं श्रुतं भवति (छा...) आदिश्यते प्रशिष्यतेऽनेनेत्यादेश:, एतस्य वा अक्षरस्य प्रशासने गार्गि (बृ...) इत्यादिश्रुते: । साधकतमत्वेन कर्ता विवक्षित:। तमादेष्टारमप्राक्ष्य:, येनाश्रुतं श्रुतं भवति, येनादेष्ट्राऽधिष्ठात्रा श्रुतेनाश्रुतमपि श्रुतं भवतीति निमित्तोपादनयोरैक्यं प्रतीयते, सदेव सोम्येदमग्र आसीदेकमेव (छा...) इति प्राक्सृष्टे: एकत्वावधारणादद्वितीयपदेनाधिष्ठात्रन्तरनिवारणाच्च।

(उक्तेऽर्थे मन्त्रिकोपनिषद्विरोधशङ्का-परिहारौ)

नन्वेवं सति विकारजननीम् (मान्त्रिक.) गौरनाद्यन्तवती (मान्त्रिक.) इत्यादिभि: प्रकृतेराद्यन्तविरहेण नित्यत्वं जगदुपादानत्वं च श्रूयमाणं कथमुपपद्यते? तदुच्यते तत्राप्यविभक्तनामरूपं कारणावस्थं ब्रह्मैव प्रकृतिशब्देनाभिधीयते। ब्रह्मव्यतिरिक्त-वस्त्वन्तराभावात्। तथाहि श्रुतय: सर्वं तं परादाद्योऽन्यत्राऽत्मनस्सर्वं वेद (बृ. ..), यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् (बृ...१५) इत्याद्या:; सर्वं खल्विदं ब्रह्म (छा.१४), ऐतदात्म्यमदं सर्वम् (छा...) इति कार्यावस्थं कारणावस्थं च सर्वं जगद्ब्रह्मात्मकमिति श्रवणाच्च।

(उक्तार्थस्यैव सर्वश्रुतिसिद्धत्वदृढीकरणम्)

एतदुक्तं भवति : पृथिवीमन्तरे सञ्चरन्यस्य पृथिवी शरीरं यं पृथिवी न वेद (सुबा.) इत्यारभ्य योऽव्यक्तमन्तरे सञ्चरन्यस्याव्यक्तं शरीरं यमव्यक्तं न वेद (सुबा.), योऽक्षरमन्तरे सञ्चरन्यस्याक्षरं शरीरं यमक्षरं न वेद य: पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं य: पृथिवीमन्तरो यमयति (बृ...) इत्यारभ्य य आत्मनि तिष्ठान्नात्मनोऽन्तरो यमात्मा न वेद यस्याऽत्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृत: (बृ...२२) इति च सर्वचिदचिद्वस्तुशरीरतया सर्वदा सर्वात्मभूतं परं ब्रह्म कदाचिद्विभक्तनामरूपम्, कदाचिच्चाविभक्तनामरूपम्; यदा विभक्तनामरूपं तदा तदेव बहुत्वेन कार्यत्वेन चोच्यते; यदा चाविभक्तनामरूपं तदैकमद्वितीयं कारणमिति च ।

(मन्त्रिकोपनिषद्वाक्यतात्पर्यम्)

एवं सर्वदा  चिदचिद्वस्तुशरीरस्य परस्य ब्रह्मणोऽविभक्तनामरूपा या कारणावस्था सा गौरनाद्यन्तवती, विकारजननीमज्ञाम् (मन्त्रि.) अजामेकाम् (श्वे..) इत्यादिभिरभिधीयते इति।

(उक्ततात्पर्यस्य सुबालश्रुत्यादिविरोधपरिहारः)

ननु च महानव्यक्ते लीयते अव्यक्तमक्षरे लीयते (सुबा.) इति प्रलयश्रुतेरव्यक्तस्योत्पत्तिप्रलयौ प्रतीयेते; तथा च महाभारते तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम (.भा.शा.मोक्ष..१३) अव्यक्तं पुरुषे ब्रह्मन्निष्क्रिये सम्प्रलीयते इति। (.भा.शा.मोक्ष..१४) नैष दोष:,  अचिद्वस्तुशरीरस्य ब्रह्मणोऽव्यक्तशब्दवाच्यायास्त्रिगुणावस्थाया: कार्यत्वात्। यदा तमस्तन्न दिवा न रात्रि: इति कृत्स्नप्रलयदशायामपि ब्रह्मात्मकस्यातिसूक्ष्मस्य अचिद्वस्तुन: स्थित्यभिधानाज्जगत्कारणस्य परस्य ब्रह्मण: प्रकारभूतमतिसूक्ष्मं चाचिद्वस्तु नित्यमेवेति तत्प्रकारं ब्रह्मैव गौरनाद्यन्तवती (मान्त्रिक.) इत्यादिष्वभिधीयते।

