श्रीभाष्यम् 03-03-24 शब्दादिभेदाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये शब्दादिभेदाधिकरणम्॥२४॥ (अधिकरणार्थः – ब्रह्मप्राप्त्येकफलानामपि वेदान्तोदितानां विद्यानां शब्दादिभेदतः स्वरूपभेदः) ४१०. नाना शब्दादिभेदात् ॥ ३–३–५६ ॥ (विचारणीयार्थोपस्थापनम्) इह ब्रह्मविद्यास्सर्वा: ब्रह्मप्राप्तिरूपमोक्षैकफला: सद्विद्याभूमविद्यादहरविद्योपकोसल-विद्याशाण्डिल्यविद्यावैश्वानरविद्यानन्दमयविद्याक्षरविद्यादिका एकशाखागताश्शाखान्तरगताश्च उदाहरणम्; अन्या: प्राणाद्येकविषयफलाश्च । (विचारौपयिकः संशयः) किमत्र विद्यैक्यम्, उत विद्याभेद इति संशय्यते। (कर्मकाण्डोक्तन्यायतः पौनरुक्त्यशङ्काया निरासः) अत्रैवासां परस्परभेदे समर्थिते सत्येकस्या दहरविद्यादिकायास्सर्ववेदान्तप्रत्ययन्याय:। (पूर्वः पक्षः सयुक्तिकः) किं युक्तम्? विद्यैक्यमिति। कुत:? वेद्यस्य ब्रह्मण एकत्वात्; वेद्यं हि विद्याया रूपम्; […]
श्रीभाष्यम् 03-03-23 भूमज्यायस्त्वाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये भूमज्यायस्त्वाधिकरणम्॥२३॥ (अधिकरणार्थः – वैश्वानरविद्यायां त्रैलोक्यशरीरस्य वैश्वानरात्मनः उपासनं, समस्तस्यैव) ४०९. भूम्न: क्रतुवज्ज्यायस्त्वं तथाहि दर्शयति ॥ ३–३–५५ ॥ (वैश्वानरविद्यायां विचारणीयो विषयः) प्राचीनशाला औपमन्यव: (छां.५.११.१) इत्यारभ्य वैश्वानरविद्या आम्नाता। तत्र वैश्वानर: परमात्मा त्रैलोक्यशरीर उपास्यश्श्रुत: स्वर्लोकादित्यवाय्वाकाशाप्पृथिव्यवयव:; तत्र द्यौर्मूर्धा, आदित्यश्चक्षु:, वायु: प्राण:, आकाशस्सन्देह: – मध्यकाय इत्यर्थ; आपो वस्ति:; पृथिवी पादावित्यवयवविशेषा:। (विचारौपयिकः संशयः) तत्र संशय: – किमस्य त्रैलोक्यशरीरस्य व्यस्तस्योपासनं कर्तव्यम्, उत […]
श्रीभाष्यम् 03-03-22 अङ्गावबद्धाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये अङ्गावबद्धाधिकरणम् ॥२२॥ (अधिकरणार्थः – उद्गीथाद्यङ्गाश्रयाणां उपासनानां उद्गीथादिवत् सर्वशाखास्थक्रतुष्वप्यन्वयः) ४०७. अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥ ३–३–५३ ॥ (विचारणीयविषयोपस्थापनम्) ओमित्येतदक्षरमुद्गीथमुपासीत (छा.१.१.१) लोकेषु पञ्चविधं सामोपासीत (छा.२.२.१) उक्थमुक्थमिति वै प्रजा वदन्ति तदिदमेवोक्थम् इयमेव पृथिवी (ऐतरेय आ.२.१.२) अयं वाव लोक एषोऽग्निचित: (अग्निरहस्यं) इत्येवमाद्या: क्रत्वङ्गाश्रया: उपासना: भवन्ति । (विचारौपयिकः संशयः) ता: किं यासु शाखासु श्रूयन्ते, तास्वेव नियता:, उत सर्वासु […]
