श्रीभाष्यम् 04-02-04 भूताधिकरणम्

श्रीशारीरकमीमांसाभाष्ये भूताधिकरणम्॥४॥

(अधिकरणार्थः – प्राणसंयुक्तस्य जीवस्य संहतेषु सर्वेषु भूतेष्वेव सम्पत्तिः, न केवले तेजसि)

४९३. भूतेषु तच्छ्रुते: ५॥

(विचारणीयो विषयः ससंशयः)

प्राणस्तेजसि (छा.६.८.६) इति जीवसंयुक्तस्य प्राणस्य तेजसि सम्पत्तिरुक्ता, सा सम्पत्ति: किं तेजोमात्रे, उत संहतेषु सर्वेषु भूतेष्विति विशये

(पूर्वपक्षार्थः)

तेजोमात्रश्रवणात्तेजसि

(सूत्रेण सिद्धान्तार्थः)

इति प्राप्त उच्यते – भूतेषु – इति। भूतेषु- सम्पद्यते। कुत:? तच्छ्रुते: – पृथिवीमय आपोमय: …… तेजोमय: (बृ.६.४.५) इति जीवस्य सञ्चरतस्सर्वभूतमयत्वश्रुते:॥५॥

(एकैकस्य भूतस्य सृष्ट्यनौपयिकता)

ननु तेज: प्रभृतिष्वेकैकस्मिन् क्रमेण सम्पत्तावपि  पृथिवीमय: (बृ.६.४.५) इत्यादिका श्रुतिरुपपद्यते, अत आह –

४९४. नैकस्मिन् दर्शयतो हि

नैकस्मिन्, एकैकस्य कार्याक्षमत्वात्। दर्शयतो ह्यक्षमत्वं श्रुतिस्मृती  अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि तासां त्रिवृतं त्रिवृतमेकैकां करवाणि (छा.६.३.२) इति नामरूपव्याकरणयोग्यत्वाय त्रिवृत्करणमुपदिश्यते।  नानावीर्या: पृथग्भूता: ततस्ते संहतिं विना। नाशक्नुवन् प्रजास्स्रष्टुमसमागम्य कृत्स्नश: समेत्यान्योन्यसंयोगं परस्परसमाश्रया: महदाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति ते (वि.पु.१.२.५२,५३) इति। अत: प्राणस्तेजसि (छा.६.८.६) इति तेजश्शब्देन भूतान्तरसंसृष्टमेव तेजोऽभिधीयते। अतो भूतेष्वेव सम्पत्ति: ॥६॥

इति श्रीशारीरकमीमांसाभाष्ये भूताधिकरणम्॥ ४॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.