श्रीवेदान्तसार: Ady 02 Pada 02
श्रीवेदान्तसार: अथ द्वितीयाध्याये द्वितीय: पाद: २–२–१ १७५। रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्च – दार्वादेरचेतनस्य रथप्रासादादिनिर्माणे तदभिज्ञानधिष्ठितस्य रचनानुपपत्तेश्च तज्ज्ञाधिष्ठितस्य रचनाप्रवृत्तेश्च अनुमानगम्यं प्रधानमचेतनं प्राज्ञानधिष्ठितं न जगत्कारणम्॥१॥ १७६। पयोम्बुवच्चेत्तत्रापि – यथा पय: अम्बु च दध्यादिभावेऽनपेक्षं, तद्वत्प्रधानमपीतिचेत्, तत्राप्युक्त एव हेतु:, तस्यापि पक्षीकृतत्वात्॥२॥ १७७। व्यतिरेकानवस्थितेश्चानपेक्षत्वात् – प्राज्ञाधिष्ठितत्वानपेक्षत्वेन सर्वदा सृष्टिप्रसङ्गाच्च न प्रधानं कारणम्॥३॥ १७८। अन्यत्राभावाच्च न तृणादिवत् – क्षीरीभवद्धेनूपयुक्ततृणादिवत् प्रधानमपीति न युक्तं वक्तुम्, […]
श्रीवेदान्तसार: Ady 02 Pada 01
श्रीवेदान्तसार: ॥ अथ श्रीवेदान्तसारे द्वितीयाध्याये प्रथम: पाद: ॥ २–१–१ १३९। स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृतनवकाशदोषप्रसङ्गात् – उपबृंहणापेक्षे वेदान्तार्थनिर्णये सति, कपिलस्मृत्युपबृंहणेन वेदान्तार्थ: प्रधानकारणवाद इत्यनभ्युपगमे, कपिलस्मृतेरुपबृंहणानन्वयेनानवकाशप्रसक्तिरिति चेत्, न, अन्यासां वेदविरोधिनीनां बह्वीनां मन्वादिस्मृतीनां अनवकाशप्रसक्ते:। वेदस्योपबृंहणापेक्षत्वेऽपि अनन्यपराविरुद्धानेकस्मृतिषु सतीषु, विरुद्धार्थाया वेदोदितार्थविशदीकरणत्वाभावेन तस्या उपबृंहणत्वमन्याय्यमित्यर्थ: ॥ १॥ योगीन्द्रकपिलस्य तथाऽनुपलब्धे: कथं स्मृत्यन्तरं न्याय्यमिति चेत्, तत्राह – १४०। इतरेषां चानुलब्धे: – वेदार्थसाक्षात्कारचतुरमन्वादियोगीन्द्राणां कपिलदृष्टार्थानुपलब्धे: कपिलोपलब्धिर्भ्रम […]
श्रीवेदान्तसार: Ady 01 Pada 04
श्रीभगवद्रामानुजविरचित: श्रीवेदान्तसार: ॥ प्रथमाध्याये चतुर्थ: पाद:॥ १–४–१ ११०। आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च – एकेषां कठानां शाखायाम् आनुमानिकं प्रधानमपि, जगत्कारणत्वेन, महत: परमव्यक्तम् इत्युच्यत इति चेत्, न, पूर्वत्र आत्मानं रथिनं विद्धि इत्यादिषूपासनोपायेषु वशीकार्यत्वाय रथिरथादिरूपकविन्यस्तेषु शरीराख्यरूपकविन्यस्तस्यात्राव्यक्तशब्देन गृहीते:। इन्द्रियेभ्य: परा ह्यर्था: इत्यादिना हि वशीकार्यत्वेन हि परा उच्यन्ते तथा चोत्तरत्र श्रुतिरेव दर्शयति यच्छेद्वाङ्मनसी प्राज्ञ: इत्यादिना॥१॥ १११। सूक्ष्मं तु तदर्हात्वात् – […]
