श्रीभाष्यम् 04-01-01 आवृत्त्यधिकरणम्
श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये चतुर्थः फलाध्यायः (अधिकरणानि – 33 सूत्राणि – 137) (अध्यायार्थः – विद्यास्वरूपविशोधनपूर्वकम् विद्याफलचिन्तनम्) प्रथमः आवृत्तिपादः ।। 4-1 ।। (पादार्थः – उपासनप्रकारचिन्ता, पूर्वोत्तराघाश्लेष-विनाशौ च) आवृत्त्यधिकरणम् ॥१॥ (अधिकरणार्थः – उपासनस्य असकृदावृत्तस्यैव मोक्षोपायता) ४७०. आवृत्तिरसकृदुपदेशात् ॥ ४–१–१ ॥ (अध्यायसङ्गतिः) तृतीयेऽध्याये साधनैस्सह विद्या चिन्तिता। अथेदानीं विद्यास्वरूपविशोधनपूर्वकं विद्याफलं चिन्त्यते। तत्र (प्रस्तुतो विषयः विचार्यांशश्च) ब्रह्मविदाप्नोति परम् (तै.आन.१.१) तमेव विदित्वाऽतिमृत्युमेति (श्वे.३.८) […]