श्रीभाष्यम् 04-02-11 दक्षिणायनाधिकरणम्

श्रीशारीररकमीमांसाभाष्ये दक्षिणायनाधिकरणम्॥११॥

(अधिकरणार्थः – दक्षिणायने मृतस्याऽपि विदुषः ब्रह्मप्राप्तिरस्त्येव, न चन्द्रं प्राप्य पुनरावृत्तिः)

५०७. अतश्चायनेऽपि दिक्षणे १९

(सूत्रार्थानुवादः, अधिकाशङ्का च)

                निशि मृतस्यापि विदुषो ब्रह्मप्राप्तौ यो हेतुरुक्त:, तत एव हेतोर्दक्षिणेऽप्ययने मृतस्य ब्रह्मप्राप्तिस्सिद्धा ॥

              अधिकाशङ्का तु  अथ यो दक्षिणे प्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमसस्सायुज्यं गच्छति (तै.ना.५२.) इति दक्षिणायने मृतस्य चन्द्रप्राप्तिश्रवणात् चन्द्रं प्राप्तानां च तेषां यदा तत्पर्यवैति, अथैतमेवाध्वानं पुनर्निवर्तन्ते (छा.५.१०.५) इति पुनरावृत्तिश्रवणात्, भीष्मादीनां च ब्रह्मविद्यानिष्ठानामुत्तरायणप्रतीक्षादर्शनाद्दक्षिणायने मृतस्य ब्रह्मप्राप्तिर्न सम्भवति – इति।

(अधिकाशङ्कापरिहारतः सिद्धान्तः)

                परिहारस्तु – अविदुषां पितृयाणेन पथा चन्द्रं प्राप्तानामेव पुनरावृत्ति:, विदुषस्तु चन्द्रं प्राप्तस्यापि  तस्माद्ब्रह्मणो महिमानमाप्नोति (तै.ना.५२) इति वाक्यशेषात्तस्य दक्षिणायनमृतस्य चन्द्रप्राप्ति: ब्रह्म प्रपित्सतो विश्रमहेतुमात्रमिति गम्यते; वाक्यशेषाभावेऽपि पूर्वोक्तादेव बन्धहेत्वभावात् विदुषश्चन्द्रं प्राप्तस्यापि ब्रह्मप्राप्तिरनिवार्या। भीष्मादीनां योगप्रभावात् स्वच्छन्दमरणानां धर्मप्रवर्तनायोत्तरायणप्राशस्त्यप्रदर्शनार्थ: तथाविधाचार:॥

(विदुषः दक्षिणायनमरणेऽपि ब्रह्मप्राप्तिनिर्णयस्य गीतावचनविरोधशङ्का-तत्परिहारौ)

                ननु च विदुषो मुमूर्षून् प्रति पुनरावृत्तिहेतुत्वेन कालविशेषविधिर्दृश्यते – यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिन: प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ।  अग्निर्ज्योतिरहश्शुक्ल: षण्मासा उत्तरायणम् तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जना: धूमो रात्रिस्तथा कृष्ण: षण्मासा दक्षिणायनम्। तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते। शुक्ल कृष्णे गती ह्येते जगतश्शाश्वते मते। एकया यात्यनावृत्तिमन्ययाऽवर्तते पुन: (भ.गी.८.२३,२४,२५,२६) इति; तत्राह –

५०८. योगिन: प्रति र्स्म्येते स्मार्ते चैते २०

                नात्र मुमूर्षून् प्रति मरणकालविशेषोपादानं स्मर्यते;  अपि तु योगिन: – योगनिष्ठान् प्रति स्मार्ते स्मृतिविषयभूते – स्मर्तव्ये देवयानिपतृयाणाख्ये गती स्मर्येते योगाङ्गतयाऽनुदिनं स्मर्तुम्। तथा ह्युपसंहार:  नैते सृती पार्थ जानन्योगी मुह्यति कश्चन। तस्मात्सर्वेषु कालेषु योगमुक्तो भवार्जुन (भ.गी.८.२७) इति । अग्निर्ज्योति: (भ.गी.८-२३) धूमो रात्रि: (भ.गी.८.२४) इति कालशब्द: कालाभिमानिदेवतातिवाहिकपर:, अग्न्यादे: कालत्वासम्भवात्। अत:  तेऽर्चिषमभिसम्भवन्ति (बृ.८.२.१५) इति विहितदेवयानानुस्मृतिरत्र विद्यानिष्ठान् प्रति विधीयते, न मुमूर्षून् प्रति मरणकालविशेष:॥२०॥

इति श्रीशारीरकमीमांसाभाष्ये दक्षिणायनाधिकरणम्॥११॥

इति श्रीभगवद्रानुजविरिचते श्रीशारीरकमीमांसाभाष्ये चतुर्थस्याध्यायस्य द्वितीय:पाद:॥२॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.