श्रीवेदान्तसार: Ady 01 Pada 03
श्रीभगवद्रामानुजविरचित: श्रीवेदान्तसार: अथ प्रथमाध्याये तृतीय: पाद: १-३-१ ६६। द्युभ्वाद्यायतनं स्वशब्दात् – यस्मिन्द्यौ: पृथिवी चान्तरिक्षम् इत्यादौ द्युपृथिव्यादीनामायतनम् – आधार: परमपुरुष:। तमेवैकं जानथात्मानम् इत्यात्मशब्दात्। निरुपाधिकात्मत्वं हि परमपुरुषस्यैव। अमृतस्यैषसेतुरिति तदेव द्रढयति। बहुधा जायमान: इति परत्वं न निवारयति, अजायमानो बहुधा विजायते इति कर्मभिरजायमानस्यैव आश्रितवात्सल्यात् छन्दतो जननं तस्य हि श्रूयते॥१॥ ६७। मुक्तोपसृप्यव्यपदेशाच्च – तदा विद्वान् पुण्यपापे विधूय निरञ्जन: परमं साम्यमुपैति […]
श्रीवेदान्तसार: Ady 01 Pada 02
श्रीभगवद्रामानुजविरचित: श्रीवेदान्तसार: अथ प्रथमाध्याये द्वितीय: पाद: १-२-१ ३३। सर्वत्र प्रसिद्धोपदेशात् – सर्वं खल्विदम् इति निर्दिष्टेन सामानाधिकरण्येन निर्दिष्टं ब्रह्म परमात्मा। कुत:? प्रसिद्धोपदेशात् – तज्जलानिति हेतुत: सर्वात्मकत्वोपदेशादित्यर्ध:। प्रसिद्धं हि हेतुतया व्यपदिश्यते। सकलोपनिषत्सु ब्रह्मैव हि जगज्जन्मलयजीवनहेतुतया प्रसिद्धम् यतो वा इमानि इत्यादिषु॥१॥ ३४। विवक्षितगुणोपपत्तेश्च – मनोमयत्वसत्यसङ्कल्पत्वादयो विवक्षितगुणा: ब्रह्मण्येवोपपद्यन्ते॥२॥ ३५। अनुपपत्तेस्तु न शारीर: – दु:खमिश्रपरिमितसुखलवभागिनि शारीरे त्वेषां गुणानामनुपपत्तेर्न शारीरोऽयम्॥३॥ ३६। कर्मकर्तृव्यपदेशाच्च […]
श्रीवेदान्तसार: Ady 01 Pada 01
श्रीभगवद्रामानुजविरचित: श्रीवेदान्तसार: प्रथमाध्याये प्रथम: पाद: समस्तचिदचिद्वस्तुशरीरायाखिलात्मने । श्रीमते निर्मलानन्दोदन्वते विष्णवे नम: ॥ परमपुरुषप्रसादात् वेदान्तसार उद्ध्रियते – १-१-१ १। अथातो ब्रह्मजिज्ञासा – अत्रायमथशब्द आनन्तर्ये वर्तते, अतश्शब्दशिरस्कत्वात्। अतश्शब्दश्च पूर्ववृत्तस्य हेतुभावे। पूर्ववृत्तं च कर्मज्ञानमिति विज्ञायते, आरिप्सितस्य ब्रह्मज्ञानस्य वेदार्थविचारैकदेशत्वात्। अधीतवेदस्य हि पुरुषस्य कर्मप्रतिपादनोपक्रमत्वाद्वेदानां कर्मविचार: प्रथमं कार्यं इति अथातो धर्मजिज्ञासा इत्युक्तम्। कर्मणां च प्रकृतिविकृतिरूपाणां धर्मार्थकामरूप- पुरुषार्थसाधनतानिश्चय: प्रभुत्वादार्त्विज्यम् इत्यन्तेन सूत्रकलापेन संकर्षेणेन […]