श्रीभाष्यम् 04-02-10 निशाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये निशाधिकरणम्॥१०॥

(अधिकरणार्थः – विदुषः निशि मृतस्यापि ब्रह्मप्राप्तिः अवश्यम्भाविनी)

५०६. निशि नेति चेन्न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयति १८

(प्रकृतचिन्तोपयोगिसंशयप्रदर्शनम्)

इदमिदानीं चिन्त्यते – विदुषो निशि मृतस्य ब्रह्मप्राप्तिरस्ति, नेति।

(सिद्धान्तिच्छायया शङ्कापूर्वकं पूर्वपक्षस्वीकारः)

यद्यपि निशायां सूर्यरश्मिसम्भवाद्रश्म्यनुसारेण गतिर्निशायामपि सम्भवति; तथापि निशामरणस्य शास्त्रेषु गर्हितत्वात्परमपुरुषार्थलक्षणब्रह्मप्राप्तिर्निशामृतस्य न सम्भवति । शास्त्रेषु दिवामरणं प्रशस्तम्, विपरीतं निशामरणं, दिवा शुक्लपक्षश्च उत्तरायणमेव च। मुमूर्षतां प्रशस्तानि विपरीतं तु गर्हितम् (म.भा.अनु.२२-३१) इति। दिवामरणनिशामरणयो: प्रशस्तत्वविपरीतत्वे चोत्तमाधमगतिहेतुत्वेन स्याताम्। अतो निशामरणमधोगतिहेतुत्वान्न ब्रह्मप्राप्तिहेतुरिति चेत् –

(सूत्रोत्तरखण्डविवरणतः सिद्धान्तार्थः)

तन्न, विदुष: कर्मसम्बन्धस्य यावद्देहभावित्वात् । एतदुक्तं भवति – अनारब्धकार्याणामधोगतिहेतुभूतानां कर्मणां विद्यासम्बन्धेनैव विनाशादुत्तरेषां चाश्लेषात्प्रारब्धकार्यस्य च चरमदेहावधित्वाद्बन्धहेत्वभावाद्विदुषो निशामृतस्यापि ब्रह्मप्राप्तिस्सिद्धैव । दर्शयति च श्रुति:  तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये (छां.६.१४.२) इति दिवा च शुक्लपक्षश्च  इत्यादिवचनमविद्वद्विषयम् ॥१८॥

इति श्रीशारीरकमीमांसाभाष्ये निशाधिकरणम्॥१०॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.