(मन्त्रिकोपनिषद्वाक्यतात्पर्यम्)

अत एव च अक्षरं तमसि लीयते तम: परे देव एकीभवति (सुबा.) इति तमस एकीभावमात्रमेव श्रूयते; न तु लय:। एकीभाव इति तमोभिधानातिसूक्ष्माचित्प्रकारस्य ब्रह्मणोऽविभक्तनामरूपतयाऽवस्थानमभिधीयते। तम आसीत्तमसा गूढमग्रे प्रकेतं तमसस्तन्महिमा जायतैकम् (तै.ब्रा...) इत्याद्यप्येतदेव वदति। तथा च मानवं वच: आसीदिदं तमोभूतमप्रज्ञातमलक्षणम्। अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वत: (मनु..) इति। अस्मान्मायी सृजते विश्वमेतत् (श्वे..) इत्याद्यनन्तरमेवोपपादयिष्यते; ब्रह्मणोऽपरिणामित्वश्रुतयश्च।

(उक्तार्थस्य तर्काननुगृहीतत्वशङ्का-निरासौ)

यत्तु – एकस्य निमित्तत्वमुपादानत्वं च न सम्भवति, एककारकनिष्पाद्यत्वं च कार्यस्य; लोके तथा नियमदर्शनात्। अतोऽग्निना  सिञ्चेदितिवद्वेदान्तवाक्यान्येकस्मादेवोत्पत्तिं प्रतिपादयितुं न प्रभवन्तीति ॥

अत्रोच्यते सकलेतरविलक्षणस्य परस्य ब्रह्मणस्सर्वशक्तेस्सर्वज्ञस्यैकस्यैव सर्वमुपपद्यते। मृदादेरचेतनस्य ज्ञानाभावेनाधिष्ठातृत्वायोगादाधिष्ठातु: कुलालादेर्विचित्रपरिणाम-शक्तिविरहादसत्यसङ्कल्पतया च तथा दर्शननियम:। अतो ब्रह्मैव जगतो निमित्तमुपादानं च॥२३॥

१३३. अभिध्योपदेशाच्च ॥ १२४ ॥

(बहुभवनसङ्कल्पश्रुत्या निमित्तोपादानैक्यम्)

इतश्चोभयं ब्रह्मैव सोऽकामायत बहु स्यां प्रजायेयेति (तै...) तदैक्षत बहु स्यां प्रजायेय (छा...) इति स्रष्टुर्ब्रह्मणस्स्वस्यैव बहुभवनसङ्कल्पोपदेशात्। विचित्रचिदचिद्रूपेणाहमेव बहु स्यां तथा प्रजायेयेति सङ्कल्पपूर्विका हि सृष्टिरुपदिश्यते॥२४॥

१३४. साक्षाच्चोभयाम्नानात् ॥ १२५ ॥

(श्रुतिकण्ठोक्त्या निमित्तोपादानैक्यम्)

न केवलं प्रतिज्ञादृष्टान्ताभिध्योपदेशादिभिरयमर्थो निश्चीयते, ब्रह्मण एव निमित्तत्वमुपादानत्वं च साक्षादाम्नायते किं स्विद्वनं क उ स वृक्ष आसीद्यतो द्यावापृथिवी निष्टतक्षु:। मनीषिणो मनसा पृच्छतेदुतद्यदध्यतिष्ठद्भुवनानि धारयन्। ब्रह्म वनं ब्रह्म स वृक्ष आसीद्यतो द्यावापृथिवी निष्ठतक्षु:। मनीषिणो मनसा विब्रवीमि वो ब्रह्माध्यतिष्ठद्भुवनानि धारयन् (तै.ब्रा...) इति। अत्र हि स्रष्टुर्ब्रह्मण: किमुपादानं कानि चोपकरणानीति लोकदृष्ट्या पृष्टे सकलेतरविलक्षणस्य ब्रह्मणस्सर्वशक्तियोगो न विरुद्ध इति ब्रह्मैवोपादानमुपकरणानि चेति परिहृतम्। अतश्चोभयं ब्रह्म॥२५॥

१३५. आत्मकृते: ॥ १२६ ॥

(स्वस्यैव स्वयं सृष्टिकारणश्रुत्या तदैक्यम्)