श्रीभाष्यम् 03-03-21 शरीरेभावाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये शरीरेभावाधिकरणम्॥२१॥ (अधिकरणार्थः – उपासककर्तृकं प्रत्यगात्मभूतस्य स्वात्मनोऽनुसन्धानम् आविर्भूयमानगुणाष्टकवत्वेन) ४०५. एक आत्मनश्शरीरे भावात् ॥ ३–३–५१ ॥ (विचारणीयविषयोपस्थापनम्) सर्वासु परविद्यासूपास्योपासनस्वरूपवदुपासकस्वरूपस्यापि ज्ञातव्यत्वमुक्तं – त्रयाणामेव चैवमुपन्यास: प्रश्नश्च (ब्र.सू.१.४.३) इति। वक्ष्यति चास्य प्रत्यगात्मन: परमात्मात्मकत्वेन अनुसन्धानम् आत्मेति तूपगच्छन्ति ग्राहयन्ति च (ब्र.सू.४.१.३) इति । (विचारौपयिकः संशयः) किमयं प्रत्यगात्मा ज्ञाता कर्ता भोक्तेहामुत्र सञ्चारक्षमोऽनुसन्धेय:, उत प्रजापतिवाक्योदितापहतपाप्मत्वादिस्वरूपः? ॥ (सहेतुकः पूर्वः पक्षः) किं युक्तम्? ज्ञातृत्वाद्याकारमात्र इत्येके […]
श्रीभाष्यम् 03-03-20 पूर्वविकल्पाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये पूर्वविकल्पाधिकरणम्॥२०॥ (अधिकरणार्थः – अग्निरहस्यब्राह्मणोक्तानां मनश्चिदादीनां विद्यामयक्रत्वनुप्रविष्टता) ३९८. पूर्वविकल्प: प्रकरणात्स्यात्क्रिया मानसवत् ॥ ३–३–४४ ॥ (विचारणीयविषयोपस्थापनम्) वाजसनेयके अग्निरहस्ये मनश्चितादयोऽग्नय: श्रूयन्ते – मनश्चितो वाक्चित: प्राणचित: चक्षुश्चित: श्रोत्रचित: कर्मचितोऽग्निचित: (अग्निरहस्यं) इति । (विचारौपयिकस्संशयः) तत्र संशय: – किमेते मनश्चितादयस्साम्पादिकत्वेन विद्यारूपा अग्नय: क्रियामयक्रत्वनुप्रवेशेन क्रियारूपा:, आहोस्विद्विद्यामयक्रत्वनुप्रवेशेन विद्यारूपा एव – इति विशये (पूर्वः पक्षः सूत्रत एव) क्रियारूपत्वं तावदाह – पूर्वविकल्प: – इत्यादिना। […]
श्रीभाष्यम् 03-03-19 लिङ्गभूयस्त्वाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये लिङ्गभूयस्त्वाधिकरणम्॥१९॥ (अधिकरणार्थः – तैत्तरीयकगतस्य सहस्रशीर्षकमित्यनुवाकस्य सर्ववेदान्तोदितपरविद्योपास्यविशेषनिर्धारणपरत्वम्, न तु दहरविद्यामात्रशेषत्वम्) ३९७. लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॥ ३–३–४३ ॥ (विचारणीयविषयनिर्देशः) तैत्तिरीया दहरविद्यानन्तरमधीयते सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम् । विश्वं नारायणं देवमक्षरं परमं प्रभुम् इत्यारभ्य सोऽक्षर: परमस्स्वराट् (तै.ना.१) इत्यन्तम्। (विचारौपयिकः संशयः) तत्र संशय:- किं पूर्वप्रकृतविद्यैकविद्यात्वेन तदुपास्यविशेषनिर्धारणमनेन क्रियते, उत सर्ववेदान्तोदितपरविद्योपास्यविशेषनिर्धारणम् – इति। (सहेतुकः पूर्वःपक्षः) किं युक्तम्? दहरविद्योपास्यविशेषनिर्धारणमिति। कुत:? प्रकरणात्। पूर्वस्मिन्ननुवाके दहरविद्या […]
