श्रीभाष्यम् 02-01-03 विलक्षणत्वाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये विलक्षणत्वाधिकरणम् ॥३॥ (अधिकरणार्थः – ब्रह्मणो जगदपेक्षया वैलक्षण्यं जगत्कारणत्वाविरोधि) १४२. न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥ २–१–४ ॥ (सङ्गतेः प्रदर्शनम्) पुनरपि स्मृतिविरोधवादी तर्कमवलम्बमान: प्रत्यवतिष्ठते – (सूत्राक्षरविवरणम्) यत्साङ्ख्यस्मृतिनिराकरणेन जगतो ब्रह्मकार्यत्वमुक्तम्; तन्नोपपद्यते, अस्य प्रत्यक्षादिभिरचेतनत्वेनाशुद्धत्वेन अनीश्वरत्वेन दु:खात्मकत्वेन चोपलभ्यमानस्य  चिदचिदात्मकस्य जगत: भवदभ्युपेतात्सर्वज्ञात् सर्वेश्वराद्धेयप्रत्यनीकात् आनन्दैकतानाद्ब्रह्मणो विलक्षणत्वात् ॥ (शब्दतश्च ब्रह्मणि जगद्वैलक्षण्यप्रदर्शनम्) न केवलं प्रत्यक्षादिभिरेव जगतो वैलक्षण्यमुपलभ्यते; शब्दाच्च तथात्वं विलक्षणत्वम्, उपलभ्यते विज्ञानं […]

श्रीभाष्यम् 02-01-02 योगप्रत्युक्त्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये योगप्रत्युक्त्यधिकरणम्॥२॥ (अधिकरणार्थः – वेदान्तविरोधित्वात् योगतन्त्रस्य जगत्कारणत्वनिरूपणे सामर्थ्याभावनिरूपणम्) १४१. एतेन योग: प्रत्युक्त: ॥ २–१–३ ॥ (सूत्रार्थविवरणम्) एतेन – कापिलस्मृतिनिराकरणेन योगस्मृतिरपि प्रत्युक्ता। का पुनरत्राधिकाशङ्का यन्निराकरणाय न्यायातिदेश: – (योगस्मृतेः वेदान्तोपबृंहणत्वशङ्का) योगस्मृतावपीश्वराभ्युपगमान्मोक्षसाधनतया वेदान्तविहितयोगस्य चाभिधानाद्वक्तुः हिरण्यगर्भस्य सर्ववेदान्तप्रवर्तनाधिकृतत्वाच्च तत्स्मृत्या वेदान्तोपबृंहणं न्याय्यम् – इति॥ (योगस्मृतेः वेदान्तानुपबृंहणत्वनिरूपणम्) परिहारस्तु- अब्रह्मात्मकप्रधानकारणवादान्निमित्तकारणमात्रेश्वराभ्युपगमाद्ध्यानात्मकस्य योगस्य ध्येयैकनिरूपणीयस्य ध्येयभूतयोरात्मेश्वरयोर्ब्रह्मात्मकत्वजगदुपादानतादिसर्वकल्याण-गुणात्मकत्व-विरहेणावैदिकत्वाद्वक्तुर्हिरण्यगर्भस्यापि क्षेत्रज्ञभूतस्य कदाचिद्रजस्तमोऽभिभवसम्भवात् च योगस्मृतिरपि तत्प्रणीतरजस्तमोमूलपुराणवद्भ्रान्तिमूलेति न तया वेदान्तोपबृंहणं न्याय्यम् – […]

श्रीभाष्यम् 02-01-01 स्मृत्यधिकरणम्

श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्यम् (द्वितीयः अविरोधाध्यायः) (अधिकरणानि – 33 सूत्राणि – 149) (अध्यायार्थः  निखिलजगदेककारणं ब्रह्म वेदान्तवेद्यम् इति प्रथमाध्यायोक्तार्थ्यस्य सम्भावनीयसमस्तप्रकारदुर्धर्षणत्वप्रतिपादनम्) ॥ प्रथमः स्मृतिपादः ॥ (अधि – 10, सूत्राणि – 36) (पादार्थः  – ब्रह्मणः जगत्कारणत्ववादिनां वेदान्तानां, कापिलस्मृतिविरोधपरिहारः) स्मृत्यधिकरणम्॥१॥ (अधिकरणार्थः – ब्रह्मणः जगत्कारणत्ववादिनां वेदान्तानां. कापिलस्मृतिविरोधशङ्कानिरासः) १३९. स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॥ २–१–१ ॥ (सङ्गतिनिरूपणार्थं प्रथमाध्यायार्थसङ्ग्रहः) प्रथमेऽध्याये प्रत्यक्षादिप्रमाणगोचरादचेतनात्तत्संसृष्टात्तद्वियुक्ताच्च चेतनादर्थान्तरभूतं निरस्तनिखिलाविद्या-द्यपुरुषार्थगन्धमनन्तज्ञानानन्दैकतानमपरिमितोदारगुणसागरं निखिलजगदेककारणं सर्वान्तरात्मभूतं […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.