विषयवाक्यदीपिका अर्थान्तरत्वादिव्यपदेशाधिकरणम्

॥ श्रीरस्तु ॥

॥ श्रीमते रामानुजाय नमः॥

।। विषयवाक्यदीपिका ।।

।।श्रीरङ्गरामानुजमुनिप्रणीता।।

अर्थान्तरत्वादिव्यपदेशाधिकरणम्

सुषुप्त्युक्रांत्योर्भेदेन (ब्र.सू.1.3.43)न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च (ब्र.सू.1.4.10)संध्ये सृष्टिराह हि (ब्र.सू.3.2.1)प्रतिषेधादिति चेन्न शारीरात् (ब्र.सू.4.2.12)एतद्विषयवाक्यार्थनिर्णयाय बृहदारण्यकषष्ठाध्यायगतवाक्यान्यत्यंतोपयुक्तानि व्याख्यायंते ।।अस्तमित आदित्ये याज्ञवल्क्य चंद्रमस्यस्तमिते शांतेऽग्नौ शांतायां वाचि किंज्योतिरेवायं पुरुष इत्यात्मैवास्य ज्योतिर्भवतीत्यात्मनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति ।।स्वप्ने बाह्येंद्रियाणामुपरतत्वादादित्यादिप्रकाशकाभावाच्चात्मैव स्थितिगतिहेतुभूत प्रकाशको भवतीत्यर्थः ।आत्मैवास्यज्योतिरित्यत्रात्मशब्दनिर्दिश्यमानं पुरुषस्वरूपं किमिति पृच्छति ।कतम आत्मेति ।।हृत्कमलमध्यगतः प्राणशब्दितेंद्रियमध्यगः विज्ञानधर्मक इत्युत्तरमाह ।।योऽयं विज्ञानमयः प्राणेषु हृद्यंतर्ज्योतिः पुरुषः ।।अत्र विज्ञानमय इति प्राचुर्यार्थे मयटाऽऽत्मनोज्ञानव्यतिरेक उक्तः । प्राणेष्विति सप्तमीनिर्देशादिंद्रियव्यतिरेकोऽपि सिद्धः । अत्र ज्योतिश्शब्दितात्मनो विज्ञानमयत्वोक्त्या धर्मभूता ज्ञानद्वारा भासकत्वमादित्यादीनामिव प्रभाद्वारा ज्योतिष्ट्वमिति भावः ।।स समानः सन्नुभौ लोकावनुसंचरति ध्यायतीव लेलायतीव ।।स जीवः अहंकारविमूढात्माकर्ताहमिति मन्यत “इत्युक्तरीत्या परायत्तकर्तृत्वेऽपि स्वातंत्र्य लक्षणकर्तृत्वाभिमानयुक्तः सन् लोकद्वयेऽपि संचरति । ध्यायतीव चलतीव । परतंत्रप्रभौ प्रभुरिवेत्युक्तिवत्परायत्तकर्तृत्वाश्रये ध्यायतीवेतीव शब्दप्रयोगे नानुपपत्तिः । ततश्चलोकद्वय संचारध्यानादेर्देहातिरेक उक्तो भवति ।। ननु स्वप्ने स्वयंज्योतिष्ट्वं कुतोऽभ्युपगंतव्यमिन्द्रियाणां प्रकाशकत्वादित्याशंक्याह ।।स यत्र प्रस्वपित्यस्य लोकस्य सर्वावतो मात्रामुपादाय स्वयं निहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपित्यत्रायं पुरुषः स्वयंज्योर्ति भवति ।।यदायंस्वप्नमनुभवति तदा सर्वावतः सर्ववतः भोग्यभोगोपकरणादिसर्वयुक्तस्य जगतो मात्रा मीयतेनेनेति मात्रा प्रकाशकेंद्रियवर्गः तमुपादाय स्वयमेव तमिंद्रियवर्गं निहत्य निश्चेष्टतामापाद्य निर्व्यापारं कारयित्वा स्वयं निर्माय जीवस्य स्वाप्नपदार्थस्रष्टृत्वमदृष्टद्वारा द्रष्टव्यम् परैरपि तथैवोक्तत्वात् । स्वेन भासेत्यस्यैव विवरणं स्वेन ज्योतिषेति । प्रस्वपितिस्वप्नमनुभवतीत्यर्थः । अत्रास्यां दशायां पुरुषः स्वयं ज्योतिर्भवति प्रकाशकान्तराभावादित्यर्थः ।यद्यपि स्वप्नपदार्थभानं धर्मभूतज्ञानेनैव नात्मज्योतिषा । तथाप्यादित्यादि प्रकाशकांतर स्थानाभिषिक्त आत्मैवेति भावः । यद्यपि स्वप्ने आदित्यादिज्योतिस्सृष्ट्यभ्युपगमे प्रकाशकांतरव्यतिरेको न वक्तुं शक्यः । तथापि लोकप्रसिद्धादित्यादिज्योतिरंतराभावाज्जाग्रदादिवैषम्यमस्तीति द्रष्टव्यम् । नन्वत्मनैवायं ज्योतिषास्ते कर्म कुरुते इत्यादिनोपपद्यते ।अर्थस्यैवाभावेनाऽऽसनकर्मकरणादीनामभावादित्याशंक्याह ।।न तत्र रथा न रथयोगा न पंथानो भवंत्यथ रथान्रथयोगान्पथः सृजते ।।युज्यंत इति योगाः। रथयोगा अश्वादयः । रथरथाश्वमार्गादयःजाग्रद्दशानुभवयोग्या न संति ।। अथ तु तत्तत्पुरुषत्तत्कालमात्रानुभाव्यानर्थान्परमात्मा सृजते ।न तत्रानंदा मुदः प्रमुदो भवंत्यथानंदान्मुदः प्रमुदः सृजते ।।अनुकूलदर्शनजा प्रीतिरानंदः । स्वकीयत्वबुद्धिजा प्रीतिर्मुत् । विनियोगजन्या प्रीतिः प्रमुत् ।।न तत्र वेशांताः पुष्करिण्यः स्त्रवंत्यो भवंत्यथ वेशांतान्पुष्करिण्यः स्त्रवंत्यः सृजते ।।वेशंताः पल्वलानि । वेशांता इति दीर्घश्छांदसः । पुष्करिण्यो वाप्यः । स्त्रवंत्यो नद्यः । पुष्करिणीः स्त्रवंतीः सृजत इत्यर्थः । अत्र “वा छंदसीति” पूर्वसवर्णदीर्घाभावः । ननु स्वप्नेदृग्यस्मिन्देशे यदा रथं पश्यति तदानीं तत्र स्थितोऽन्यस्तं न पश्यति तत्र तस्यान्यत्र नयनचिह्ना नि वा नाशचिह्नानि वा नोपलभ्यंते । अतःकथमीदृशीस्वप्नार्थसृष्टिरुपपद्यतामित्यत्राह ।।स हि कर्तेति ।।सकलप्रपंचनाटकसूत्रधारः सर्वेश्वरः खलु तत्र कर्ता स किं वा कर्तुं नशक्नुयादिति हि शब्दाभिप्रायः ।।तदेते श्लोका भवन्ति ।।सुप्तमधिकृत्यैते वक्ष्यमाण श्लोकाः प्रवृत्ता इत्यर्थः ।।स्वप्नेन शरीरमभिप्रहत्यासुप्तः सुप्तानभिचाकरीति ।