श्रीभाष्यम् 02-04-06 ज्योतिराद्यधिष्ठानाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये ज्योतिराद्यधिष्ठानाधिकरणम्॥६॥ (अधिकरणद्वयार्थनिगमनम्) २८१. ज्योतिराद्यधिष्ठानं तु तदामननात्प्राणवता शब्दात् ॥ २–४–१३ ॥ (अधिकरणद्वयार्थनिगमनम्) सश्रेष्ठानां प्राणानां ब्रह्मण उत्पत्तिरियत्तापरिमाणं चोक्तम्; तेषां प्राणानामग्न्यादिदेवताधिष्ठितत्वं च पूर्वमेव अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् (शारी.२.१.५) इत्यनेन सूत्रेण प्रसङ्गादुपपादितम्; जीवस्य च स्वभोगसाधनानामेषामधिष्ठातृत्वं लोकसिद्धम्, एवमेवैष एतान् प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते (बृ.४.१.१८) इत्यादिश्रुतिसिद्धं च। (प्रकृतोपयोगी संशयः, पूर्वपक्षश्च) तदिदं जीवस्याग्न्यादिदेवतानां च प्राणविषयमधिष्ठानं किं स्वायत्तम्; उत परमात्मायत्तमिति विषये नैरपेक्ष्यात्स्वायत्तम् […]
श्रीभाष्यम् 02-04-05 श्रेष्ठाणुत्वाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये श्रेष्ठाणुत्वाधिकरणम्॥५॥ (अधिकरणार्थः – मुख्यप्राणस्याप्यणुत्वमेव, न विभुत्वम्) २८०. अणुश्च ॥ २–४–१२ ॥ अणुश्चायम्, पूर्ववदुत्क्रान्त्यादिश्रवणात् तमुत्क्रामन्तं प्राणोऽनूत्क्रामति (बृ.३.५.३) इत्यादिषु। अधिकाशङ्का तु सम एभिस्त्रिभिर्लोकैस्समोऽनेन सर्वेण (बृ.३.३.२२) प्राणे सर्वं प्रतिष्ठितम्, सर्वं हीदं प्राणेनावृतम् इत्यादिश्रवणात् महापरिमाण इति॥१२॥ परिहारस्तु – उत्क्रान्त्यादिश्रवणात्परिच्छिन्नत्वे निश्चिते सर्वस्य प्राणिजातस्य प्राणायत्तस्थितित्वेन वैभववादोपपत्ति: – इति॥१२॥ इति श्रीशारीरकमीमांसाभाष्ये श्रेष्ठाणुत्वाधिकरणम्॥ ५॥
श्रीभाष्यम् 02-04-04 वायुक्रियाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये वायुक्रियाधिकरणम्॥४॥ (अधिकरणार्थः – श्रेष्ठः प्राणः न वायुसामान्यम्, तत्क्रिया वा, किन्तु विशिष्टो वायुः) २७६. न वायुक्रिये पृथगुपदेशात् ॥ २–४–८ ॥ (विचारोपयोगी संशयः) सोऽयं श्रेष्ठ: प्राण: किं महाभूतद्वितीयवायुमात्रम्; तस्य वा स्पन्दरूपक्रिया; अथवा वायुरेव कञ्चन विशेषमापन्न: – इति विशये – (पूर्वपक्षः सहेतुकः) वायुरेवेति प्राप्तम्, य: प्राणस्स वायु: इति व्यपदेशात्। यद्वा वायुमात्रे प्राणत्वप्रसिद्ध्यभावादुच्छ्वासनिश्वासादिवायुक्रियायां प्राणशब्दप्रसिद्धेश्च तत्क्रियैव – (सिद्धान्तरूपं सूत्रोत्तरार्धवर्णनम्) […]
