श्रीभाष्यम् 01-02-16 अदृश्यत्वादिगुणकाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये अदृश्यत्वादिगुणकाधिकरणम्॥ (अधिकरणार्थः – अदृश्यत्वादिगुणकं ब्रह्मैव, न प्रधानपुरुषौ) (अक्षरविद्या (मुण्ड.उ.1-1,2-3)) ५४. अदृश्यत्वादिगुणको धर्मोक्ते: ॥ १-२-२२ ॥ (विषयवाक्यप्रदर्शनम्) आथर्वणिका अधीयते अथ परा यया तदक्षरमधिगम्यते, यत्तदद्रेश्यमग्राह्यमगोत्रं अचक्षुश्श्रोत्रं तदपाणिपादम्। नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीरा: (मु.१.१.५,६) इति; तथोत्तरत्र अक्षरात्परत: पर: (मु.२.१.२) इति। (संशयाकारः) तत्र सन्दिह्यते – किमिहादृश्यत्वादिगुणकं अक्षरात्परत: परश्च प्रकृतिपुरुषौ, अथोभयत्र परमात्मैव – इति। (सयुक्तिकः पूर्वपक्षः) […]
श्रीभाष्यम् 01-02-15 अन्तर्याम्यिधकरणम्
श्रीशारीरकमीमांसाभाष्ये अन्तर्याम्यधिकरणम्॥४॥ (अधिकरणार्थः – ब्रह्मणः सर्वान्तर्यामित्वम्, न जीवस्य) (अन्तर्यामिविद्या (वृ.उ.5-7)) (पूर्वानुवादपुरस्सरं तदुक्तार्थसमर्थनात् सङ्गतिः) स्थानादिव्यपदेशाच्च (ब्र.सू.१.२.१४) इत्यत्र यश्चक्षुषि तिष्ठन् (बृ.५.७.१८) इत्यादिना प्रतिपाद्यमानं चक्षुषि स्थितिनियमनादिकं परमात्मन एवेति सिद्धं कृत्वाऽक्षिपुरुषस्य परमात्मत्वं साधितम्? इदानीं तदेव समर्थयते- ५१. अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् ॥ १-२-१९॥ (विषयवाक्यप्रदर्शनम्) काण्वा माध्यन्दिनाश्च वाजसनेयिनस्समामनन्ति – य: पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं य: […]
श्रीभाष्यम् 01-02-14 अन्तरधिकरणम्
श्रीशारीरकमीमांसाभाष्ये अन्तरधिकरणम् ॥३॥ (अधिकरणार्थः – अक्ष्याधारपुरुषत्वं परमात्मन एव, न जीवादेः) (उपकोसलविद्या छा.उ.4-10) ४५. अन्तर उपपत्ते: ॥ १-२-१३ ॥ (विषयवाक्यप्रदर्शनम्) इदमामनन्ति च्छन्दोगा: य एषोऽक्षिणि पुरुषो दृश्यते। एष आत्मेति होवाच एतदमृतमभयमेतद्ब्रह्म (छा.४.१५.१) इति ॥ (संशयस्वरूपम्) तत्र सन्देह: – किमयमक्ष्याधारतया निर्दिश्यमान: पुरुष: प्रतिबिम्बात्मा, उत चक्षुरिन्द्रियाधिष्ठाता निर्दिश्यमान: पुरुष: प्रतिबिम्बात्मा, उत चक्षुरिन्द्रियाधिष्ठाता देवताविशेष:, उत जीवात्मा, अथ परमात्मा इति ॥ (सयुक्तिकः […]
श्रीभाष्यम् 01-02-13 अत्त्रधिकरणम्
श्रीशारीरकमीमांसाभाष्ये अत्त्रधिकरणम् ॥२॥ (अधिकरणार्थः – सर्वजगत्संहाररूपम् अत्तृत्वम् परमात्मन एव, न जीवस्य) (नाचिकेतविद्या कठ.उ.2) (पूर्वाधिकरणान्तिमसूत्रेण अवान्तरसङ्गतिः) यदि परमात्मा न भोक्ता, एवं तर्हि सर्वत्र भोक्तृतया प्रतीयमानो जीव एव स्यादित्याशङ्क्याह- ४१. अत्ता चराचरग्रहणात् ॥ १-२-९ ॥ (विषयवाक्यदर्शनम्) कठवल्लीष्वाम्नायते यस्य ब्रह्म च क्षत्रं च उभे भवत ओदन:। मृत्युर्यस्योपसेचनं क इत्था वेद यत्र स: (कठ.१.२.२५) इति। (अधिकरणाङ्गभूतः संशयः) अत्रौदनोपसेचनसूचितोऽत्ता किं […]
