तत्त्वसारः
श्रीरस्तु श्रीमते रामानुजाय नमः श्रीवत्सकुलतिलकैः वरदाचार्यैः समनुगृहीतः तत्त्वसारः रम्यजामातृरूपेण योऽवतीर्णो यतीशिता। विना तस्य पदाब्जाते न मेऽस्ति शरणं क्वचित् ॥ वंदेऽहं वरदार्यं तं वत्साभिजनभूषणम् । भाष्यामृतप्रदानाद्यः संजीवयति मामपि ।। (मंगलाचरणम्) श्रीविष्णुचित्तपदपंकजसंगमाय चेतो मम स्पृहयते किमतः परेण । नो चेन्ममापि यतिशेखरभारतीनां भावः कथं भवितुमर्हति वाग्विधेयः ॥२॥ (स्वाहंकारखण्डनम्) क्व पथि विदुषामेषा प्रौढिः श्रियःप्रभुणा शपे मशकशकनं मन्ये मादृक्प्रभावनिदर्शनम् । […]