श्रीभाष्यम् 02-04-03 प्राणाणुत्वाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये प्राणाणुत्वाधिकरणम् ॥३॥ (अधिकरणार्थः – इन्द्रियाणाम् अणुपरिमाणतास्थापनम्) २७४. अणवश्च ॥ २–४–६ ॥ (पूर्वपक्षः सप्रमाणः) त एते सर्व एव समा: सर्वेऽनन्ता: (बृह.३.५.१३) इत्यानन्त्यश्रवणाद्विभुत्वं प्राणानाम् – (सिद्धान्तरूपः सूत्राशयः) इति प्राप्तेऽभिधीयते – प्राणमनूत्क्रान्तं सर्वे प्राणा अनूत्क्रामन्ति (बृ.६.४.२) इत्युत्क्रान्त्यादिश्रवणात्परिमितत्वे सिद्धे सत्युत्क्रान्त्यादिषु पार्श्वस्थैरनुपलभ्यमानत्वादणवश्च प्राणा:। आनन्त्यश्रुतिस्तु अथ यो हैताननन्तानुपास्ते (बृ.३-५-१३) इत्युपासनश्रवणात् उपास्यप्राणविशेषणभूतकार्यबाहुल्याभिप्राया ॥६॥ २७५. श्रेष्ठश्च ॥ २–४–७ ॥ (मुख्यप्राणस्यापि उत्पत्तिमत्ता) […]
श्रीभाष्यम् 02-04-02 सप्तगत्यधिकरणम्
श्रीशारीरकमीमांसाभाष्ये सप्तगत्यधिकरणम्॥२॥ (सू.4-5) (अधिकरणार्थः – इन्द्रियाणां एकादशसङ्ख्यतासमर्थनम्) २७२. सप्त गतेर्विशेषितत्वाच्च ॥ २–४–४ ॥ (विचारणोपयोगी संशयः) तानीन्द्रियाणि किं सप्तैव स्यु:, अथवैकादशेति चिन्त्यते। श्रुतिविप्रतिपत्तेस्संशय:। (पूर्वपक्षः तत्र हेतुश्च) किं प्राप्तम्; सप्तेति। कुत:? गतेर्विशेषितत्वाच्च। गतिस्तावज्जायमानेन म्रियमाणेन च जीवेन सह लोकेषु सञ्चरणरूपा सप्तानामेव श्रूयते सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया निहितास्सप्तसप्त (मु.२.१.८) इति । वीप्सा पुरुषभेदाभिप्राया । विशेषिताश्च ते […]
श्रीभाष्यम् 02-04-01 प्राणोत्पत्त्यधिकरणम्
श्रीभगवद्रामानुजविरचते श्रीशारीरकमीमांसाभाष्ये द्वितीये अविरोधाध्याये चतुर्थः प्राणपाद: ॥ (पादार्थः – प्राणादीनां जीवोपकरणानां ब्रह्मकार्यत्वचिन्ता) प्राणोत्पत्त्यधिकरणम्॥१॥ (अधिकरणार्थः – प्राणशब्दवाच्यानामिन्द्रियाणामपि वियदादिवत् ब्रह्मकार्यता) २६९. तथा प्राणा: ॥ २–४–१ ॥ (पादसङ्गतिप्रदर्शनम्) ब्रह्मव्यतिरिक्तस्य वियदादे: कृत्स्नस्य कार्यत्वेनोत्पत्तावुक्तायां जीवस्य कार्यत्वेऽपि स्वरूपान्यथाभावलक्षणोत्पत्तिरपोदिता; तत्प्रसङ्गेन जीवस्वरूपं शोधितम् ॥ सम्प्रति जीवोपकरणानामिन्द्रियाणां प्राणस्य चोत्पत्त्यादिप्रकारो विशोध्यते । (विचाराङ्गसंशयस्वरूपम्) तत्र किमिन्द्रियाणां कार्यत्वं जीववत्; उत वियदादिवदिति चिन्त्यते । (अधिकरणद्वयार्थनिगमनम्) किं युक्तम्? जीववदेवेत्याह […]
