श्रीभाष्यम् 03-04-08 विहितत्वाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये विहितत्वाधिकरणम्॥ ८॥ (अधिकरणार्थः – उपासनप्रवृत्तेषु कर्मणां विद्याङ्गत्वेऽपि तद्रहितेषु केवलाश्रमाङ्गत्वमपि) ४५०. विहितत्वाच्चाश्रमकर्मापि ॥ ३–४–३२ ॥ (सङ्गतिः, संशयः पूर्वपक्षश्च) यज्ञादिकर्माङ्गिका ब्रह्मविद्येत्युक्तम्; तानि च यज्ञादीनि कर्माण्यमुमुक्षुणा केवलाश्रमिणाऽप्यनुष्ठेयानि, उत नेति चिन्तायां, विद्याङ्गानां सतां केवलाश्रमशेषत्वे  नित्यानित्यसंयोगविरोध: प्रसज्यत इति यज्ञादीनां केवलाश्रमधर्मत्वं न सम्भवति – इति प्राप्ते (सिद्धान्तार्थः) उच्यते आश्रमकर्मापि – इति । आश्रमस्य कर्मापि भवति। केवलाश्रमिणापि अनुष्ठेयानीत्यर्थ:। कुत:?  यावज्जीवमग्निहोत्रं जुहोति  […]

श्रीभाष्यम् 03-04-07 सर्वान्नानुमत्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये सर्वान्नानुमत्यधिकरणम् ॥७॥ ४४६. सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥ ३–४–२८ ॥ (विचारणीयविषयोपस्थापनम्) वाजिनां छन्दोगानां च प्राणविद्यायां  न ह वा अस्यानन्नं दग्धं भवति नानन्नं परिगृहीतं भवति (बृ.८.१.१४) न ह वा एवंविदि किञ्चनानन्नं भवति (छा.५.२.१) इति प्राणविद: सर्वान्नानुमति: सङ्कीर्त्यते  ॥ (विचारणोपयोगी संशयः) किमियं प्राणविद्यानिष्ठस्य सर्वान्नानुमति: सर्वदा, उत प्राणात्ययापत्ताविति विशये, (पूर्वपक्षः) विशेषानुपादानात्सर्वदा – इति प्राप्ते (सिद्धान्तार्थः) उच्यते – प्राणात्यये […]

श्रीभाष्यम् 03-04-06 शमदमद्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये शमदमाद्यधिकरणम्॥६॥ (अधिकरणार्थः – गृहस्थस्य यज्ञादिवत् विद्याङ्गतया शमदमादयोप्यनुष्ठेया एव) ४४५. शमदमाद्युपेतस्स्यात्तथापि तु  तद्विधे: तदङ्गतया तेषामप्यवश्यानुष्ठेयत्वात् ॥ ३–४–२७ ॥ (प्रकृतविचाराङ्गः संशयः, पूर्वपक्षश्च) गृहस्थस्य शमदमादीन्यप्यनुष्ठेयानि, उत नेति चिन्तायाम् – आन्तर-बाह्यकरणव्यापाररूपत्वात्कर्मानुष्ठानस्य, शमदमादीनां  तद्विपरीतरूपत्वाच्चाननुष्ठेयानि –  (सिद्धान्तार्थः) इति प्राप्त उच्यते ॥ यद्यपि गृहस्थ: करणव्यापाररूपकर्मसु प्रवृत्त:, तथाऽपि स विद्वान् शमदमाद्युपेतस्स्यात् कुत:? तदङ्गतया  तद्विधे: – विद्याङ्गतया तेषां विधे:  तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुस्समाहितो भूत्वाऽऽत्मन्येवाऽत्मानं […]

श्रीभाष्यम् 03-04-05 सर्वापेक्षाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये सर्वापेक्षाधिकरणम्॥५॥ (अधिकरणार्थः – कर्माधिकृताश्रमिणां तु ब्रह्मविद्या कर्मसापेक्षैव निष्पन्ना भवेत्) ४४४. सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ ३–४–२६ ॥ (गृहिष्वपि कर्मापेक्षाराहित्यशङ्का, तन्निरासश्च) यदि विद्या यज्ञाद्यनपेक्षैवामृतत्वं साधयति; तर्हि गृहस्थेष्वपि तदनपेक्षैव साधयितुमर्हति, यज्ञादिश्रुतिरपि विविदिषन्ति (बृ.६.४.२२) इति शब्दात्कर्मणो वेदनाङ्गतां न प्रतिपादयतीति – अत आह – सर्वापेक्षा इति।  अग्निहोत्रादिसर्वकर्मापेक्षैव विद्या कर्मवत्सु गृहस्थेषु; कुत:? यज्ञादिश्रुते:। तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन […]