सोऽकामयत बहु स्यां प्रजायेय (तै....) इति सिसृक्षुत्वेन प्रकृतस्य ब्रह्मण: तदात्मानं स्वयमकुरुत (तै....) इति सृष्टे: कर्मत्वं कर्तृत्वं च प्रतीयत इत्यात्मन एव बहुत्वकरणात्तस्यैव निमित्तत्वमुपादानत्वं च प्रतीयते।  अविभक्तनामरूप आत्मा कर्ता, स एव विभक्तनामरूप: कार्यमिति कर्तृत्वकर्मत्वयोर्न विरोध:। स्वयमेवाऽत्मानं तथाऽकुरुतेति निमित्तमुपादानं च॥२६॥

(उत्तरसूत्रावतारिका शङ्का)

(निमित्तोपादानैक्यस्य ब्रह्मणि अपुरुषार्थावहत्वशङ्का)

सत्यं ज्ञानमनन्तं ब्रह्म (तै....) आनन्दो ब्रह्म (तै..भृ..) अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपास: (छा...) निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् (श्वे..१९) स वा एष महानज आत्माऽजरोऽमर: (बृ...२५) इति स्वभावतो निरस्तसमस्तचेतनाचेतनवर्तिदोषगन्धस्य निरतिशयज्ञानानन्दैकतानस्य परस्य ब्रह्मणो विचित्रानन्तापुरुषार्थास्पदचिदचिन्मिश्रप्रपञ्चरूपेणाऽत्मनो बहुभवनसङ्कल्पपूर्वकं बहुत्वकरणं कथमुपपद्यत इत्याशङ्क्याह

१३६. परिणामात् ॥ १२७ ॥

(अपुरुषार्थतानावहपरिणामस्वभावोक्त्या शङ्कानिरासः)

परिणामस्वाभाव्यात्; नात्रोपदिश्यमानस्य परिणामस्य परस्मिन्ब्रह्मणि दोषावहत्वं स्वभाव: प्रत्युतनिरङ्कुशैश्वर्यावहत्वमेवेत्यभिप्राय:। एवमेव हि परिणाम उपदिश्यते; अशेषहेयप्रत्यनीक-कल्याणैकतानं स्वेतरसमस्तवस्तुविलक्षणं सर्वज्ञं सत्यसङ्कल्पमवाप्तसमस्तकामं अनवधिकातिश-यानन्दं स्वलीलोपकरणभूतसमस्तचिदचिद्वस्तुजातशरीरतया तदात्मभूतं परं ब्रह्म स्वशरीरभूते प्रपञ्चे तन्मात्राहङ्कारादिकारणपरम्परया तमश्शब्दवाच्यातिसूक्ष्माचिद्वस्त्वेकशेषे सति, तमसि च स्वशरीरतयापि पृथङ्निर्देशानर्हातिसूक्ष्मदशापत्त्या स्वस्मिन्नेकतामापन्ने सति, तथाभूततमश्शरीरं ब्रह्म पूर्ववद्विभक्तनामरूपचिदचिन्मिश्रप्रपञ्चशरीरं स्यामिति सङ्कल्प्याप्ययक्रमेण जगच्छरीरतया आत्मानं परिणमयतीति सर्वेषु वेदान्तेषु परिणामोपदेश:

(बृहदारण्यकसौबालादिवाक्यार्थविशदीकरणेन उक्तार्थदृढीकारः)

