विषयवाक्यदीपिका वाक्यान्वयाधिकरणम्

॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। वाक्यान्वयाधिकरणम् वाक्यान्वयात् ।1।4।19।।बृहदारण्यके चतुर्थे षष्ठे च मैत्रेयीब्राह्मणं किंचिद्भेदभिन्नमाम्नातम् । तत्र चतुर्थेमैत्रेयी ब्राह्मणं व्याख्यायते ।।मैत्रेयीति होवाच याज्ञवल्क्यः ।।मित्रायाः अपत्यं मैत्रेयी तां मैत्रेयीत्यामंत्र्याह ।।उद्यास्यन्वाअहमस्मात्स्थानादस्मि हंत तेऽनया कात्यायन्यांतं करवाणीति ।।मैत्रेयि । अहमस्मात्स्थानात् गार्हस्थ्यलक्षणादाश्रमादुद्यास्यन्नस्मि ऊर्ध्वं गंतु मिच्छन्नस्मि । हंत । तव अनया कात्यायन्या सह अंतं युवयोः कलहशांतये द्रव्यविभागनिर्णयं करवाणीति […]

विषयवाक्यदीपिका जगद्वाचित्वाधिकरणम्

॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। जगद्वाचित्वाधिकरणम् जगद्वाचित्वात् (ब्र.सू.1.4.16)ऋुग्वेदांतर्गतकौषीतकि (की) ब्राह्मणोपनिषदि चतुर्थाध्याये ।।गार्ग्यो ह वै बालाकिरनूचानः सं(सु) स्पष्ट आस ।।बलाकस्यापत्यं बालाकिः गोत्रतो गार्ग्यः । अनूचानः अं (सां) गाध्यायी अं (सां) गाध्याय्यनूचान इति स्मृतेः । संस्पष्टःसम्यग् विद्यया ख्यातः । एवंभूतः सन्नास बभूव ।।स होवासोशीनरेषु सत्त्वमत्स्येषु कुरुपांचालेषु काशीविदेहेष्विति ।।स बालाकिः उशीनरेषु सत्त्वप्रचुरेषु […]

विषयवाक्यदीपिका कारणत्वाधिकरणम्

॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। कारणत्वाधिकरणम् कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः (ब्र.सू.1.4.14)बृहदारण्यके तृतीयाध्याये चतुर्थब्राह्मणे ।।तध्देदं तर्ह्यव्याकृतमासीत् तन्नामरूपाभ्यामेव व्याक्रियते ।।ह शब्दो वृत्तार्थस्मरणे । तदिदं मिथुनादिलक्षणं जगत्तर्हि तदा सृष्टेः प्रागव्याकृतमासीद व्यक्तमासीत् । अव्यक्तशरीरकं ब्रह्मासीदित्यर्थः । नामरूपाभ्यां न व्याकृतमितिव्युत्पत्त्याऽव्याकृतशब्दस्याव्यक्तवचनत्वात् । अव्यक्तत्वं च नामरूपविशिष्टतयाऽनभिव्यक्तत्वम् ।अव्याकृतशब्दस्य तच्छरीरकब्रह्मपरत्वे युक्तिः समनंतरमेव स्पष्टयिष्यते । तत् अव्याकृतशरीरकं ब्रह्म । नामरूपाभ्यमितीत्थंभावे तृतीया […]

विषयवाक्यदीपिका चमसाधिकरणं

॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। चमसाधिकरणं चमसवदविशेषात् (ब्र.सू.1.4.8)अथमंत्रिकोपनिषत्”विकारजननीमज्ञामष्टरूपामजांघ्रुवाम् ।ध्यायतेऽध्यासिता तेन तन्यते प्रेर्यते पुनः ।।सूयते पुरुषार्थं च तेनैवाधिष्ठिता जगत् ।गौरनाद्यंतवती सा जनित्री भूतभाविनी ।।सितासिता च रक्ता च सर्वकामदुधा विभोः ।पिंबत्येनामविषमामविज्ञाताः कुमारकाः ।।सर्वसाधारणीं दोग्घ्रीं पीड्यमानां तु यज्वभिः ।एकस्तु पिबते देवः स्वच्छंदोऽत्रवशानुगाम् ।।ध्यानक्रियाभ्यां सततं भुङ्क्तेऽसौ प्रसभं विभुः ।चतुर्विंशतिसंख्याकमव्यक्तं व्यक्तमुच्यते ।।” इति ।।विकारजननीमित्यादि […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.