श्रीभाष्यम् 04-02-11 दक्षिणायनाधिकरणम्
श्रीशारीररकमीमांसाभाष्ये दक्षिणायनाधिकरणम्॥११॥ (अधिकरणार्थः – दक्षिणायने मृतस्याऽपि विदुषः ब्रह्मप्राप्तिरस्त्येव, न चन्द्रं प्राप्य पुनरावृत्तिः) ५०७. अतश्चायनेऽपि दिक्षणे ॥ ४–२–१९ ॥ (सूत्रार्थानुवादः, अधिकाशङ्का च) निशि मृतस्यापि विदुषो ब्रह्मप्राप्तौ यो हेतुरुक्त:, तत एव हेतोर्दक्षिणेऽप्ययने मृतस्य ब्रह्मप्राप्तिस्सिद्धा ॥ अधिकाशङ्का तु अथ यो दक्षिणे प्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमसस्सायुज्यं गच्छति (तै.ना.५२.) इति दक्षिणायने मृतस्य चन्द्रप्राप्तिश्रवणात् चन्द्रं प्राप्तानां च तेषां […]
श्रीभाष्यम् 04-02-10 निशाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये निशाधिकरणम्॥१०॥ (अधिकरणार्थः – विदुषः निशि मृतस्यापि ब्रह्मप्राप्तिः अवश्यम्भाविनी) ५०६. निशि नेति चेन्न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयति च ॥ ४–२–१८ ॥ (प्रकृतचिन्तोपयोगिसंशयप्रदर्शनम्) इदमिदानीं चिन्त्यते – विदुषो निशि मृतस्य ब्रह्मप्राप्तिरस्ति, नेति। (सिद्धान्तिच्छायया शङ्कापूर्वकं पूर्वपक्षस्वीकारः) यद्यपि निशायां सूर्यरश्मिसम्भवाद्रश्म्यनुसारेण गतिर्निशायामपि सम्भवति; तथापि निशामरणस्य शास्त्रेषु गर्हितत्वात्परमपुरुषार्थलक्षणब्रह्मप्राप्तिर्निशामृतस्य न सम्भवति । शास्त्रेषु दिवामरणं प्रशस्तम्, विपरीतं निशामरणं, दिवा च शुक्लपक्षश्च उत्तरायणमेव च। मुमूर्षतां प्रशस्तानि […]
श्रीभाष्यम् 04-02-09 रश्म्यनुसाराधिकरणम्
श्रीशारीरकमीमांसाभाष्ये रश्म्यनुसाराधिकरणम् ॥९॥ (अधिकरणार्थः – विदुषाणां जीवानां सूर्यरश्म्यनुसारेणैव ब्रह्मप्राप्तिः) ५०५. रश्म्यनुसारी ॥ ४–२–१७ ॥ (विचारणीयविषयोपस्थापनम्) विदुषो हृदयात् शताधिकया मूर्धन्यनाड्या निर्गतस्यादित्यरश्मीननुसृत्यादित्यमण्डलगति: श्रूयते – अथ यत्रैतदस्माच्छरीरदुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमते (छा.८.६.५) इति। (विचारार्थः संशयः) तत्र रश्म्यनुसारेणैवेत्ययं गतिनियमस्सम्भवति, नेति चिन्तायां – (पूर्वपक्षः युक्त्या) निशि मृतस्य विदुषो रश्म्यनुसारासम्भवादनियम: । वचनन्तु पक्षप्राप्तविषयम् – (सिद्धान्तार्थः सूत्रतः) इति प्राप्ते उच्यते – रश्म्यनुसारी – इति। रश्म्यनुसार्येव […]
श्रीभाष्यम् 04-02-08 तदोकोऽधिकरणम्
श्रीशारीरकमीमांसाभाष्ये तदोकोधिकरणम्॥८॥ (अधिकरणार्थः – परमपुरुषप्रसादात् विदुषः जीवस्य उत्क्रान्तिकाले मूर्धन्यनाडीप्रकाशः तया गतिश्च) ५०४. तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतश्शताधिकया ॥ ४–२–१६ ॥ (अवान्तरसङ्गतिः) एवं गत्युपक्रमावधि विद्वदविदुषोस्समानाकार उत्क्रान्तिप्रकार उक्त:; इदानीं विदुषो विशेष उच्यते। (विचारणीयो विषयः, विचारार्थः संशयश्च) तत्रेदमाम्नायते – शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिस्सृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्डन्या उत्क्रमणे भवन्ति (कठ.२.६.१६) इति । अनया नाडीनां शताधिकया मूर्धन्य नाड्यैव विदुषो […]
श्रीभाष्यम् 04-02-07 अविभागाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये अविभागाधिकरणम्॥७॥ (अधिकरणार्थः – जीवस्य विदुषः उत्क्रान्तौ परमात्मनि सम्पत्तिः अविभागरूपैव, न कारणापत्तिरूपा) ५०३. अविभागो वचनात् ॥ ४–२–१५ ॥ (सङ्गतिगर्भः विचारौपयिकः संशयः) सेयं परमात्मनि सम्पत्ति: कि प्राकृतलयवत्कारणापत्तिरूपा, उत वाङ्मनसि (छा.६.८.६) इत्यादिवदविभागरूपेति चिन्तायां – (सयुक्तिकः पूर्वः पक्षः) परमात्मनस्सर्वेषां योनिभूतत्वात्कारणापत्तिरूपा (सूत्रतः सिद्धान्तार्थः) इति प्राप्ते उच्यते – अविभाग: – इति। अपृथग्भाव: पृथग्व्यवहारानर्हासंसर्ग इत्यर्थ:। कुत:? वचनात् । तेज: परस्यां देवतायाम् […]