श्रीभाष्यम् 03-04-04 अग्नीन्धनाद्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये अग्नीन्धनाद्यधिकरणम्॥ ४॥ (अधिकरणार्थः – परिव्राजिकानां विद्यासिद्धिः, स्वाश्रमविहितकर्मापेक्षैव, न तु अग्न्याधानपूर्वककर्मापेक्षा) ४४३. अत एव चाग्नीन्धनाद्यनपेक्षा ॥ ३–४–२५ ॥ (पूर्वाधिकरणयोः प्रासङ्गिकता, प्रकृतसङ्गतिश्च) स्तुतिप्रसङगादवान्तरसङ्गतिविशेषेणार्थद्वयं चिन्तितम् । विद्यावन्त ऊर्ध्वरेतस आश्रमिण: सन्तीत्युक्तम्  ऊर्ध्वरेतस्सु च शब्दे हि (शारी.३.४.२७) इत्यादिभिस्सूत्रै:। (पूर्वपक्षसिद्धान्तौ) इदानीमूर्ध्वरेतसो यज्ञाद्यभावात्तदङ्गिका विद्या न सम्भवतीत्याशङ्क्याह – अत एव चाग्नीन्धनाद्यनपेक्षा – इति । यत ऊर्ध्वरेतस आश्रमिणो विद्यासम्बन्धित्वेन श्रुत्या परिगृह्यन्ते  ब्रह्मसंस्थोऽमृतत्वमेति (छा.२.२३.१)  […]

श्रीभाष्यम् 03-04-03 पारिप्लवार्थाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये पारिप्लवार्थाधिकरणम्॥३॥ (अधिकरणार्थः – उपनिषत्सूपलभ्यमानानां आख्यानानां विद्याविध्यर्थत्वमेव न तु अश्वमेधाङ्गपारिप्लवनामकशस्त्रार्थत्वम्) ४४१. पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥ ३–४–२३ ॥ (विचारणीयो विषयः ससंशयः)             प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम (कौ.३.१)  श्वेतकेतुर्हारुणेय आस (छा.६.१.१) इत्येवमादीनि वेदान्तेष्वाख्यानानि किं पारिप्लवप्रयोगार्थानि, उत विद्याविशेषप्रतिपादनार्थानीति चिन्तायाम् – (पूर्वपक्षः)             आख्यानानि शंसन्ति (?) इत्याख्यानानां पारिप्लवे विनियोगान्न विद्याप्रधानत्वं न्याय्यमिति चेत् (सिद्धआन्तार्थः) न सर्वाण्याख्यानानि पारिप्लवप्रयोगे […]

श्रीभाष्यम् 03-04-02 स्तुतिमात्राधिकरणम्

श्रीशारीरकमीमांसाभाष्ये स्तुतिमात्राधिकरणम् ॥२॥ (अधिकरणार्थः – स एष रसानां इत्यादिवाक्यानां उद्गीथादौ रसतमादिदृष्टिविधिपरत्वमेव) ४३९. स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥ ३–४–२१ ॥ (विचारणीयो विषयः ससंशयः) इदमिदानीं चिन्त्यते  स एष रसानां रसतम: परम: परार्थ्योऽष्टमो यदुद्गीथ: (छा.१.१.३) इति एवंजातीयकानि वाक्यानि क्रत्ववयवभूतोद्गीथादिस्तुतिमात्रपराणि, आहोस्विदुद्गीथादिषु रसतमादिदृष्टिविधानार्थानीति । (तन्निर्धारणानियमाधिकरणस्य एतदधिकरणोपजीव्यत्वम्) अत्र प्रतिपादितमुपासनपरत्वमङ्गीकृत्योपासनस्य पुरुषार्थत्वेन क्रतुषूपादानानियम उक्त:। (पूर्वः पक्षः सयुक्तिकः) किं युक्तम्? स्तुतिमात्रपराणीति । कुत:? उद्गीथाद्युपादानात्। क्रत्वङ्गभूतानि ह्युद्गीथादीन्युपादाय […]