शुक्रमादाय पुनरेति स्थानं हिरण्मयः पुरुष एक हग्ंसः ।।स्वप्नेनेतीत्थं भावे तृतीया । स्वप्नेनोपलक्षितस्सन् । शारीरमभिप्रहत्यशरीरीनष्टचेतामापाद्य असुप्तः अलुप्तप्रकाश एव सन् सुप्ताँल्लुप्तप्रकाशान्प्राणानभितश्चाकशीति ।”कशगति शब्दयो”रित्यस्माद्यङ् लुगंतादिदं रूपम् । पर्यटतीत्यर्थः । शुक्रं ज्योतिष्मत्प्रकाशकम् । मन आदींद्रियवर्गमादाय स्वप्नांते पुनः स्वस्थानमेति । हिरण्मयः प्रकाशमयः । एकहंसः एक एव हंति गच्छतीति एक हंसः ।।प्राणेन रक्षन्नवरं कुलायं बहिष्कुलायादपरश्चरित्वा ।स ईयते अमृतो यत्र कामं हिरण्मयः पुरुषः एकँ हसः ।।अवरं निकृष्टं स्थूलं शरीरं प्राणेन पंचवृत्तिप्राणेन रक्षन्प्राणस्यापि स्वप्ने जीवेन सह निर्गमे सद्योमरणमेव स्यात् । अतः प्राणेन शरीरं रक्षन्कुलायाज्जाग्रच्छरीराद् बहिर्निर्गत्य यत्र कामं काम्यत इति कामं यत्र भोग्यं तत्र सर्वत्र चरित्वा अमृतः अमरणधर्मा हिरण्मयः एकहंसः पुनरपिस्वस्थानमीयते गच्छतीत्यर्थः । यद्वा यत्र कामं तत्र ईयते गच्छतीत्यर्थः ।।स्वप्नांत उच्चावचमीयमानो रूपाणि देवः कुरुते बहूनि ।उतेव स्त्रीभिः सह मोदमानो जक्षदुतेवापि भयानि पश्यन् ।।स्वप्नांते स्वप्नमध्य इत्यर्थः । अंतश्शब्दो मध्यवचनः । उच्चावचं पुण्यपापलक्षणमृत्कुष्टापकृष्टं संगच्छमानो देवः जीव इत्यर्थः । बहूनि देवादीनि रूपाणि भजत इत्यर्थः । उत शब्दोप्यर्थः ।स्त्रीभिःसह मोदमान इव जक्षदिव । जक्षणं भक्षणं हसनं वा । जक्षभक्षहनयोरिति हि धातुः । भयानि बिभेत्येभ्य इति । व्याघ्रादीनि पश्यन्निवापि भवतीत्यर्थः ।।आराममस्य पश्यंति न तं पश्यति कश्चनेति ।।अस्य जीवस्याराममुपकरणभूतमुद्यानादिकं देहेंद्रियादिकंच सर्वेपि पश्यंति । तं देहेंद्रियादिविविक्तमंतर्बहिस्संचरंतमपि न पश्यंतीति लोकं प्रत्यनुक्रोशं दर्शयतिश्रुतिः । इतिर्मंत्रसमाप्तौ । लोकप्रसिद्धिरपि तथेत्याह ।।तं नायतं बोधयेदित्याहुर्दुर्भिषज्यं हास्मै भवति यमेष न प्रतिपद्यते ।।यत एव स्वप्ने इन्द्रियाण्युपहृत्य जीवो बहिर्निर्गच्छति । अत आयतं गाढं सुप्तम् । यम उपरमे निष्ठा । “अनुदात्तोपदेशे”त्यनुनासिकलोपः । तं न बाधयेदित्याहुः चिकित्सकाः । ते हि तत्र दोषं पश्यंति दुर्भिषंज्यं हास्मै भवति यमेष न प्रतिपद्यते । बहिर्निर्गत आत्मायमिंद्रियदेशं न प्रतिपद्यते । कदाचिद्व्यत्यासेनेंद्रियाणींद्रियांतरदेशे प्रवेशयेत् । तत्रांध्यबाधिर्यादिदोषप्राप्तौ दुर्भिषज्यं हास्मै भवति दुःखेन भिषक्कर्मास्मै दोषाय भवति । अयं दोषो दुर्विचिकित्स एव स्यादित्यर्थः ।।स वा एष एतस्मिन्स्वप्नांते रत्वा चरित्वा दृष्ट्वैवा पुण्यं पापंपुनः प्रतिन्यायं प्रतियोन्या द्रवति बुद्धांतायैव ।।स्वप्नांते स्वप्नस्थान इत्यर्थः । अन्तशब्दः स्थानवचनः । “अंतः समाप्तौ स्थाने च निर्णयेभ्यंतरेपि चेति नैघण्टुकाः” । बुद्धांतो बोधस्थानं जागरणमिति यावत् । स्वप्नस्थाने क्रीडित्वा चरित्वा पुण्यपापफलमनुभूय पश्चाद्यथान्यायं यथागतम् । अयनमायः गमनम् । योनिशब्दः स्वप्नस्थानाद्यथागतं जाग्रत्स्थानमागच्छतीत्यर्थः ।।तद्यथा महामत्स्य उभे कूले अनुसंचरति पूर्वं चापरं चएवमेवायं पुरुष एतावुभावंतावनुसंचरति स्वप्नांतं च बुद्धांतं च ।।कूलद्वयसंचारिमत्स्यवज्जाग्रत्स्वप्नस्थानसंचरणशीलो भवतीत्यर्थः । एवं स्थानद्वयसंचारं प्रदर्श्य सुषुप्तिदशां प्रकाशयति ।तद्यथास्मिन्नाकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रांतः संहत्य पक्षौ संलायायैव घ्रियते एवमेवायं पुरुष एतस्मा अंताय धावति यत्र सुप्तो न कंचन कामं कामयते न कंचन स्वप्नं पश्यति ।।यथा आकाशे श्येनो वा गरुडो वा विशेषेण विपरिपत्यपतनं कृत्वा श्रांतः सन्पक्षौ संहत्यलीयतेऽस्मिन्पक्षीनिलयः नीडः । समीचीननीडायैव घ्रियते अवविष्ठते । धृङ् अवस्थान इति धातुः । एवमेवायं पुरुषः बुद्धांतस्वप्नांतसंचरणश्रांतो यत्र स्थाने सुप्तः न कामाद्युपगतः स्वप्नांश्चान्यान्पदार्थांश्च न पश्यति तादृशाय पूर्वोक्तस्थानद्वयकालुष्यरहितः सुषुप्तिस्थानाय धावतीत्यर्थः । ननु क्वचित्स्वप्नादिदर्शनं क्वचित्तदभाव इत्यत्र किं विनिगमकमित्याशंकायां स्थानवैषम्यकृतमित्याह ।।ता वा अस्यै ता हिता नाम नाड्यो यथा केशः सहस्रधा भिन्न स्तावताणिम्ना तिष्ठंति शुक्लस्य नीलस्य पिंगलस्य हरितस्य लोहितस्य पूर्णाः अथ यत्रैनं घ्रंतीव जिनंतीव हस्तीव विच्छाययति गर्तमिव पतति ।।यत्र स्थितमेनं केचन घ्नंतीव जिनंतीव जयंतीव गजो विद्रावयतीव गर्तमिव पतननिमित्तं भाति ताः केशसहस्रांशसूक्ष्मा नाना रूपान्नरसपूर्णा हिता नामिका नाड््यो भवंतीत्यर्थः ।।