श्रीभाष्यम् 02-03-07 अंशाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये अंशाधिकरणम्॥७॥ (अधिकरणार्थः – जीवात्मनः परमात्मनः अंशभूताः इति साधनम्) २५८. अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके॥ २–३–४२॥ (अवान्तरसङ्गतिः अधिकरणीयः संशयश्च) जीवस्य कर्तृत्वं परमपुरुषायत्तमित्युक्तम्; इदानीं किमयं जीव: परस्मादत्यन्तभिन्न:, उत परमेव ब्रह्म भ्रान्तम्, उत ब्रह्मैवोपाध्यवच्छिन्नम्, अथ ब्रह्मांश इति संशय्यते; श्रुतिविप्रतिपत्तेस्संशय:। (अधिकरणस्य पौनरुक्त्यशङ्का – परिहारौ) ननु तदनन्यत्वमारम्भणशब्दादिभ्य: (शारी.२.१.१५) अधिकं तु भेदनिर्देशात् (शारी.२.१.२२) इत्यत्रैवायमर्थो निर्णीत:। सत्यम्, स एव नानात्वैकत्वश्रुतिविप्रतिपत्त्या आक्षिप्य […]
श्रीभाष्यम् 02-03-06 परायत्ताधिकरणम्
श्रीशारीरकमीमांसाभाष्ये परायत्ताधिकरणम्॥६॥ (अधिकरणार्थः – जीवात्मगतं विहित-निषिद्धक्रियाकर्तृत्वं परमात्माधीनम्) २५६. परात्तु तच्छ्रुते:॥ २–३–४० ॥ (एतदधिकरणविचारणीयोऽर्थः) इदं जीवस्य कर्तृत्वं किं स्वातन्त्र्येण? उत परमात्मायत्तमिति। (युक्तिसिद्धः पूर्वः पक्षः) कि प्राप्तम्? स्वातन्त्रयेणेति । परमात्मायत्तत्वे हि विधिनिषेधशास्त्रानर्थक्यं प्रसज्येत । यो हि स्वबृुद्धया प्रवृत्तिनिवृत्त्यारम्भशक्त:; स एव नियोज्यो भवति। अत स्वातन्त्र्येणास्य कर्तृत्वम्॥ (सिद्धान्तः सूत्रार्थविवृत्त्या सह) इति प्राप्तेऽभिधीयते – परात्तु तच्छ्रुते: – इति। तुशब्द: पक्षं […]
श्रीभाष्यम् 02-03-05 कर्त्रधिकरणम्
श्रीशारीरकमीमांसाभाष्ये कर्त्रधिकरणम्॥५॥ (अधिकरणार्थः – आत्मन एव कर्तृत्वम्, न गुणानाम् इति समर्थनम्) २४९. कर्ता शास्त्रार्थवत्वात् ॥ २–३–३३ ॥ (अवान्तरसङ्गतिप्रदर्शनम्, अधिकरणीयो विचारश्च) अयमात्मा ज्ञाता, स चाणुपरिमाण इत्युक्तम्; इदानीं किं स एव कर्ता; उत स्वयमकर्तैव सन्नचेतनानां गुणानां कर्तृत्वमात्मन्यध्यस्यतीति चिन्त्यते। (पर्वपक्षः सयुक्तिकः) किमत्र युक्तम्? अकर्तैवात्मेति। कुत:? आत्मनो ह्यकर्तृत्वम्, गुणानामेव च कर्तृत्वमध्यात्मशास्त्रेषु श्रूयते। तथाहि कठवल्लीषु जीवस्य न जायते म्रियते (कठ.२.१८) […]
श्रीभाष्यम् 02-03-04 ज्ञाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये ज्ञाधिकरणम्॥४॥ (अधिकरणार्थः – ज्ञानाश्रयत्वस्य जीवस्वरूपतानिरूपणम्) २३५. ज्ञोऽत एव ॥ २–३–१९ ॥ (अवान्तरसङ्गतिः, अधिकरणीयः संशयश्च) वियदादिवज्जीवो नोत्पद्यत इत्युक्तम्, तत्प्रसङ्गेन जीवस्वरूपं निरूप्यते। किं सुगतकपिलाभिमतचिन्मात्रमेवात्मनस्स्वरूपम्; उत कणभुगभिमतपाषाणकल्पस्वरूपं अचित्स्वभावमेव आगन्तुकचैतन्यगुणकम्; अथ ज्ञातृत्वमेवास्य स्वरूपमिति। (युक्तिसहितः पूर्वः पक्षः, चेतनस्य ज्ञानमात्रस्वरूपता) किं युक्तम्? चिन्मात्रमिति; कुत:? तथा श्रुते:। अन्तर्यामिब्राह्मणे हि य आत्मनि तिष्ठन् (बृ.५.७.२२) इति माध्यन्दिनस्य पर्यायस्य स्थाने यो विज्ञाने तिष्ठन् (बृह.५.७.२२) […]