श्रीभाष्यम् 04-02-06 परसम्पत्त्यधिकरणम्
श्रीशारीरकमीमांसाभाष्ये परसम्पत्त्यधिकरणम् ॥६॥ (अधिकरणार्थः – विदुषि जीवे परिष्वक्तानि भूतसूक्ष्माणि परमात्मन्येव सम्पद्यन्ते) ५०२. तानि परे तथाह्याह ॥ ४–२–१४ ॥ (अवान्तरसङ्गतिः) सकरणग्राम: सप्राण: करणाध्यक्ष: प्रत्यगात्मा उत्क्रान्तिवेलायां तेज: प्रभृतिभूतसूक्ष्मेषु सम्पद्यत इत्युक्तम्; सैषा सम्पत्तिर्विदुषो न विद्यत इत्याशङ्क्य परिहृतम् ॥ (विचारौपयिकः संशयः) तानि पुनर्जीवपरिष्वक्तानि भूतसूक्ष्माणि किं यथाकर्म यथाविद्यं च स्वकार्याय गच्छन्ति, उत परमात्मनि सम्पद्यन्त इति विशये – (पूर्वः पक्षः) मध्ये […]
श्रीभाष्यम् 04-02-05 आसृत्युपक्रमाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये आसृत्युपक्रमाधिकरणम् (अधिकरणार्थः – देहादुत्क्रमं प्राप्नुवतोर्विद्वदविदुषोः द्वयोरपि गतिः, नाडीप्रवेशपर्यन्तं समानैव) ४९५. समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॥ ४–२–७ ॥ (विचारणीयः संशयः) इयमुत्क्रान्ति: किं विद्वदविदुषोस्समाना, उताविदुष एवेति चिन्तायाम्, (पूर्वः पक्षः) अविदुष एवेति प्राप्तम्। कुत:? विदुषोऽत्रैवामृतत्ववचनादुत्क्रान्त्यभावात्। विदुषो ह्यत्रैवामृतत्वं श्राव्यते – यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिता:। अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते (कठ.२.६.१४) इति॥ (सूत्रतः सिद्धान्तः) एवं प्राप्तेऽभिधीयते- समानाचाऽसृत्युपक्रमात् […]
श्रीभाष्यम् 04-02-04 भूताधिकरणम्
श्रीशारीरकमीमांसाभाष्ये भूताधिकरणम्॥४॥ (अधिकरणार्थः – प्राणसंयुक्तस्य जीवस्य संहतेषु सर्वेषु भूतेष्वेव सम्पत्तिः, न केवले तेजसि) ४९३. भूतेषु तच्छ्रुते: ॥ ४–२–५॥ (विचारणीयो विषयः ससंशयः) प्राणस्तेजसि (छा.६.८.६) इति जीवसंयुक्तस्य प्राणस्य तेजसि सम्पत्तिरुक्ता, सा सम्पत्ति: किं तेजोमात्रे, उत संहतेषु सर्वेषु भूतेष्विति विशये (पूर्वपक्षार्थः) तेजोमात्रश्रवणात्तेजसि (सूत्रेण सिद्धान्तार्थः) इति प्राप्त उच्यते – भूतेषु – इति। भूतेषु- सम्पद्यते। कुत:? तच्छ्रुते: – पृथिवीमय आपोमय: […]
श्रीभाष्यम् 04-02-03 अध्यक्षाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये अध्यक्षाधिकरणम्॥३॥ (अधिकरणार्थः – वागादिमनोन्तयुक्तस्य प्राणस्य जीवे सम्पत्तिः) ४९२. सोऽध्यक्षे तदुपगमादिभ्य: ॥ ४–२–४ ॥ (सयुक्तिकः पूर्वः पक्षः) यथा वाङ्मनसि सम्पद्यते मन: प्राणे (छा.६.८.६) इति वचनानुरोधेन मन: प्राणयोरेव वाङ्मनसयोस्सम्पत्ति:; तथा प्राणस्तेजसि (छा.६.६.६) इति वचनात्तेजस्येव प्राणस्सम्पद्यते – (सूत्रतः सिद्धान्तार्थः) इति प्राप्त उच्यते – सोऽध्यक्षे – इति। स: – प्राण:, अध्यक्षे – करणाधिपे जीवे सम्पद्यते। कुत:? तदुपगमादिभ्य: – […]
श्रीभाष्यम् 04-02-02 मनोऽधिकरणम्
श्रीशारीरकमीमांसाभाष्ये मनोऽधिकरणम्॥२॥ (अधिकरणार्थः – सर्वेन्द्रिययुक्तस्य मनसः संयोगरूपा प्राणे सम्पत्तिः) ४९१. तन्मन: प्राण उत्तरात् ॥ ४–२–३ ॥ (सूत्रविवृत्या सिद्धान्तार्थवर्णनम्) तत् – सर्वेन्द्रियसंयुक्तं मन: प्राणे सम्पद्यते – प्राणेन संयुज्यते; न मनोवृत्तिमात्रम्। कुत:? उत्तरात् – मन: प्राणे (छा.६.८.६) इति वाक्यात्। (अधिकरणौपयिकी अधिकाशङ्का) अधिकाशङ्का तु अन्नमयं हि सोम्य मन: (छा.६.६.५) इति वचनान्मनसोऽन्नप्रकृतित्वमवगम्यते; अन्नस्य च ता अन्नमसृजन्त (छा.६-२-४) इत्यम्मयत्वं सिद्धम्, […]