श्रीभाष्यम् 01-02-12 सर्वत्रप्रसिद्ध्यधिकरणम्
अथ श्रीशारीरकमीमांसाभाष्ये प्रथमे समन्वयाध्याये (अन्ययोगव्यवच्छेदत्रिपादी) द्वितीयः पादः सर्वत्रप्रसिद्ध्यधिकरणम् ॥१॥ (अस्पष्टजीवादिलिङ्गकवेदान्तवाक्यविचाररूपः) (पादार्थः – परमात्मनः सर्वशरीरकत्वम्) (पूर्वपादीयः जिज्ञासाधिकरणार्थः) प्रथमे पादे अधीतवेद: पुरुष: कर्ममीमांसाश्रवणाधिगतकर्मयाथात्म्यज्ञान: केवलकर्मणां अल्पास्थिरफलत्वमवगम्य, वेदान्तवाक्येषु चापातप्रतीतानन्तस्थिरफलब्रह्मस्वरूप तदुपासनसमुप-जातपरमपुरुषार्थलक्षणमोक्षापेक्षोऽवधारितपरिनिष्पन्नवस्तुबोधनशब्दशक्ति: वेदान्तवाक्यानां परस्मिन् ब्रह्मणि निश्चितप्रमाणभावस्तदितिकर्तव्यतारूपशारीरकमीमांसा-श्रवणमारभेतेत्युक्तं शास्त्रारम्भसिद्धये ॥१॥ (जन्माद्यधिकरणार्थः) अनन्तविचित्रस्थिरत्रसरूपभोक्तृभोग्यभोगोपकरणभोगस्थानलक्षणनिखिलजगदुदयविभवलय-महानन्दैककारणं परं ब्रह्म यतो वा इमानि इत्यादिवाक्यं बोधयतीति च प्रत्यपादि॥२॥ (शास्त्रयोनित्वाधिकरणार्थः) जगदेककारणं परं ब्रह्म सकलेतरप्रमाणाविषयतया शास्त्रैकप्रमाणकमित्यभ्यधाम॥३॥ (समन्वयाधिकरणार्थः) शास्त्रप्रमाणकत्वं च ब्रह्म प्रवृत्तिनिवृत्त्यन्वयविरहेऽपि […]
श्रीभाष्यम् 01-01-11 इन्द्रप्राणाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये इन्द्रप्राणाधिकरणम्॥११॥ (अधिकरणार्थः – इन्द्रत्वेनोपास्यः, न तु शचीपतिरिन्द्रः (प्रतर्दनविद्या (कौषी.उ.3)) (अवान्तरसङ्गतिः) निरतिशयदीप्तियुक्तं ज्योतिश्शब्दाभिधेयं प्रसिद्धवन्निर्दिष्टं परमपुरुष एवेत्युक्तम्। इदानीं कारणत्वव्याप्तामृतत्वप्राप्त्युपायतयोपास्यत्वेन श्रुत इन्द्रप्राणादिशब्दाभिधेयोऽपि परमपुरुष एवेत्याह २९. प्राणस्तथाऽनुगमात् ॥ १-१-२९ ॥ (विषयवाक्यप्रतिपादनम् कौषीतकीब्राह्मणे प्रतर्दनविद्यायां प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन च पौरुषेण च (कौ.३-१) इत्यारभ्य वरं वृणीष्व (कौ.३.१) इति वक्तारमिन्द्रं प्रति त्वमेव मे वरं वृणीष्व यं त्व मनुष्याय […]
श्रीभाष्यम् 01-01-10 ज्योतिरधिकरणम्
॥ श्रीशारीरकमीमांसाभाष्ये ज्योतिरधिकरणम् ॥ (अधिकरणार्थः – ज्योतिष्ट्वेनोपास्यं, जिज्ञास्यं ब्रह्मैव, न आदित्यादिकम्) (कौक्षेयज्योतिर्विद्या गायत्रीविद्या च छा.उ. 3-12,13) (वक्ष्यमाणाधिकरणद्वयस्य पेटिकान्तरत्वम्) अत: परं जगत्कारणत्वव्याप्तेन येनकेनापि निरतिशयोत्कृष्टगुणेन जुष्टं ज्योतिरिन्द्रादिशब्दैरर्थान्तरप्रसिद्धैरप्यभिधीयमानं परं ब्रह्मैवेत्यभिधीयते – ज्योतिश्चरणाभिधानात् इत्यादिना २५. ज्योतिश्चरणाभिधानात् ॥ १-१-२५ ॥ (विषयवाक्यप्रदर्शनम्) इदमाम्नायते छान्दोग्ये – अथ यदत: परो दिवो ज्योतिर्दीप्यते विश्वत: पृष्ठेषु सर्वत: पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्त: पुरुषे ज्योति: (छा.३.१३.७) इति […]
