विषयवाक्यदीपिका अर्थान्तरत्वादिव्यपदेशाधिकरणम्

॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। अर्थान्तरत्वादिव्यपदेशाधिकरणम् सुषुप्त्युक्रांत्योर्भेदेन (ब्र.सू.1.3.43)न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च (ब्र.सू.1.4.10)संध्ये सृष्टिराह हि (ब्र.सू.3.2.1)प्रतिषेधादिति चेन्न शारीरात् (ब्र.सू.4.2.12)एतद्विषयवाक्यार्थनिर्णयाय बृहदारण्यकषष्ठाध्यायगतवाक्यान्यत्यंतोपयुक्तानि व्याख्यायंते ।।अस्तमित आदित्ये याज्ञवल्क्य चंद्रमस्यस्तमिते शांतेऽग्नौ शांतायां वाचि किंज्योतिरेवायं पुरुष इत्यात्मैवास्य ज्योतिर्भवतीत्यात्मनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति ।।स्वप्ने बाह्येंद्रियाणामुपरतत्वादादित्यादिप्रकाशकाभावाच्चात्मैव स्थितिगतिहेतुभूत प्रकाशको भवतीत्यर्थः ।आत्मैवास्यज्योतिरित्यत्रात्मशब्दनिर्दिश्यमानं पुरुषस्वरूपं किमिति पृच्छति ।कतम आत्मेति ।।हृत्कमलमध्यगतः प्राणशब्दितेंद्रियमध्यगः विज्ञानधर्मक […]

विषयवाक्यदीपिका अपशूद्राधिकरणम्

॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। अपशूद्राधिकरणम् शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि (ब्र.सू.1.3.33)छांदोग्ये चतुर्थाध्यायारम्भे ।।जानश्रुतिर्हि पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस ।।जनश्रुतस्या (तेर) पत्यं जानश्रुतिः । ह शब्दः प्रसिद्धौ । पुत्रसंज्ञस्य पुत्रःपौत्रः । तस्यापत्यं पौत्रायणः । श्रद्धापुरःसरं देयमस्य सः श्रद्धादेयः । अर्थिभ्यो बहुदातुं शीलमस्य स बहुदायी । बह्वस्य गेहेऽन्नं पक्तव्य स बहुपाक्यः आस।।स […]

विषयवाक्यदीपिका मध्वधिकरणम्

॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। मध्वधिकरणम् मध्वादिष्संभवादनधिकारंजैमिनिः (ब्र.सू.1.3.30)छान्दोग्ये तृतीयाध्यायारंभे मधुविद्या प्रस्तूयते ।।असौ वा आदित्यो देवमधु ।।वस्वादीनां देवानामामोदहेतुत्वान्मधु । अत्र मधुत्वदृष्टिः कर्तव्येत्यर्थः । मधुत्वोपयोगिनीं दृष्टिं संपादयति ।।तस्य द्यौरेव तिरश्चीनवँशः ।।तस्यऽऽदित्याख्यमधुनो द्युलोक एवाधारभूतस्तिर्यक्प्रसारितो वंशः ।।अंतरिक्षमपूपः ।।अंतरिक्षं मध्वपूपः । मध्वाश्रयापूपो हि तिरश्चीनवंशलग्नः सन् लंबते एवमंतरिक्षमपि द्युलोकलग्नं लंबत इव भातीत्यतोमध्वपूपत्वम् ।।मरीचयः पुत्राः ।।मरीचिशब्देन […]

विषयवाक्यदीपिका दहराधिकरणम्

॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। दहराधिकरणम् दहर उत्तरेभ्यः (ब्र.सू. 1.3.13)आकाशोऽर्थान्तरत्वादिव्यपदेशात् (ब्र.सू.1.3.42)न च कार्ये प्रत्यभिसंधिः (ब्र.सू.4.3.13)कृत्स्नभावात्तु गृहिणोपसंहारः (ब्र.सू.3.4.47)इत्यादिविषयवाक्यार्थज्ञानाय प्रायशश्छांन्दोग्याष्टमप्रपाठको व्याख्यायते ।अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म ।।विद्यांतरारम्भदर्शनार्थोऽयमथशब्दः । उपास्यतया सन्निहितस्य परब्रह्मणः स्थानतया नवद्वारवत्त्वादिना च पुरशब्दिते उपासकशरीरे पुण्डरीकाकारमल्पं हृदयाख्यं परस्य ब्रह्मणो वेश्म ।दहरोऽस्मिन्नंतराकाशस्तस्मिन्यदंतस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्य मिति ।अस्मिन्वेश्मनि दहरः सूक्ष्मः आकाशः य […]

विषयवाक्यदीपिका ईक्षतिकर्माधिकरणम्

॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। ईक्षतिकर्माधिकरणम् ईक्षतिकर्म व्यपदेशात् सः (ब्र.सू.1.3.12)प्रश्नोपनिषदि पंचमप्रश्ने ।अथ हैनं शैष्यं सत्यकामः प्रपच्छ ।।स्पष्टोऽर्थः ।।स यो ह वै तद्भगवन्मनुष्येषु प्रायणान्तमोंकारमभिध्यायीत कतमं वा व स तेन लोकं जयति ।।ह वा इति प्रसिद्ध्यर्थः । तदित्यव्ययं स य इत्येतदधिकारिसामान्यपरम् । अयमर्थः हे भगवन्पूजार्ह । योऽधिकारी मनुष्याणां मध्ये मरणान्तम् एतदोंकारमभिध्यायति […]

विषयवाक्यदीपिका अक्षराधिकरणम्

॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। अक्षराधिकरणम्   अक्षरमंबरांतधृतेः (ब्र.सू. 1.3.9)बृहदारण्यके पंचमाध्यायेऽष्टमे गार्गीब्राह्मणे ।।सा होवाच अहं वै वा याज्ञवल्क्य यथा काश्यो वा वैदेहो वा उग्रपुत्र उज्ज्यं धनुरधिज्यं कृत्वा द्वौ बाणवंतौ शरौ सपत्नातिव्याधिनौ हस्ते धृत्वोपोत्तिष्ठे देवमेव त्वां द्वाभ्यां प्रश्नाभ्यामुपोदस्थां तौ मे ब्रूहीति ।।काशीदेशभवो विदेहदेशभवो हि शूरवंश्यः उत्सृष्टज्यं धनुः पुनरधिज्यं कृत्वा द्वौ […]

विषयवाक्यदीपिका भूमाधिकरणम्

॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। भूमाधिकरणम् भूमा संप्रसादादध्युपदेशात् (ब्र.सू.1.3.7)छांदोग्ये । सप्तमाध्यायोपक्रमे भूमविद्या व्याख्यायते ।।अधीहि भगव इति होपससाद सनत्कुमारं नारदः ।।सनत्कुमारं नारदो विधिवदुपसन्नः तं ।।होवाच यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति ।।ज्ञातांशमुक्त्वा मत्समीप उपसीद तच्छ्रुत्वा अज्ञातांशं ते वदिष्यामीत्युक्तवानित्यर्थः ।।स होवाच ऋुग्वेदं भगवोऽध्येमि यजुर्वेदं सामवेदमाथर्वणं चतुर्थमितिहासं पुराणं पंचमं वेदानां वेदं पित्र्यं […]

विषयवाक्यदीपिका द्युभ्वाद्यधिकरणम्

॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। द्युभ्वाद्यधिकरणम् द्युभ्वाद्यायतनं स्वशब्दात् । (ब्र.सू.1.3.1) ॥मुण्डकोपनिषदि द्वितीयमुण्डके द्वितीयखण्डे ॥यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः ।तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ अमृतस्यैष सेतुः ॥ ५ ॥यस्मिन्नक्षरे द्युपृथिव्यन्तरिक्षमनःप्राणादिकं समवेतं, तमेकमेव स्वेतरसमस्तनियन्तृत्वेन व्यापकतयात्मानं जानीत; अनात्मविषया वाचः त्यजत । अमृतस्यैष सेतुः । नद्यादिषु सेतुर्हि कूलस्य प्रतिलम्भकः । […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.