यदेव जाग्रद्भयं पश्यति तदत्राविद्यया मन्यते ।।यद्यज्जाग्रदृशायां भयसाधनं पश्यति तत्सर्वमासु नाडीष्वविद्यया कर्मवशान्मन्यते प्रत्येतीत्यर्थः । हितानामकस्वप्नवहनाडीस्थितस्यकर्मसंबंधसत्त्वात् । भीषणस्वाप्नपदार्थप्रति भानं संभवतीति भावः ।।अथ यत्र देव इव राजेवाहमेवेदं सर्वोऽस्मीति मन्यते सोऽस्य परमो लोकः ।।स यथा कुमारो वा महाराजो वा महाब्राह्मणो वा अतिसीमानं दस्य गत्वा शयीतैवमेवैष एतच्छेते इति बालाकिब्राह्मणोक्तरीत्या यत्र स्थाने स्थितस्य देववद्राजवच्चानंदानुभवः स्वव्यतिरिक्तानुकूलप्रतिकूलवस्त्वनुपलम्भः सोऽस्य जीवस्य परमो लोकः मुख्याश्रयः । परत्मात्मेति भावः ।।तद्वा अस्यैतदतिच्छन्दा अपहतपाप्माभयं रूपम् ।।तदेतत् । अस्यातिच्छंदाः । छंदशब्द इच्छावाची । अतिच्छंदमभिलाषातिगम् । अपहतपाप्मपापप्रतिभटम् । अभयं प्रियंप्राप्यं रूपं परमात्मैवेत्यर्थः । ततः किमित्यत्राह ।।तद्यथा प्रियया स्त्रिया संपरिष्वक्तो न बाह्यं किंचन वेद नातरं एवमेवायं पुरुषः प्राज्ञेनात्मनासंपरिष्वक्तो न बाह्यं किंचन वेद नांतरम् ।।यथा प्रियस्त्रीपरिष्वक्तस्यांतरदुःखादिपदार्थज्ञानं बाह्यपदार्थज्ञानं वा नास्ति एवं परमप्रियेण प्राज्ञेन परमात्मना परिष्वक्तस्य बाह्याभ्यंतरज्ञानाभाव उपपद्यते । अत्र च परिष्वंगो नाम लय एव । “स्वाप्ययात्” (ब्र.सू.1.1.10) इति सूत्रे स्वमपीतो भवतीति भाष्यै वाक्यसमानार्थतयैतद्वाक्यस्योदाहृत्वात् । अथवा जाग्रत्स्वप्नभोगप्रदकर्म संबन्धविरोधि परिष्वंगः संबंधविशेषः सुषुप्तिमात्रकालवर्तीति द्रष्टव्यम् ।।तद्वा अस्यै तदाप्तकाममात्मकाममकामँ रूपं शोकांतरम् ।।तदेव प्राज्ञात्मलक्षणमवाप्तसमस्तकाममात्मव्यतिरिक्तकामनाशून्यम् शोकांतरं शोकबाह्यम् । अंतरशब्दो बहिर्योगवचनः । प्राप्यं रूपमित्यर्थः ।।अत्र पिताऽपिता भवति माताऽमाता ।।अत्र परमात्मनि सुषुप्तिस्थानेलीनस्य पित्रादयो न संति । तद्रूपस्य शरीरसंबंधघटककर्मसंबंधशून्यतया अशरीरस्य जनकाभावेन पित्रादेरभावादिति भावः ।।लोका अलोकाः ।।तस्याश्रयशून्यत्वादिति भावः ।।देवा अदेवाः ।।अनुग्राहकशून्यत्वादिति भावः ।।वेदा अवेदाः ।।अननुशासनीयस्वरूपत्वादिति भावः ।।अत्र स्तेनोऽस्तेनो भवति भ्रूणहाऽभ्रूणहा चंडालोऽचंडालः पौल्कसोऽ पौल्कसः श्रमणोऽश्रमणः तापसोऽतापसः ।।परिशुद्धात्मस्वरूपेस्ते यादिकर्तृत्वाद्यसंभवादितिभावः । अत्र हेतमाह ।।अनन्वागतं पुण्येनाननव्गतं पापेन ।।शरीरसंबंधघटकपुण्यपापासंस्पर्शनादिति भावः । ननु चरमदेहवियोगानंतरभावित्वात्सर्व कर्मप्रहाणस्य कथं सुषुप्तौ कर्मसंबंधाभाव इत्याशंक्याह ।।तीर्णो हि तदा सर्वांश्छोकान्हृदयस्य भवति ।।मनस्तापरूपफलाभावाद्विद्यमानानामपि कर्मणां फलप्रदानाभिमुख्याभावात् । कर्मणामसंबद्धप्रायत्वात् । शरीरसंबंधाभावेन तदनुबन्धिमातापित्रादयो न संतीत्यर्थः । ज्ञातृस्वरूपस्य सुषुप्तस्यात्मनो बाह्याभ्यंतरज्ञानाभावः किंनिबंधन इत्याशंक्याह ।।यद्वै तन्न पश्यति पश्यन्वै तत्र पश्यति न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते अविनाशित्वान्न तु तद्दितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत् ।।द्वैतं बाह्यमाभ्यंतरं वा स्वातिरिकं वस्तु सुषुप्तौ जीवो न पश्यतीति यत् । तत् पश्यन् वै न पश्यति । वै शब्द एवार्थः । पश्यतः दर्शनयोग्यज्ञानवत एव बाह्यांतरादर्शनमित्यर्थः । नन्वपश्यतः कथं पश्यत्त्वमित्यत्राह । नहि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते अविनाशित्वादिति ।ज्ञातुर्धर्मभूतज्ञानस्य नित्यत्वाद्विनाशो नास्तीत्यर्थः । तर्हि सुषुप्तौ कथमदर्शनमिति तत्राह । न तु तद्दितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येदिति । अयमर्थः । ज्ञानस्वरूपाभावानिबंधनो बाह्यांतरद्वितीयज्ञानाभावो न भवति । अपि तु ततो विभक्तस्य प्राज्ञात्मनः पृथक्सिद्धस्यान्यस्यबाह्यांतररूपद्वितीयवस्तुनोऽभावादेवानुकूलप्रतिकूलपदार्थादर्शनमित्यर्थः । नच पृथक् सिद्धपदार्थाभावस्य जाग्रत्स्वप्नयोरपि समत्वात् । तत्रैव सुषुप्तावप्यविद्यमानपृथक्सिद्ध पदार्थानुभवोऽस्त्विति शंक्यम् । तत्र कर्मरूपदोषवशात्पृथक्सिद्धपदार्थोपलंभसंभावत्सुषुप्तै कर्मदोषस्याकार्यकरत्वेनासंबद्धप्रायत्वस्योपपादितत्वाच्च । नच तर्ह्यापृथक्सिद्धतया ब्रह्मात्मकत्वेनैव विषयाणामुपलंभोऽस्त्विति शंक्यम् । एतं ब्रह्मलोकं न विंदत्यनृतेन हि प्रत्यूढा इति छान्दोग्योक्तरीत्या अनृतशब्दितकर्मविशेषेण जीवधर्मभूतज्ञानस्य तिरोहिततया ब्रह्मण उपलम्भासंभवेन ब्रह्मात्मकतयाप्युपलंभासंभवाद् ब्रह्मात्मकत्वाब्रह्मात्मकत्वोभयबहिर्भूत पदार्थस्याभावादिति भावः ।।सलिल एको द्रष्टाऽद्वैतो भवति एष ब्रह्मलोकः सम्राडिति हैनमनुशशास याज्ञवल्क्यः ।।यथा जले जलं प्रक्षिप्तमेकं भवत्येवं सलिलवत्स्वच्छस्वभावे परमात्मनि लीनो यं द्रष्टा जीवः प्राज्ञात्मपरिष्वंगवशेनैकीभूतः सन्नद्वैतो भवति । देवादिलक्षण भेदकाकार शून्योभवतीत्येष ब्रह्मलोक एष सुषुप्त्याधारभूतपरमात्मा ह सम्राडिति याज्ञवल्क्योऽनुशिष्ट वानित्यर्थः ।ननु कथं सुषुप्त्याधारस्य ब्रह्मलोकत्वं ब्रह्मलोको हि परमगतित्वादिना श्रूयत इत्यत्राह ।।एषास्य परमागतिः ।।जीवस्यार्चिरादिगत्या प्राप्यागतिरेषैव ।।एषास्य परमा संपत् ।।तत्त्वज्ञानादिना प्राप्यापि संपदेषैव ।।एषोऽस्य परमो लोकः ।।शाश्वतं भोगस्थानमप्येष एव ।।एषोऽस्य परम आनन्दः ।।निरतिशयानुकूलोप्यस्यायमेवेत्यर्थः । ननु स्वर्गादिषु भोगेष्वनुकूलेषु जाग्रत्सु कथमेतस्य परमानंदत्वमित्यत्राह ।।एतस्यैवानंदस्यान्यानि भूतानि मात्रामुपजीवंति ।।स्वर्गादिवैषयिकसुखानुभवितारः सर्वेऽप्येतदानंदसहस्रांशानुभवितार इत्याह । एतस्य परलोकसंचरणप्रकारमाह ।।तद्यथा नस्सुसमाहितमुत्सर्जद्यायादेवमेवायँ शारीर आत्मा प्राज्ञेनात्म नान्वारूढ उत्सर्जन्या (द्या) ति ।।यथा अनश्शकटं सुतरां समाहितं यात्रोपकरणसंभाराक्रांतं सत्पूर्वदेशमुत्सृज्य याति । एवमेव शकटस्थानीयो जीवः प्राज्ञेन परमात्मना सारथिस्थानीयेन संबन्धविशेषं प्राप्तः शरीरमुत्सृज्य याति । कदेत्यत्राह ।।यत्रैतदूर्ध्वोच्छ्वासि भवति ।।यदा एतच्छरीरमूर्ध्वोच्छ्वासि भवतीत्यर्थः ।।तद्यथा राजानं प्रयियासंतमुग्राः प्रत्येनसः सूतग्रामण्योऽभिसमायंत्येवमेवेममात्मानमंतकाले सर्वे प्राणा अभिसमायंति यत्रैतदूर्ध्वोच्छ्वासि भवति ।।यथा जिगमिषुं राजानं तदुपजीविनः सर्वे तदाज्ञामंतरेणाभिमुख्येनायांति । एवमेवेममात्मानं भोक्तारमूर्ध्वश्वासकाले सर्वे प्राणा आत्मनः समीपमायांतीत्यर्थः ।।स एतास्तेजोमात्रास्समभ्याददानो हृदयमेवान्ववक्रामति ।।स आत्मा तेजोमय्यो मात्रास्तेजोमात्राः प्रकाशकांशा इत्यर्थः । इंद्रियाणीति यावत् । ता एताः समभ््याददानः समिति स्वप्नापेक्षया वैषम्यमुच्यते । अस्त्येव स्वप्ने अभ्यादानं न तु सम्यक् । सवासनमभ्यादायेत्यर्थः । हृदयमेव पुंडरीकाकारमन्वाक्रामति अन्वागछति ।।तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुषो वा मूर्ध्रो वा अन्येभ्यो वा शरीरदेशेभ्यः ।।तस्य हैतस्य म्रियमाणस्य संबंधि यत् हृदयस्याग्रं नाडीमुखान्निर्गमनद्वारं प्रद्योतते उपसंहृतकरणतेजः प्रज्वलितं सत् प्रदीप्तं भवति । तत्प्रकाशितद्वारः सन्नेष आत्मा निष्क्रामति चक्षुरादिद्वारेभ्यः ।।तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामंतंं सर्वे प्राणा अनूक्रामन्ति ।।उक्रामंतमध्यक्षं जीवं मुख्यप्राणोऽनूक्रामति तं मुख्यप्राणं जीवं तदघीना इतरे प्राणा अनूत्क्रामंतीत्यर्थः ।।स विज्ञानो भवति स विज्ञानमेवान्ववक्रामति ।।तस्यांदशायमुत्क्रामन् जीवः यं यं वापि स्मरन्नित्युक्तन्यायेन प्राप्तव्ययोनिविषयक स्मृतिमान्भवतीत्यर्थः । तच्च ज्ञानं कर्माधीनंन तु पुरुषयत्नसाध्यम् । यं योगिनः प्राण वियोगकाले यत्नेन चित्ते विनिवेशयंतीत्युक्तरीत्या योगिनामेव हि चरमं ज्ञानं यत्नसाध्यम् । एवं सविज्ञानमेव पुरुष ंप्राणवर्गोऽनुगच्छतीत्यर्थः ।।तं विद्याकर्मणी समन्वारभेते पूर्वपज्ञा च ।।तं तादृशं च पुरुषं संसरंतं विद्याकर्म पूर्ववासना चानुवर्त्तते । नहि पूर्ववासनां विनाकश्चित्कर्त्तुं भोक्तुं वा प्रभवति । नह्यनभ्यस्ते विषये कौशलमिन्द्रियाणां भवति ।पूर्वानुभववासनयाप्रवृत्तानामिद्रियाणामिहजन्मन्यभ्यासमंतरेणैव कासुचित्क्रियासुचित्रकर्मादिलक्षणासु कौशलं दृश्यते ।केषांचिच्चात्यंतसौकर्ययुक्तास्वपि क्रियास्वकौशलं दृश्यते ।तदेतत्सर्वं पूर्ववासनोद्भवानुभवनिमित्तकम् । तस्माद्विद्या कर्मपूर्ववासना लक्षणमेतत्रियं शाकटिकसंभारस्थानीयं परलोकपाथेयमित्यर्थः ।।तद्यथा तृणजलूका तृणस्यांतं गत्वान्यमाक्रममाक्रम्यात्मानमुप सँहरत्येव मेवायमात्मेदँ शरीरं निहत्या विद्यां गमयित्वान्यमाक्रममाक्रम्यात्मानमुप सँहरति ।।यथा तृणजलूका तृणस्याग्रभागं गत्वान्यं तृणांतरलक्षणम् । आक्रम्यते इत्याक्रमः आश्रय इति यावत् । तमाश्रित्यात्मनोऽपरावयवमुपसंहरति । एवमेवायं संसरन् जीवः प्राक्तनं शरीरं निहत्य । तस्यैव विवरणम् । अविद्यां गमयित्वा निःसंबोधतामापाद्य । अन्यं शरीर लक्षणमा क्रममाक्रम्य स्वात्मानं पूर्वस्माच्छरीरादुपसंहरति । ननु देहांतरारंभे प्रागुपात्तमेवोपादानं स्वीकृत्य तदेवोपमृद्य स्वर्णकारवद्देहांतरं करोति । आहोस्विदपूर्वमेवोपादानद्रव्यं स्वीकरोति तत्राह ।।