श्रीभाष्यम् 01-01-09 प्राणाधिकरणम्
॥ शारीरकमीमांसाभाष्ये प्राणाधिकरणम् ॥ (अधिकरणार्थः – प्राणत्वेनोपास्यः परमात्मैव, न भूतचतुर्थो वायुः) (प्राणविद्या छा.उ.1-10,11) २४. अत एव प्राण: ॥ १-१-२४॥ (विषयवाक्यप्रदर्शनम्) इदमाम्नायते छान्दोग्ये – प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता (छा.उ.1.10.9) इति प्रस्तुत्य, कतमा सा देवतेति प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ता तां चेदविद्वान् प्रास्तोष्यो मूर्धा ते व्यपतिष्यत् (छां.१.११.४,५) इति॥ (सिद्धान्तार्थः) अत्र […]
श्रीभाष्यम् 01-01-08 आकाशाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये आकाशाधिकरणम्॥८॥ (अधिकरणार्थः – आकाशत्वेनोपास्यः परमात्मैव, न भौतिकाकाशः) (आकाशविद्या – छा.उ. 1-9)) (पेटिकाभेदस्य तत्सङ्गतेश्च प्रतिपादनम्) यतो वा इमानि भूतानि जान्यन्ते (तै.भृ.१.२) इति जगत्कारणं ब्रह्मेत्यवगम्यते। किं तज्जगत्कारणमित्यपेक्षायां सदेव सोम्येदमग्र आसीत् (छा.६.२.१) तत्तेजोऽसृजत (छा.६.२.३) आत्मा वा इदमेक एवाग्र आसीत् (ऐत.१.१.१) स इमाल्लोकानसृजत (ऐतरेय.१.१.२) तस्माद्वा एतस्मादात्मन आकाशस्सम्भूत: (तै.आन.१) इति साधारणैश्शब्दैर्जगत्कारणे निर्दिष्टे ईक्षणविशेष-आनन्दविशेषरूपविशेषार्थस्वभावात्प्रधानक्षेत्रज्ञादिव्यतिरिक्तं ब्रह्मेत्युक्तम्। इदानीं आकाशादि-विशेषशब्दैः निर्दिश्य जगत्कारणत्वजगदैश्वर्यादिवादेऽप्याकाशादिशब्दाभिधेयतया प्रसिद्धचिदचित् […]
श्रीभाष्यम् 01-01-07 अन्तरधिकरणम्
(आनन्दमयाधिकरणशेषभूतम्) श्रीशारीरमीमांसाभाष्ये अन्तरधिकरणम्॥७॥ (अधिकरणार्थः – अक्ष्यादित्यान्तर्वर्तित्वेनोपास्यत्वमपि न जीवविशेषस्य, किन्तु परमात्मन एव) (अन्तरादित्यविद्या, अन्तरक्षिविद्या च छा.उ.1-6-7) (निर्विशेषवस्तुनः) (अवान्तरसङ्गतिप्रदर्शनम्) यद्यपि मन्दपुण्यानां जीवानां, कामाज्जगत्सृष्टिः, अतिशयितानन्दयोगो भयाभयहेतुत्वमित्यादि न सम्भवति, तथापि, विलक्षणपुण्यानां आदित्येन्द्र प्रजापतिप्रक्षृतीनां सम्भवत्येवेति इमां आशङ्कां निराकरोति – २१. अन्तस्तद्धर्मोपदेशात् ॥ १-१-२१ ॥ (विषयवाक्यप्रदर्शनम्) इदमाम्नायते छान्दोग्ये य एषोऽन्तरादित्ये हिरण्मय: पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्व एव सुवर्ण:। तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी […]