श्रीभाष्यम् 04-02-01 वागधिकरणम्
श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये चतुर्थे फलाध्याये–द्वितीय: उत्क्रान्तिपाद: (अधिकरणानि – 11, सूत्राणि 20) (पादार्थः – ब्रह्मविदुषो गतिप्रकारचिन्तायां प्रथममुत्क्रान्तिचिन्ता) वागधिकरणम्॥१॥ (अधिकरणार्थः – ब्रह्मविदुषो गतिप्रकारचिन्तायां प्रथममुत्क्रान्तिचिन्ता) ४८९. वाङ्मनसि दर्शनाच्छब्दाच्च ॥ ४–२–१ ॥ (अधिकरणार्थः – प्रयतो जीवस्योक्ता वाचो मनसि सम्पत्तिः, वाक्स्वरूपसम्पत्तिरेव, न तु तद्वृत्तिमात्रस्य) इदानीं विदुषो गतिप्रकारं चिन्तयितुमारभते । प्रथमं तावदुत्क्रान्तिश्चिन्त्यते। तत्रेदमाम्नायते अस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि सम्पद्यते मन: प्राणे प्राणस्तेजसि तेज: […]