तद्यथा पेशस्कारी पेशसोमात्रामुपादायान्यन्नवतरं कल्याणतरँ रूपं कुरुते एवमेवायमात्मेदँ शरीरं निहत्याविद्यां गमयित्वान्यन्नवतरं कल्याणतरं रूपं कुरुते-पित्र्यं वा गांधर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वान्येषां वा भूतानाम् ।।पेशः सुवर्णं तत्करोतीति पेशस्कारी सुवर्णकारः पेशसः सुवर्णस्य मात्रामेकदेशमुपादाय यथान्यत्कल्याणतरं रूपं कुरुते । यद्वा पेशस्कारी कोशकारकृमिः स यथा पेशसः पट्टतंतोः मात्रामंशमुपादाय नवतरं कल्याणतरं जालं कुरुते । एवमेवायमात्मा इदं शरीरं निहत्यान्यद्रूपं कुरुते पित्र्यं वा गांधर्वं वा । पित्र्यं पितृभ्यो हितं पितृलोकोपभोगोपयोग्यमित्यर्थः । तथा गांधर्वं दैवं प्राजापत्यं ब्राह्मम् । गंधर्वादिलोकोपभोगयोग्यमित्यर्थः । अन्येषां वा भूतानां संबंधिशरीरं करोतीत्यर्थः । कर्तृत्वं चास्य कर्मद्वारकं द्रष्टव्यम् ।।प्राप्यांतं कर्म्मणस्तस्य यत्किंचेह करोत्ययम् ।तस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मणे ।। इति तु कामयमानः ।।इह लोके फलमुद्दिश्य यत्किंचित्कर्मकरोति तस्य कर्मणोंतं भोगेनावसानं प्राप्य कृत्स्नफलं भुक्त्वेति यावत् । तस्माल्लोकादस्मै लोकाय पुनरेति-किमर्थमित्यत्राह । कर्मण इति । कर्मकर्तु मित्यर्थः । इति तु कामयमानः । एवं कामयमानः संसरतीत्यर्थः । एवमविद्वद्विषयं संसारं सप्रपंचमुपवर्ण्य विदुषस्तद्वैलक्षण्यं दर्शयति ।।अथाकामयमानः योऽकामो निष्काम आप्तकाम आत्मकामः न तस्य प्राणा उत्क्रामंति ब्रह्मैव सन्ब्रह्माप्येति ।।अथ शब्द अर्थान्तरपरिग्रहे । अकामयमानः -वीतराग अत्र उच्यत इति शेषः । यः अकामः कामशून्यः । कथं कामशून्यतेत्यत्राह । निष्काम इति । निर्गताः कामाः यस्मात्स तथोक्तः। पूर्वस्थितानां कामानां निर्गतत्वादकामत्वमुपपद्यत इति भावः । उत्तरकामानां सत्त्वेनिवृत्तपूर्वकामस्यापि कथमकामत्वमित्यत्राह – आप्तकाम इति । आप्तः कामो येनसः तथोक्तः ।कथमाप्तकामत्वमित्यत्राह – आत्मकाम इति । आत्मैव कामो यस्य सःतथोक्तः । आत्मव्यति रिक्तस्य काम्यस्य वस्तुनः अभावात् आत्मरूपकाम्यस्य नित्यसिद्धत्वादाप्तकामत्वम् । अत एवाकामत्वं चेत्यर्थः । एतादृशस्तु ब्रह्मैव सन् ब्रह्माप्येतीति योजना । ब्रह्मैव सन् आविर्भूत गुणाष्टकरूपब्राह्मस्वरूपः सन् परब्रह्मणि लीनो भवति । अपि पूर्वस्य एतेर्लयार्थकत्वात् । लयो नाम तद्विविक्ततया दर्शनाभावः । अपहतपाप्मत्वादिब्राह्मरूपसाधर्म्येण परब्रह्म विविक्ततया दर्शनायोग्यो भवतीत्यर्थः ।नन्वेतन्न संभवति । ब्राह्मरूपाविर्भावो हि परब्रह्मो पासीनस्यैव भवति । परंज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत इति श्रवणात् । देशविशेष विशिष्टब्रह्मप्राप्तिश्चदेशविशेषेऽर्चिरादिमार्गगतिमंतरेण न संभवति । तद्गतिश्च भूतसूक्ष्मयुक्त प्राणादियुक्तस्यैव भवति ।तद्योगश्च कर्माधीनः । विधूतकर्मणश्चोत्क्रांतप्राणतया देहेंद्रियप्राण योगासंभवेन देशविशेषविशिष्टब्रह्मप्राप्त्यसंभवात् । ब्राह्म रूपाविर्भावाभावेन ब्रह्मैव सन् ब्रह्माप्येतीति नोपपद्यत इत्याशंक्याह ।।न तस्य प्राणा उत्क्रामंति ।।तस्मादकामत्वाद्युक्तगुणाज्जीवात्प्राणा नोत्क्रामंतीत्यर्थः । नटस्य श्रृणोतीतिवदपादानलक्षणसंबन्धे षष्ठी । अत एव समानप्रकरणे माध्यंदिनशाखायां न तस्मात्प्राणा उत्क्रामन्तीति स्पष्टं पंचमी श्रूयते ।तदेष श्लोको भवति ।।तत्तत्र ब्रह्मविदि विषये एष श्लोकः प्रवृत्तो भवतीत्यर्थः ।यदा सर्वे प्रमुच्यंते कामायेस्य हृदि श्रिताः ।अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुत इति ।।कामा दुर्विषयगोचरमनोरथाः। हृद्गता यदा शांता भवंति तदनंतरमेवोपासको मर्त्योऽमृतो भवति । विनष्टाश्लिष्टपूर्वोत्तराधो भवति । अत्र ब्रह्म समश्नुते । अत्रैवोपासनवेलायां ब्रह्मानुभवतीत्यर्थः ।।आत्मानं चेद्विजानीयादयमस्मीति पुरुषः ।किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत् ।।यद्ययं पुरुषः स्वात्मानमेतादृशोऽहमस्मि देहेंद्रियमनःप्राणधीविलक्षणः ब्रह्मात्मकोऽहमस्मीति विजानीयात्तदा देहेंद्रियोपभोग्येषु लोकादिषु स्पृहाया अभावात् स्वबंधुभूतभार्यापुत्रादेरप्यभावाच्च स्वस्य किं वा फलमिच्छन् वा स्वानुबंधिनः कस्याभीष्टायवा शरीरमनुसंज्वरेत् शरीरानुबंधिफलमनुसृत्य कुतस्तप्येतेत्यर्थः । अतोऽसौ कृतकृत्य एवेत्यर्थः ।