विषयवाक्यदीपिका कारणत्वाधिकरणम्

॥ श्रीरस्तु ॥

॥ श्रीमते रामानुजाय नमः॥

।। विषयवाक्यदीपिका ।।

।।श्रीरङ्गरामानुजमुनिप्रणीता।।

कारणत्वाधिकरणम्

कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः (ब्र.सू.1.4.14)बृहदारण्यके तृतीयाध्याये चतुर्थब्राह्मणे ।।तध्देदं तर्ह्यव्याकृतमासीत् तन्नामरूपाभ्यामेव व्याक्रियते ।।ह शब्दो वृत्तार्थस्मरणे । तदिदं मिथुनादिलक्षणं जगत्तर्हि तदा सृष्टेः प्रागव्याकृतमासीद व्यक्तमासीत् । अव्यक्तशरीरकं ब्रह्मासीदित्यर्थः । नामरूपाभ्यां न व्याकृतमितिव्युत्पत्त्याऽव्याकृतशब्दस्याव्यक्तवचनत्वात् । अव्यक्तत्वं च नामरूपविशिष्टतयाऽनभिव्यक्तत्वम् ।अव्याकृतशब्दस्य तच्छरीरकब्रह्मपरत्वे युक्तिः समनंतरमेव स्पष्टयिष्यते । तत् अव्याकृतशरीरकं ब्रह्म । नामरूपाभ्यमितीत्थंभावे तृतीया । नामरूपवत्तया व्याकृतमासीत् । व्याङ्भ््यामुपसर्गाभ्यां विविच्यसमन्तात्कृतमासीदित्यर्थः । तदेव दर्शयति ।।असौ नामा यमिदं रूप इति ।।इति।।देवमनुष्यादिनामाकरशिरश्चरणादिरूपवान् इत्येवं व्याक्रियत इत्यर्थः ।।तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियतेऽसौनामायमिदँ रूपइति ।।अनेन वाक्येन सृष्ट्यादिकालिकेऽप्रत्यक्षेऽव्याकृतनामरूपव्याकरणसुग्रहत्वाय निदर्शनमुच्यते । तत् पूर्वं तथा नामरूपाभ्यां व्याकरणाद्धेतोः । एतर्ह्यपि इदानीमपि । इदमुत्पद्यमानं चराचरव्यक्तिजातम् । इदं रूपोऽयम् एतादृशसंस्थानवानयम् असौ नामा देवदत्तयज्ञदत्तनामवानिति नामरूपाभ्यामेव व्याक्रियतो इत्थमेवादावपि नामरूपाभ्यां व्याकरणमवधेयमित्यर्थः । उभयत्र असौ नामेति च्छांदसोऽलुक् । अदोनामेति वक्तव्ये असौ नामेति लिंगव्यत्ययः छांदसः । ततश्च नामरूपवत्त्वमव्याकृतशब्दितस्य ब्रह्मणः सिद्धम् । अतः सर्वाणि नामानि तत्प्रवृत्तिनिमित्तभूतानि च रूपाणि तदीयान्येव । अत इदमादिशब्दैरपि तस्यैव निर्देशसंभवात्पूर्वत्रात्मैवेदमग्र आसीदित्यभेदनिर्देशे नानुपपत्तिरिति भावः ।नामरूपाभ्यामेवेत्यत्रैवकारो भिन्नक्रमः । तन्नामरूपाभ्यां स्वयमेव व्यक्रियत इत्यर्थः । व्याक्रियते इत्यत्र कर्मकर्त्तरि लकारः । कर्त्रंतराक्षेपे गौरवात्तदात्मानं स्वयमकुरुतेत्यनेनैकार्थ्यात् । उक्तं च भगवता भाष्यकृता तदेवाविभक्तनाम रूपं ब्रह्म सर्वज्ञं सत्यसंकल्पं स्वेनैव विभक्तनामरूपतया स्वयमेव व्याक्रियत इत्युच्यत इति । नन्वव्याकृतमासीदित्यत्र क्तप्रत्यायांतस्य कर्मार्थकत्वमेववक्तव्यं न तु कर्मकर्त्रर्थकत्वम् । न च कर्मकर्तर्यपि कर्मवद्भावेन क्तप्रत्ययसिद्धिरस्त्विति वाच्यम् ।लांतस्य यः कर्मणा तुल्यक्रियः कर्ता तस्यैव कर्मवद्भावविधानात् । कृत्यक्तखलर्थेषु कर्मवद्भावाभावादवश्यं कर्मण्येव क्तो वक्तव्यः । ततश्च तदवैरूप्याय व्याक्रियते इत्यत्रापि कर्मण्येव लकारोऽस्त्विति चेन्न । एवकारेण कर्त्रंतरव्यवच्छेदात्कर्त्रंतराक्षेपे गौरवाच्च व्याक्रियत इति लकारस्य कर्मकर्तर्येवाभ्युपगंतव्यत्वाद्वैरूप्यस्यापि सोढव्यत्वात् । नन्वात्मनः कथंदेवमनुष्यादिनामरूपवत्त्वं देवमनुष्यादिशरीरे तस्यावर्तमानत्वादितीमामाशंकां व्यावर्तयति ।।स एष इह प्रविष्ट आनखाग्रेम्यः ।।अंतर्यामिरूपेणेति शेषः । तत्र दृष्टांतमाह ।।यथा क्षुरः क्षुरधानेऽवहितः स्यात् विश्वंभरो वा विश्वंभरकुलाये ।।क्षुरो धीयतेस्मिन्निति क्षुरधानं क्षुरकोशः । तस्मिन्यथा क्षुरः अवहितःप्रविष्टः । विश्वं बिभर्ति वैश्वानराग्न्यादिरूपेणेति विश्वंभरोऽग्निः । तस्य कुलाये नीडे दारुणीति यावत् ।।तन्न पश्यत्यकृत्स्नो हि सः ।।यस्तिलतैलवत्सर्वस्वरूपव्याप्तं परमात्मानं न पश्यति सः अत्स्नः अपूर्णस्वरूपः । असत्कल्प इति यावत् । परमात्मन एव सर्वनामरूपवत्त्वमुपपादयति ।।प्राणन्नेव प्राणनामा भवति वदन्वाक् पश्यं श्चक्षुः श्रृण्वन् छ्रोत्रं मन्वानो मनः तान्यस्यैतानि कर्माणि नामान्येव ।।प्राणनरूपक्रियां कुर्वन् प्राणनामा भवति । चष्ट इति हिचक्षुः । श्रृण्वन्सञ्छ्रोत्रं श्रृणोतीति हि श्रोत्रम् । मनुत इति मनः । तान्येतानि प्राणादीनि नामानि पाचकलावकादिवत् कर्मनामान्येव । अतः सर्वनामरूपा श्रयत्वं परमात्मनोऽस्तीति भावः । अत्र प्राणनादिकरणेषु प्राणादिषु कर्तृत्वोपचारः प्राधान्यादवगंतव्यः ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.