श्रीभाष्यम् 03-03-18 प्रदानाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये प्रदानाधिकरणम् ॥१८॥ (अधिकरणार्थः – हविस्त्यागपार्थक्ये इन्द्रादीनामिव, प्रतिगुणचिन्तनं परमात्मचिन्तनावृत्तिः) ३९६. प्रदानवदेव तदुक्तम् ॥ ३–३–४२ ॥ (सि) (विचारणीयविषयनिर्देशः) दहरविद्यायां – तद्य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान् (छा.८.१.६) इति दहराकाशस्य परमात्मन उपासनमुक्त्वा एतांश्च सत्यान्कामान् (छां.८.१.६) इति गुणानामपि पृथगुपासनं विहितम् । (विचारौपयिकस्संशयः) तत्र संशय: – गुणचिन्तनेऽपि तत्तद्गुणविशिष्टतया दहरस्यात्मनश्चिन्तनमावर्तनीयम्, उत नेति। (पूर्वः पक्षः) दहराकाशस्यैव अपहतपाप्मत्वादीनां गुणित्वात्तस्य च सकृदेवानुसन्धातुं शक्यत्वाद्गुणार्थं तच्चिन्तनं नावर्तनीयम् […]
श्रीभाष्यम् 03-03-17 तन्निर्धारणानियमाधिकरणम्
श्री शारीरकमीमांसाभाष्ये तन्निर्धारणानियमाधिकरणम्॥१७॥ (अधिकरणार्थः – कर्माङ्गाश्रितोद्गीथोपासनादेः क्रतुषु उपादेयतानियमाभावः) ३९५. तन्निर्धारणानियमस्तद्दृष्टे: पृथग्घ्यप्रतिबन्ध: फलम् ॥ ३–३–४१ ॥ (एतदधिकरणीयः संशयगर्भः पूर्वः पक्षः) ओमित्येतदक्षरमुद्गीथमुपासीत (छां.१.१.१) इत्यादीनि कर्माङ्गाश्रयाण्युपासनानि कर्माङ्गभूतोद्गीथादिमुखेन जुह्वादिमुखेन पर्णतादिवत् कर्माङ्गत्वेन निरूढानुष्ठानानि इत्युद्गीथाद्युपासन-सम्बन्धिनो यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति (छा.१.१.१०) इति वर्तमाननिर्देशस्य पर्णतादिसम्बन्धपापश्लोकश्रवणवत्पृथक्फलत्वकल्पनायोगात् क्रतुषु नियमेनोपसंहार्याणीति ॥ (सूत्रारार्थतः सिद्धान्तप्रदर्शनम्) एवं प्राप्ते प्रचक्ष्महे – तन्निर्धारणानियम: – इति । निर्धारणं निश्चयेन […]
श्रीभाष्यम् 03-03-16 कामाद्यधिकरणम्
श्रीशारीरकमीमांसाभाष्ये कामाद्यधिकरणम्॥१६॥ (अधिकरणार्थः – छान्दोग्य-वाजसनेयकप्रतिपन्नयोर्दहरविद्ययोः रूपाभेदादभेदः) ३९२. कामादीतरत्र तत्र चायतनादिभ्य: ॥ ३–३–३८ ॥ (विचारणीयं विषयवाक्यम्) छान्दोग्ये श्रूयते – अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन् अन्तराकाशः तस्मिन् यदन्तस्तदन्वेष्टव्यम् (छा.८.१.१) इत्यादि; वाजसनेयके च स वा एष महानज आत्मा योऽयं विज्ञानमय: प्राणेषु य एषोऽन्तर्हृादय आकाशस्तस्मिञ्छेते सर्वस्य वशी सर्वस्येशान: (बृ।६-४-२२) इत्यादि। (विचारौपयिकः संशयः) तत्र संशय: – किमनयोर्विद्याभेद:, उत […]
श्रीभाष्यम् 03-03-15 अन्तरत्वाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये अन्तरत्वाधिकरणम्॥ १५ ॥ (अधिकरणार्थः – उषस्त-कहोलयोः प्रश्न-प्रतिवचनाभ्याम् अवगता विद्या एकैव, न भिन्ना) ३८९. अन्तरा भूतग्रामवत्स्वात्मनोऽन्यथा भेदानुपपत्तिरिति चेन्नोपदेशवत् ॥ ३–३–३५ ॥ (विचारणीयस्य विषयोपस्थापनम्) बृहदारण्यके उषस्तप्रश्न एवमाम्नायते यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तर: तं मे व्याचक्ष्व (बृ.५.४.१) इति । तस्य प्रतिवचनं य: प्राणेन प्राणिति स त आत्मा सर्वान्तरो योऽपानेनापानिति स त आत्मा इत्यादि । अतुष्टेन तेन पुन: पृष्ट […]