पुनरपि स्तौति ।यस्यानुवित्तः प्रतिबुद्ध आत्मा अस्मिन्सदेहे गहने प्रविष्टः ।स विश्वकृत्स हि सर्वस्य कर्ता तस्य लोकस्स उ लोक एव ।।गहने विषये अनर्थसंकटे अस्मिन्देहे संप्रविष्टो मननाभ्यासेनावगतः-प्रतिबुद्धःध्यातश्चेत्यर्थः । स विश्वकृत्स एव लोककर्ता ईश्वरवद्वंद्य इति यावत् । तत्र हेतुमाह । स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव । लोक आश्रयभूतः सर्वस्य कर्ता य ईश्वरस्तस्यापि स ब्रह्मविल्लोक एव आधार एव । “ज्ञानीत्वात्मैमत”मिति भगवतैव गीतत्वाद्भगवतो ज्ञानिनं विना आत्मसत्ताया अभावादिति भावः । उशब्दः प्रसिद्धौ ।।इहैव संतोऽथ विद्मस्तद्वयं नचेदवेदिर्महती विनष्टिः ।।इहैव वर्तमाना वयं तद्ब्रह्म विद्मःजानीमः । नचेज्जानीमस्तर्ह्यवेदिः । वेदनं वेदिः । “इन्सर्वधा तुभ्य” इति इन्प्रत्ययः । नःस्वरार्थः । अवेदिरज्ञानम् । तदेव महती विनष्टिःमहाहानिरित्यर्थः । ज्ञानाज्ञानयोरेव महालाभहानित्वं दर्शयति ।।य एतद्विदुरमृतास्ते भवंत्यथेतरे दुःखमेवापियंति ।।स्पष्टोऽर्थः । तज्ज्ञानस्य महाफलत्वमेवाह ।।यदैतमनुपश्यत्यात्मानं देवमंजसा ।ईशानं भूतभव्यस्य न ततो विजुगुप्सते ।।यदा भूतभव्येशितारं द्योतमानं सर्वभूतात्मानं पश्यति तदा सर्वस्याप्येकात्मकत्वज्ञानात् सर्ववस्तुषु निन्दा न प्रवर्तत इत्यर्थः ।।यस्मादर्वाक् संवत्सरो अहोभिः परिवर्तते ।।यस्माद्भूतभव्येशानात्परमात्मनः अर्वाक् तदन्यविषय एवेति यावत् । कालात्मा संवत्सरः स्वावयवैरहोभिः परिवर्ततो परिच्छेदकत्वेन वर्तते । य आत्मा संवत्सरमासादि लक्षणकालपरिच्छेदातीत इत्यर्थः ।।तं देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम् ।।ज्योतिषां ज्योतिः प्रकाशकानां प्रकाशकम् । अमृतं कालापरिच्छिन्नम् । आयुःसर्वप्राणिप्राणनहेतुभूतम् । तं ह देवा उपासते । देवोपास्यत्वं तु तस्यैवेत्यर्थः । उक्तं च व्यासार्यैः ।”ज्योतिषि भावाच्च”(ब्र.सू.1.3.32) इति सूत्रे देवा एव ज्योतिरुपासते देवा ज्योतिरेवोपासत इति वावाक्यभंगी स्यात् । तत्र न प्रथमः कल्पो युज्यते । मनुष्याणामनधिकार प्रसंगात् । तस्माज्ज्योतिरेवोपास्यमित्यर्थः ।।यस्मिन् पंचपंचजना आकाशश्च प्रतिष्ठितः ।पंचजनसंज्ञाः पंच आकाशश्च यत्र प्रतिष्ठित इत्यर्थः । अत्राकाशशब्दो भूतांतरस्याप्युपलक्षकः । पूर्वस्मिन्मंत्रे ज्योतिषां ज्योतिरितिषष्ठ्यंतज्योतिः शब्दस्यार्थनिर्णायकसापेक्षत्वात् ।पंचजनशब्दस्याप्यर्थनिर्णायकांतरसापेक्षत्वात्पंचत्व संख्यान्वययोग्यानि ज्योतींषीन्द्रियाण्ये वेत्यवसीयंते । उक्तं च व्यासार्यैः । श्रुत्यैव पंच संख्ययाविशेषितत्वात् ।पंचसंख्यज्योतिरंतर प्रसिद्ध्यभावाच्च परिशेषेणोंद्रियत्वावगम इति ।।तमेव मन्य आत्मानं विद्वान् ब्रह्मामृतोऽमृतम् ।।तादृशमात्मानममृतं ब्रह्मेत्येवं विद्वानन्योप्यमृतो भवतीत्यर्थः । पंचजनशब्दनिर्दिष्टानि ज्योतींषि कानीत्यपेक्षायामाह ।।प्राणस्य प्राणमुत चक्षुषश्चक्षुः उत श्रोत्रस्य श्रोत्रम् ।मनसो ये मनो विदुस्ते निश्चिक्युः ब्रह्मपुराणमग्रयम् ।।प्राणशब्देन स्पर्शनेन्द्रियं गृह्यते । वाय्वाप्यायितत्वात् स्पर्शनेन्द्रियस्य । मुख्यप्राणस्य ज्योतिःशब्देन प्रदर्शनायोगात् । चक्षुषइति चक्षुरिंन्द्रियं गृह्यते । श्रोत्रस्येति श्रोत्रेंद्रियम् । मनस इति मनो गृह्यते । समानप्रकरणे माध्यंदिनशाखायां अन्नस्यान्नमिति पाठादनुक्तमन्यतो ग्राह्यमिति न्यायेन तदपि गृह्यते । सूत्रितं च “ज्योतिषैकेषामसत्यन्ने” (ब्र.सू.1.4.13) इति । अन्नशब्देन चान्नसंबंधिनोर्घ्राणरसनयोर्ग्रहणम् । अन्नेन घ्राणस्याप्यायितत्वलक्षणः संबन्धः । रसनस्यान्नभक्षकतया संबंध इति द्वयोरपि ग्रहणम् । एतत्सर्वं भाष्यश्रुतप्रकाशिकयोःस्पष्टम् । एतादृशं ये जानंति ते पुराणमग्न्यंपरं ब्रह्म निश्चिक्युः । निश्चितवंत इत्यर्थः । तज्ज्ञाने साधनमाह ।।मनसैवानुद्रष्टव्यम् ।।अनुपश्चात् श्रवणमननानंतरं शुद्धेन मनसैव दर्शनसमानाकारस्मृतिसंततिरूपं ध्यानं संपाद्यमित्यर्थः । एकस्यात्मनः पंचजनाकाशाद्याधारत्वं संभवतीति मन्यमानं प्रत्याह ।।नेह नानास्ति किंच न ।।इह द्रष्टव्ये ब्रह्मणि । नानाशब्दो भावप्रधानः । नानात्वमित्यर्थः । इह यस्मिन्पंचपंचजना इति पूर्वमंत्रनिर्दिष्ट आत्मनि किंचदिपि नानात्वं नास्ति भेदलेशोऽपि नास्तीत्यर्थः ।।मृत्योः समृत्युमाप्नोति य इह नानेव पश्यति ।।इव शब्दोऽल्पार्थः। इहात्मनि निखिलप्रपंचाधारत्वासंभवबुद्ध्याऽल्पमपि ना नात्वं यः पश्यति स संसारात्संसारमाप्नोति । अत्यंतं संसारमाप्नोतीत्यर्थः ।।