श्रीभाष्यम् 01-01-06 आनन्दमयाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये आनन्दमयाधिकरणम् ॥६॥ (अधिकरणार्थः – आनन्दमयः परं ब्रह्मैव, न जीवः) (आनन्दमयविद्याविचारः तै.उ.आ.५) (पूर्वोत्तराधिकरणयोः सङ्गतिप्रदर्शनम्) एवं जिज्ञासितस्य ब्रह्मणश्चेतनभोग्यभूतजडरूपसत्त्वरजस्तमोमयप्रधानाद्व्यावृत्तिरुक्ता इदानीं कर्मवश्यात् त्रिगुणात्मकप्रकृतिसंसर्गनिमित्तनानाविधानन्तदु:खसागरनिमज्जनेन अशुद्धात् शुद्धाच्च प्रत्यगात्मनोऽन्यत् निखिलहेयप्रत्यनीकनिरतिशयानन्दं ब्रह्मेति प्रतिपाद्यते। १३. आनन्दमयोऽभ्यासात् ॥ १-१-१३ ॥ (विषयोपक्षेपः) तैत्तिरीया अधीयते – स वा एष पुरुषोऽन्नरसमय: (तै.आन.८.१) तस्माद्वा एतस्मात् विज्ञानमयात्। अन्योऽन्तर आत्माऽनन्दमय: (तै.आन.५.२) इति ॥ (संशयस्वरूपम्) तत्र सन्देह: – किमयमानन्दमयो बन्धमोक्षभागिन: प्रत्यगात्मनो […]

श्रीभाष्यम् 01-01-05 ईक्षत्यधिकरणम्

शारीकमीमांसाभाष्ये ईक्षत्यधिकरणम्॥५॥ (अधिकरणार्थः – सृष्ट्यनुगुणेक्षणकर्त अचेतनभूतप्रधानेतरत् परं ब्रह्म) (सद्विद्याविचारः – छा.उ.6) ५. ईक्षतेर्नाशब्दम् ॥ १-१-५ ॥ (सङ्गतिप्रतिपादनम्) यतो वा इमानि (तै.भृगु.१.१) इत्यादिजगत्कारणवादिवाक्यप्रतिपाद्यं सर्वज्ञं सर्वशक्ति समस्तहेयप्रत्यनीककल्याणगुणैकतानं ब्रह्म जिज्ञास्यमित्युक्तम्। इदानीं जगत्कारणवादिवाक्यानां आनुमानिकप्रधानादिप्रतिपादनानर्हातोच्यते – ईक्षतेर्नाशब्दम् – इत्यादिना। (विषयप्रतिपादनम्) इदमाम्नायते छान्दोग्ये – सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्। तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत (छा.६.२.१) इत्यादि  ॥ (संशयस्वरूपम्) तत्र सन्देह: – किं सच्छब्दवाच्यं […]

श्रीभाष्यम् 01-01-04 समन्वयाधिकरणम्

(साफल्यरूपतात्पर्यलिङ्गसमर्थनपरम्) श्रीशारीरिकमीमांसाभाष्ये समन्वयाधिकरणम्॥४॥ (अधिकरणार्थः – ब्रह्मणः स्वतः पुरुषार्थतया अन्वयः) (अवान्तरसङ्गतिः) यद्यपि प्रमाणान्तरागोचरं ब्रह्म तथापि प्रवृत्तिनिवृत्तिपरत्वाभावेन  सिद्धरूपं ब्रह्म न शास्त्रं प्रतिपादयतीत्याशङ्क्याह- ४. तत्तु समन्वयात् ॥ १-१-४ ॥ (सूत्रव्याख्यानम्) प्रसक्ताशङ्कानिवृत्त्यर्थस्तु शब्द:। तत् शास्त्रप्रमाणकत्वं ब्रह्मणस्सम्भवत्येव। कुत:? समन्वयात् – परमपुरुषार्थतयाऽन्वयस्समन्वय:, परमपुरुषार्थभूतस्यैव ब्रह्मणोऽभिधेयतयाऽन्वयात्॥ (समन्वयोपपादनम्) एवमिव समन्वितो ह्यौपिनषद: पदसमुदाय: – यतो वा इमानि भूतानि जायन्ते (तै.भृ.१), सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्। तदैक्षत बहु […]