श्रीभाष्यम् 03-04-01 पुरुषार्थाधिकरणम्

श्रीभगवद्रामानुजविरचितेश्रीशारीरकमीमांसाभाष्ये तृतीये साधनाध्याये – चतुर्थ: अङ्गपाद: (पादार्थः – मोक्षोपायतया वेदान्तविहितविद्याङ्गभूतकर्मादिविषयिणी चिन्ता) पुरुषार्थाधिकरणम्॥१॥ (अधिकरणानि – 1 – 15 सूत्राणि – 1 – 51) (अधिकरणार्थः – कर्माङ्गकादुपासनादेव परमपुरुषार्थावाप्तिः, न तु वेदनाङ्गकात् कर्मणः) ४१९. पुरुषार्थोऽतश्शब्दादिति बादरायण: ॥ ३–४–१ ॥ (ईशावास्यविद्याविचारः 3-4-33) (अस्याधिकरणस्य पूर्वपादेन सह सङ्गतिः विचारणीयोंशश्च)                 गुणोपसंहारानुपसंहारफला विद्यैकत्वनानात्वचिन्ता कृता; इदानीं विद्यात: पुरुषार्थ:, उत विद्याङ्गकात्कर्मण इति चिन्त्यते। (सिद्धान्त्यभिमतोऽर्थः) […]

श्रीभाष्यम् 03-03-26 यथाश्रयभावाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये यथाश्रयभावाधिकरणम्॥२६॥ (अधिकरणार्थः – उद्गीथाद्यङ्गाश्रितानामुपासनानां पृथक्फलतायाः उद्गीथाद्यनङ्गतायाश्च दर्शनात् क्रतुषूपादानानियमो दृढैव) ४१३. अङ्गेषु यथाश्रयभाव: ॥ ३–३–५९ ॥ (विषयसंशययोः प्रदर्शनम्) उद्गीथादिक्रत्वङ्गेष्वाश्रिता:  ओमित्येतदक्षरमुद्गीथमुपासीत (छा.१.१.१) इत्यादिकाः विद्या: किमुद्गीथादिवत्क्रत्वर्थतया क्रतुषु नियमेनोपादेया:, उत गोदोहनादिवत्पुरुषार्थतया यथाकाममिति विशये – (पूर्वः पक्षः) नियमेनोपादेया इति युक्तम् । (अधिकरणस्यास्य कृतकरत्वशङ्कापरिहारः) ननु चासां पुरषार्थत्वेनानियम: प्रतिपादित:  तन्निर्धारणानियमस्तद्दृष्टे: पृथग्ध्यप्रतिबन्ध: फलम् (शारी.३.३.४१) इत्यत्र । सत्यम्; तदेव द्रढयितुं कैश्चिल्लिङ्गदर्शनैर्युक्त्या चाक्षिप्यते । […]

श्रीभाष्यम् 03-03-25 विकल्पाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये विकल्पाधिकरणम् ॥२५॥ (अधिकरणार्थः – ब्रह्मप्राप्त्यर्थं एकैकस्या एव विद्यायाः विकल्पेनानुष्ठेयता, न समुच्चयेन सर्वस्या अपि ) ४११. विकल्पोऽविशिष्टफलत्वात् ॥ ३–३–५७ ॥ (सङ्गतिसंशययोः प्रदर्शनम्) ब्रह्मप्राप्तिफलानां सद्विद्यादहरविद्यादीनां नानात्वमुक्तम्; इदानीमासां विद्यानामेकस्मिन् पुरुषे प्रयोजनवत्त्वेन समुच्चयोऽपि सम्भवति, उत प्रयोजनाभावाद्विकल्प एवेति विशये – (सयुक्तिकः पूर्वः पक्षः) किं युक्तम्? समुच्चयोऽपि सम्भवतीति; कुत: एकफलानां भिन्नशास्त्रार्थानामपि समुच्चयदर्शनात्। दृश्यते ह्येकस्यैव स्वर्गादेस्साधनानामग्निहोत्रदर्शपूर्णमासादीनां तस्यैव स्वर्गस्य भूयस्त्वापेक्षयैकत्र पुरुषे समुच्चय:; एवमिहापि […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.