एकधैवानुद्रष्टव्यम् एतदप्रमेयं ध्रुवम् ।।अप्रमेयमपरिच्छेद्यं सर्वभूतात्मभूतं ब्रह्म एकत्वेनैव द्रष्टव्यमित्यर्थः । व्यासार्यैस्तु । एकधैवानुद्रष्टव्यम् । केषांचित्स्वनिष्ठत्वं ब्रह्मान्यपरतंत्रत्वं वा न मंतव्यम् । अपि तु परमात्मपरतंत्रतयैकरूपमेव द्रष्टव्यमित्यर्थ इत्युक्तम् । नेह नानास्ति किंच नेत्यत्रापि अब्रह्मात्मकनानात्वं निषिद्ध्यत इत्यप्युक्तम् । तदप्यविरुद्धमेव । एकार्थपर्यव सायित्वाद्द्वयोरपीति द्रष्टव्यम् ।।विरजः पर आकाशादज आत्मा महान्ध्रुवः ।तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ।।विरजः रागादिदोषरहितः । आकाशादपि परः कारणभूतः । ध्रुवः स्थिरः । अनाशीत्यर्थः ।अजःउत्पत्तिरहितः । एवं भूतो महानात्मा । तादृशमात्मानं धीरः प्रज्ञाशाली विज्ञायश्रवणमननाभ्यां ज्ञात्वा प्रज्ञां निदिध्यासनं कुर्वीतेत्यर्थः । अत्र ब्राह्मणग्रहणं द्विजातेरुपलक्षणम् ।यद्वा ब्रह्माधीत इति ब्राह्मणः । अधीतवेद इत्यर्थः ।।नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि तदिति ।बहूञ्छब्दान्ब्रह्मगुणानुवर्णनरहितान्नानुध्यायात् न चिंतयेदित्यर्थः । तत्र प्रयोजनं ब्रह्मविदो नास्तीत्यत्र हेतुमाह तदिति । तत् अब्रह्मगुणवर्णनशब्दानुध्यानादिकं वाचो विग्लापन ंग्लानिसाधनं श्रमजनकमित्यर्थः । इतिर्मंत्रसमाप्तौ ।।स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोंतर्हृदय आकाशस्तस्मिञ्छेते ।।प्राङ्निर्द्दिष्टः अज आत्मा महान्ध्रुव इति योऽयं निर्दिष्ट आत्मा योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिरिति निर्दिष्टे जीवात्मनि शेते तदंतरात्मतया वर्तत इत्यर्थः । अत एवोत्तरत्रात्मन्येवात्मानं पश्यतीति वक्ष्यति । अत्र हृद्यंतरित्यस्य व्याख्यानं य एषोंऽतर्हृदय इति । ज्योतिरित्यस्य व्याख्यानमाकाश इति । ज्योतिराकाशशब्दयोः प्रकाशकत्वार्थकत्वात् । अतश्चात्राकाशशब्दो जीव पर एव । ननु “कामादीतरत्र तत्र चायतनादिभ्यः” (ब्र.सू.3.3.38) इत्यधिकरणे वाजसनेयके तु आकाशे शयानस्य वशित्वादिश्रवणात् परमात्मत्वे सति तदा धाराभिधायिन आकाशशब्दस्य तस्यांते सुषिरँ सूक्ष्म मिति हृदयांतर्गतस्य सुषिरशब्द वाच्याकाशस्याभिधायकत्वमवगम्यत इति भाष्ये श्रुतप्रकाशिकायाञ्चाकाशशब्दस्य भूताकाशपरत्वं समर्थितमिव प्रतीयते । अतस्तद्विरुद्धमिदमिति चेत् मैवम् ।दहरोऽस्मिन्नंतराकाश इति च्छांदोग्यगताकाशशब्दस्येवपरमात्मपरत्त्वं नास्तीत्यत्र तात्पर्यम् ।केचित्तु भाष्यानुरोधादंतर्हृदये यो भूताकाशस्तत्र विज्ञानमयः महानात्मा शेत इत्येवार्थः । अस्मिन्प्रकरणे प्राज्ञेनात्मना संपरिष्वक्तः प्राज्ञेनात्मनान्वारूढ इति सुषुप्त्युत्क्रांत्योर्जीव परमात्मभेद प्रतिपादनेन विज्ञानमयशब्दनिर्दिष्टस्य महतश्च परमात्मनः अभेदासंभवात् । विज्ञानमयशब्देन तच्छरीरकः परमात्मैवाभिधीयते । महद्भूतमनंतमपारं विज्ञानघन एवैभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यतीति मैत्रेयी ब्राह्मणोक्तरीत्या विज्ञानमयशब्दस्य”अवस्थितेरिति काशकृत्स्नः”(ब्र.सू.1.4.22) इति सूत्रोक्तन्यायेनांतर्यामिपरत्वमित्याहुः ।केचित्तु योऽयंविज्ञानमय इत्यत्र कतम आत्मा योऽयं विज्ञानमय इति पूर्वनिर्दिष्टजीवस्य प्रत्यभिज्ञावशेन ग्रहणं न संभवति । तस्यमहानज इति महत्त्वाद्यसंभवात् । अपि तु विज्ञानमय इति साक्षादेव परमात्मनो निर्देश इत्याहुः ।।तमेव मुमुक्षूपास्यं विशिनष्टि ।।सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः ।।सर्वस्य ब्रह्मरुद्रादेर्वशी सर्वो यस्य वशे वर्तते । उक्तं च एतस्य वा अक्षरस्य प्रशासन इति । अतश्च प्रशासनेन धारकत्वलक्षणमात्मत्वमुक्तं भवति । सर्वस्येशान इत्यनेन नियंतृत्वलक्षणमात्मत्वम् । सर्वस्याधिपतिरिति शेषित्वलक्षणमात्मत्वमुक्तमिति द्रष्टव्यम् । इदं च च्छांदोग्यदहरविद्यावाक्यप्रतिपन्नसत्यकामत्वादीनामप्युपलक्षणम् । उक्तं च भाष्ये वशित्वादयश्च वाजसनेयके श्रुताः छांदोग्यश्रुतस्य गुणाष्टकान्यतमभूतस्य सत्यसंकल्पत्वस्य विशेषा एवेति सत्यसंकल्पत्वसहचारिणां सत्यकामत्वादीनामपहतपाप्मत्वपर्यंतानां सद्भावमवगमयंतीति ।।स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान् ।।साध्वसाधुकर्मकृतोत्कर्षापकर्षशून्यइत्यर्थः ।।एष सर्वेश्वर एष भूताधिपतिरेषभूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाय ।।सर्वेश्वरःनियंता अधिपतिःशेषी भूतपालःरक्षकः एषां सर्वेषां लोकानामसांकर्यायधारकः ।