श्रीभाष्यम् 01-01-03 शास्त्रयोनित्वाधिकरणम्

(अपूर्वतारूपतात्पर्यलिङ्गसमर्थनपरम्) श्रीशारीरकमीमांसाभाष्ये शास्त्रयोनित्वाधिकरणम् (अधिकरणार्थः – ब्रह्मणः शास्त्रैकगम्यत्वम्) जगज्जन्मादिकारणं ब्रह्म वेदान्तवेद्यमित्युक्तम्। तदयुक्तम्। तद्धि न वाक्यप्रतिपाद्यम्। अनुमानेन  सिद्धेरित्याशङ्क्याह – ३. शास्त्रयोनित्वात् ॥ १-१-३ ॥ (सूत्रविवरणम्) शास्त्रं यस्य योनि: कारणं प्रमाणम्, तच्छास्त्रयोनि; तस्य भावश्शास्त्रयोनित्वम्। तस्मात् ब्रह्मज्ञानकारणत्वात् शास्त्रस्य, तद्योनित्वं ब्रह्मण:। अत्यन्तातीन्द्रियत्वेन प्रत्यक्षादिप्रमाणाविषयतया ब्रह्मणश्शास्त्रैकप्रमाणकत्वात् उक्तस्वरूपं ब्रह्म यतो वा इमानि भूतानि (तै.भृ.१.) इत्यादिवाक्यं बोधयत्येवेत्यर्थ:॥ (वर्णिते सूत्रार्थे पूर्वपक्षिणः आक्षेपः) ननु – शास्त्रयोनित्वं […]

श्रीभाष्यम् 01-01-02 जन्माद्यधिकरणम्

(ब्रह्मणि प्रतिपत्तिदौस्स्थ्यनिरासपरम्) जन्माद्यधिकरणम् ॥२॥ (अधिकरणार्थः – ब्रह्मणः सर्वकर्तृत्वम्)                 किं पुनस्तद्ब्रह्म? यज्जिज्ञास्यमुच्यत इत्यत्राह – २. जन्माद्यस्य यत: ॥ १-१-२ ॥ (सूत्रार्थवर्णनम्) जन्मादीति – सृष्टिस्थितप्रलयम्। तद्गुणसंविज्ञानो बहुव्रीहि:। अस्य  अचिन्त्यविविध-विचित्ररचनस्य नियतदेशकालफलभोगब्रह्मादिस्तम्बपर्यन्तक्षेत्रज्ञमिश्रस्य जगत:, यत: – यस्मात् सर्वेश्वरात् निखिलहेयप्रत्यनीकस्वरूपात्सत्यसंकल्पात् ज्ञानानन्दाद्यनन्तकल्याणगुणात् सर्वज्ञात् सर्वशक्ते: परमकारुणिकात् परस्मात्पुंस: सृष्टिस्थितप्रलया: प्रवर्तन्ते; तत् ब्रह्मेति सूत्रार्थ:॥ पूर्वपक्ष: (अधिकरणस्याङ्गभूतविषयप्रदर्शनम्) भृगुर्वै वारुणि:। वरुणं पितरमुपससार। अधीहि भगवो ब्रह्म इत्यारभ्य […]

श्रीभाष्यम् 01-01-01 जिज्ञासाधिकरणम्

॥ श्रीमते रामानुजाय नम: ॥ श्रीभगवद्रामानुजविरचितं शारीरकमीमांसाभाष्यम् (प्रथमाध्याये-प्रथमपादे-जिज्ञासाधिकरणम्) (शास्त्रार्थसूचनगर्भितं मङ्गळाचरणम्, भाष्यप्रणयनप्रयोजनं च) भुवनजन्मस्थेमभङ्गादिलीले विनतविविधभूतव्रातरक्षैकदीक्षे। श्रुतिशिरसि विदीप्ते ब्रह्मणि श्रीनिवासे भवतु मम परस्मिन् शेमुषी भक्तिरूपा ॥१॥ पाराशर्यवचस्सुधामुपनिषद्दुग्धाब्धिमध्योद्धृतां संसाराग्निविदीपनव्यपगतप्राणात्मसञ्जीवनीम्। पूर्वाचार्यसुरक्षितां बहुमतिव्याघातदूरस्थिता- मानीतां तु निजाक्षरैस्सुमनसो भौमा: पिबन्त्वन्वहम् ॥२॥ (शारीरकशास्त्रव्याख्यानप्रतिज्ञा) भगवद्बोधायनकृतां विस्तीर्णां ब्रह्मसूत्रवृत्तिं पूर्वाचार्यास्सञ्चिक्षिपु:, तन्मतानुसारेण सूत्राक्षराणि व्याख्यास्यन्ते- (प्रथमं समन्वयाध्याये, आद्ये अयोगव्यवच्छेदपादे सिद्धे व्युत्पत्तिसमर्थनपरम्) जिज्ञासाधिकरणम् – (1-1-1) (ब्रह्मैव जिज्ञास्यम्) १. ओं […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.