तथैव बृहदारण्यके कृत्स्नस्य जगतो ब्रह्मशरीरत्वं ब्रह्मणस्तदात्मत्वं चाम्नायते य: पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं य: पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृत: इत्यारभ्य यस्यापश्शशरीरम्  यस्याग्निश्शरीरं यस्यान्तरिक्षं शरीरम् यस्य वायुश्शरीरम् यस्य द्यौश्शरीरम् यस्यादित्यश्शरीरम् यस्य दिशश्शरीरम् यस्य चन्द्रतारकं शरीरम्  यस्याकाशश्शरीरम् यस्य तमश्शरीरं यस्य तेजश्शरीरम् यस्य सर्वाणि भूतानि शरीरम् यस्य प्राणश्शरीरम् यस्य वाक्छरीरम् यस्य चक्षुश्शरीरम् यस्य श्रोत्रं शरीरम् यस्य मनश्शरीरम् यस्य त्वक्छरीरम् यस्य विज्ञानं शरीरम् यस्य रेतश्शरीरं  (बृ...) इत्येवमन्तेन काण्वपाठे; माध्यन्दिने तु पाठे विज्ञानस्थाने यस्याऽत्मा शरीरम् इति विशेष:। लोकयज्ञवेदानां परमात्मशरीरत्वमधिकम्। सुबालोपनिषदि च पृथिव्यादीनां तत्त्वानां परमात्मशरीरत्वमभिधाय वाजसनेयकेऽनुक्तानामपि तत्वानां शरीरत्वं ब्रह्मण आत्मत्वं च श्रूयते यस्य बुद्धिश्शरीरम् यस्याहङ्कारश्शरीरं, यस्य चित्तं शरीरं, यस्याव्यक्तं शरीरम्, यस्याक्षरं शरीरम्, यो मृत्युमन्तरे सञ्चरन्यस्य मृत्युश्शरीरं यं मृत्युर्न वेद एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायण: (सुबा.) इति। अत्र मृत्युशब्देन परमसूक्ष्ममचिद्वस्तुतमश्शब्दवाच्यमभिधीयते, अव्यक्तमक्षरे लीयते अक्षरं तमसि लीयते (सुबा.) इति तस्यामेवोपनिषदि क्रमप्रत्यभिज्ञानात्। सर्वेषामात्मनां ज्ञानावरणानर्थमूलत्वेन तदेव हि तमो मृत्युशब्दव्यपदेश्यम्। सुबालोपनिषद्येव ब्रह्मशरीरतया तदात्मकानां तत्त्वानां ब्रह्मण्येव प्रलय आम्नायते पृथिव्यप्सु प्रलीयते आपस्तेजसि लीयन्ते तेजो वायौ लीयते वायुराकाशे लीयते आकाशमिन्द्रयेष्विन्द्रयाणि तन्मात्रेषु तन्मात्राणि भूतादौ लीयन्ते भूतादिर्महति लीयते महानव्यक्ते लीयते अव्यक्तमक्षरे लीयते अक्षरं तमसि लीयते तम: परे देव एकी भवति (सुबा.) इति।  अविभागापत्तिदशायामपि चिदचिद्वस्त्वतिसूक्ष्मं सकर्मसंस्कारं तिष्ठतीत्युत्तरत्र वक्ष्यते न कर्माविभागादितिचेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च (ब्र.सू...३५) इति।

(उक्तस्य ईदृशार्थस्यैव तैत्तिरीयश्रुतितात्पर्यविषयता)

एवं स्वस्माद्विभागव्यपदेशानर्हातया परमात्मनैकीभूतात्यन्तसूक्ष्मचिदचिद्वस्तु-शरीरादेकस्मादेव अद्वितीयात् निरतिशयानन्दात्सर्वज्ञात्सत्यसङ्कल्पाद्ब्रह्मणो नामरूपविभागार्ह-स्थूलचिदचिद्वस्तुशरीरतया बहुभवनसङ्कल्पपूर्वको जगदाकारेण परिणामश्श्रूयते। सत्यं ज्ञानमनन्तं ब्रह्म (तै....) तस्माद्वा एतस्माद्विज्ञानमयात्। अन्योन्तर आत्माऽऽनन्दमय:(तै....), एष ह्येवानन्दयाति (तै....), सोऽकामयत बहुस्यां प्रजायेयेति स तपोऽतप्यत स तपस्तप्त्वा इदं सर्वमसृजत यदिदं किञ्च तत्सृष्ट्वा तदेवानुप्राविशत् तदनु प्रविश्य सच्च त्यच्चाभवत् निरुक्तं चानिरुक्तं च निलयनं चानिलयनं च विज्ञानं चाविज्ञानं च सत्यं चानृतं च सत्यमभवत् (तै...3) इति ।

(परब्रह्मणस्तपसः आलोचनरूपतावर्णनम्)

अत्र तपश्शब्देन प्राचीनजगदाकारपर्यालोचनरूपं ज्ञानमभिधीयते यस्य ज्ञानमयं तप: (मु...) इत्यादिश्रुते:। प्राक्सृष्टं जगत्संस्थानमालोच्येदानीमपि तत्संस्थानं जगदसृजदित्यर्थ:; तथैव हि ब्रह्म सर्वेषु कल्पेष्वेकरूपमेव जगत्सृजति सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्। दिवं च पृथिवीं चान्तिरक्षमथो सुव: (तै..ना..२४) यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये। दृश्यन्ते तानितान्येव तथा भावा युगादिषु (वि.पु...६५) इति श्रुतिस्मृतिभ्य:

(परब्रह्मणो जगद्रूपताप्राप्तिविशदीकरणम्)