सेतुरप्ययमेव । अनेन हीश्वरेण सेतुना अविधृता हि लोकाः निर्मर्यादा भवेयुरिति भावः । अत्र प्रकरणोपक्रमे आत्मैवेदमग्रआसीत्पुरुषविध इति देवताविशेषस्य नारायणस्यैव प्रस्तुतत्वात्तस्यैव सर्वेश्वरत्वादिकथनाद्देवतांतराणां नात्रावकाश इति द्रष्टव्यम् ।।तमेतं वेदानुवचनेन ब्राह्मणा विविदिषंति यज्ञेन दानेन तपसाऽनाशकेन ।।ईदृशं परमात्मानं वेदाध्ययनेन यज्ञेन दानेननशनलक्षणेन तपसा च ज्ञातुमिच्छंति । आशः अशनं भावे घञ् । अनाशःअनशनं स्वार्थे कः । तच्चानशनं कामानशनात्मकं न तु सर्वात्मनानशनं देहपातप्रसंगात् । यद्वा न विद्यते आशा यस्य तदनाशम् । स्वार्थे क प्रत्ययः फलाभिसंधिविरहितेनेति यावत् । अश्वेन जिगमिषत्यसिना जिघांसतीत्यादावश्वादेः सन्प्रत्ययप्रकृत्यर्थ भूतगमनादिसाधनत्वप्रतिपादनदर्शनात् । इहापि वेदनसाधनत्वमेव प्रतिपाद्यते । नतु विविदिषासाधनत्वम् । यद्यपि प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्य प्राधान्यमित्युत्सर्गः। तथाप्यश्वेन जिगमिषतीत्यादौ सन्नंत प्रयोगस्थाने प्रकृत्यर्थप्राधान्यस्यैव व्युत्पत्तिसिद्धत्वादत्रापि प्रकृत्यर्थीभूतवेदनासाधनत्वमेव वेदानु वचनादीनां तृतीयया प्रतिपाद्यत इति द्रष्टव्यम् ।।एतमेव विदित्वा मुनिर्भवति ।।एतमेवात्मानं विदित्वा मुनिर्मननशीलःयोगी भवति । नान्यमित्यर्थः ।।एतमेव प्रव्राजिनो लोकमिच्छंतः प्रव्रजंति ।।लोक्यत इति लोकः । एतमेव लोकं परमात्मानमिच्छंतः संन्यासिनस्संन्यस्यंतीत्यर्थः । एतमेवेत्यवधारणाल्लोकांतरेप्सूनां पारिव्राज्ये नाधिकार इति गम्यते । नहि गंगाद्वारं प्रतिपित्सुः काशीवासी पूर्वाभिमुखो याति ।।एतद्धस्मवै तत्पूर्वे विद्वांसः प्रजां न कामयंते किं प्रजया करिष्यामो येषां नोऽयमात्मा ।।हस्म वै प्रसिद्धौ । एतादृशब्रह्मविदः पूर्वे प्रजां न कामयंते किं प्रजया करिष्यामः । प्रजासाध्योऽयंलोकोऽप्यस्माकं परमात्मैव । एतल्लोकसाध्यस्य सुखानुभवस्य परमात्मानु भवांबुधिलवकणिकायमानत्वात् । तादृशे परमात्मनि लब्धे एतल्लोकरूपक्षुद्रफलसाधनभूतया प्रजया किंकरिष्याम इति पूर्वे नाकामयंतेत्यर्थः ।।ते हस्म पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षां चरंति या ह्येव पुत्रेषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणा उभे ह्येते एषणे एव भवतः ।।इदं च कहोलब्राह्मणे व्याख्यातम् । स एष नेतिनेतीत्यात्मा अगृह्यो न हि गृह्यते अशीर्यो हि न शीर्यते असंगो न हि सज्जते असितो न व्यथते न रिष्यति ।।एतदपि प्राग्वयाकृतम् ।।एतमुहै वैतेन तरत इत्यतः पापमकरवम् । इत्यतः कल्याणमकरवमिति ।।अतो देहयात्रादिलक्षणाद्धेतोः पापमकार्षं पुण्यमकार्षमिति द्वेचिंते एतं ब्रह्मविदं न तरतः न प्राप्तुत इत्यर्थः । तत्र हेतुमाह ।।इहै व एते तरति नैनं कृताकृते तपतः ।।यस्माद्वेतोः अस्मिन्नेव लोके वसन्पुण्यपापांचतीर्णवान् । तत्र हेतुः नैनं कृताकृते तपतः ।एनं हि ब्रह्मविदं कृताकृते सुकृतदुष्कृते फलसंबंधिनं कर्तुं न प्रभवतः । एवंविदि पापंकर्म नश्लिष्यत इत्यश्लेषश्रवणादिति भावः ।।तदेतदृचाभ्युक्तम् ।।तदेतत्पुण्यपापसंतरणमभिमुखीकृत्य ऋुचोक्तमित्यर्थः । तामेवर्चं पठति ।।एष नित्यो महिमा ब्राह्मणस्य न वर्धते कर्मणा नो कनीयान् ।तस्यै व स्यात् पदवित्तं विदित्वा न लिप्यते कर्मणा पापकेनेति ।।ब्रह्मविदः एष महिमा स नित्यः । ब्रह्मज्ञानानंतरं यावदात्मभावितयानुवर्तत इत्यर्थः । कोऽसौ महिमेत्यत्राह । न वर्द्धते कर्मणा नो कनीयान् । तस्यैव स्यात्पदविदिति । तस्य ब्रह्मणः पदवित् । पद्यत इति पदं स्वरूपम् । ब्रह्मस्वरूपविदिति यावत् । सःपुण्यपापकृतलक्षणकर्म कृतोत्कर्षापकर्षशून्यो भवति । एष महिमा ब्रह्मविद इत्यर्थः । महिमज्ञानस्य फलमाह ।।तं विदित्वा न लिप्यते कर्मणा पापकेन ।।तं ब्रह्मविन्महिमानं विदित्वा पापकेन कर्मणा न लिप्यते इत्यर्थः ।।तस्मादेवं विच्छांतो दांत उपरतस्तितिक्षुः समाहितो भूत्वा आत्मन्येवात्मानं पश्यति ।।सर्वात्मानं पश्यति य एवं वित् शास्त्रजन्यज्ञानवान् । शमःअतरिंद्रियनियमनरूपः । दमः बहिरिंद्रियनियमनरूपः । उपरतिःनिषिद्धकाम्यादिषु कर्मसूपरतिः । तितिक्षा क्षमा । समाहितः समाहितचित्त इत्यर्थः । एवंरूपः सन्नात्मनि जीवात्मनि परमात्मानं तदंतर्यामिणं पश्येदित्यर्थः । भाष्यादिषु कोशेष्वात्मन्येवात्मानं पश्येदिति पाठो दृश्यते । अतः पाठद्वैविध्यमत्र द्रष्टव्यम् ।। किंच-सर्वमात्मानं पश्यति ।।आत्मानं परमात्मानं सर्वशरीरकं च पश्येदित्यर्थः ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.