तदयमर्थ: – स्वयमपरिच्छन्नज्ञानानन्दस्वभाव: अत्यन्तसूक्ष्मतयाऽसत्कल्पस्वलीलोपकरण-चिदचिद्वस्तुशरीरतया तन्मय: परमात्मा विचित्रानन्तक्रीडनकोपादित्सया स्वशरीरभूतप्रकृति-पुरुषसमष्टिपरम्परया महाभूतपर्यन्तमात्मानं तत्तच्छरीरकं परिणमय्य तन्मय: पुनस्सत्त्यच्छदवाच्य-विचित्रचिदचिन्मिश्रदेवादिस्थावरान्तजगद्रूपोऽभवत् इति तदेवानुप्राविशत्तदनुप्रविश्य (तै...) इति। कारणावस्थायामात्मतयाऽवस्थित: परमात्मैव कार्यरूपेण विक्रियमाणद्रव्यस्याप्यात्मतयाऽवस्थाय तत्तदभवदित्युच्यते।

(विशिष्टपरिणामे अपुरुषार्थ-तदभावयोराश्रयनिष्कर्षः)

एवं परमात्मचिदचित्सङ्घातरूपजगदाकारपरिणामे परमात्मशरीरभूतचिदंशगतास्सर्व एवापुरुषार्था:; तथाभूताचिदंशगताश्च सर्वे विकारा:; परमात्मनि कार्यत्वम्; तदवस्थयोस्तयो: नियन्तृत्वेनात्मत्वम्; परमात्मा तु तयोस्स्वशरीरभूतयो: नियन्तृतयात्मभूतस्तद् गतापुरुषार्थैर्विकारैश्च न स्पृश्यते; अपरिच्छिन्नज्ञानानन्दमयस्सर्वदैकरूप एव जगत्परिवर्तनलीलयाऽवतिष्ठते। तदेतदाह सत्यं चानृतं च सत्यमभवत् (तै...) इति। विचित्रचिदचिद्रूपेण विक्रियमाणमपि ब्रह्मसत्यमेवाभवत् निरस्तनिखिलदोषगन्धमपरिच्छिन्नज्ञानानन्दमेकरूपमेवाभवदित्यर्थ:

(सृष्टेः भगवल्लीलात्वम्)

सर्वाणि चिदचद्वस्तूनि सूक्ष्मदशापन्नानि स्थूलदशापन्नानि च परस्य ब्रह्मणो लीलोपकरणानि; सृष्ट्यादयश्च लीलेति भगवद्द्वैपायनपराशरादिभिरुक्तम्, अव्यक्तादिविशेषान्तं परिणामर्द्धिसंयुतम्। क्रीडा हरेरिदं सर्वं क्षरमित्युपधार्यताम् । क्रीडतो बालकस्येव चेष्टां तस्य निशामय (वि.पु...१८), बाल: क्रीडनकैरिव (वायु.पु.उत्तर.खं.३६.९६) इत्यादिभि:। वक्ष्यति च लोकवत्तु लीलाकैवल्यम् (ब्र.सू...३३) इति। अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्ध:   (श्वे..) इति ब्रह्मणि जगद्रूपतया विक्रियमाणेऽपि तत्प्रकारभूताचिदंशगतास्सर्वे विकारास्तत्प्रकारभूतक्षेत्रज्ञगताश्चापुरुषार्था इति विवेक्तुं प्रकृतिपुरुषयोर्ब्रह्मशरीरभूतयोस्तदानीं तथा निर्देशानर्हातिसूक्ष्मदशापत्त्या ब्रह्मणैकीभूतयोरपि भेदेन व्यपदेश: तदात्मानं स्वयमकुरुत (तै..) इत्यादिभरैकार्थ्यात्। तथा च मानवं वच:सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधा: प्रजा:। अप एव ससर्जादौ तासु वीर्यमपासृजत् (मनु..) अत एव ब्रह्मणो निर्दोषत्वनिर्विकारत्वश्रुतयश्चोपपन्ना:। अतो ब्रह्मैव जगतो निमित्तमुपादानञ्च॥२७॥

१३७. योनिश्च हि गीयते ॥ १२८ ॥

(उपादानवाचकयोनिव्यपदेशादुपादानत्वोपसंहारः)

इतश्च जगतो निमित्तमुपादानञ्च ब्रह्म, यस्माद्योनित्वेनाप्यभिधीयते कर्तारमीशं पुरुषं ब्रह्म योनिम् (मु...) इति। यद्भूतयोनिं परिपश्यन्ति धीरा: (मु...) इति च योनिशब्दश्चोपादानवचन इति यथोर्णनाभिस्सृजते गृह्णते च (मु...) इति वाक्यशेषात् अवगम्यते॥२८॥

इति श्रीशारीरकमीमांसाभाष्ये प्रकृत्यधिकरणम्॥७॥

 

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.