भगवद्भागवत आचार्य जन्मदिनस्तोत्रम्
SRIVAISHNAVA GURUPARAMPARA भगवद्भागवत आचार्य जन्मदिनस्तोत्रम् श्रीमज्जन्मदिनश्लोकाः यावल्लब्धास्तु संग्रहे। भगवद्–भागवताचार्य–कृपया तेऽत्र दर्शिताः॥ ***** १ श्रीरङ्गमङ्गळमणिम्, करुणानिवासं, २श्रीवेङ्कटाद्रि–शिखरालय–काळमेघम्। ३ श्रीहस्तिशैल–शिखरोज्ज्वल–पारिजातं, ४ श्रीशं नमामि शिरसा, ६यदुशैलदीपम्॥ – भगवद्रामानुजस्य भगवद्–अधिकरणम् ; अर्चा–प्रकरणम् १. पेरिय–पेरुमाळ्–मूलमूर्तिः–श्रीरङ्गनाथः–पंगुनि रोहिणी श्रीरङ्गमंगळमणिः सर्वबन्धविनिर्मोक्षचरमश्लोकोपदेशकः (न्) तपस्य-मासि रोहिण्यां तटे सह्यभुवस् स्थिरे। श्रीरङ्गशायिनं वन्दे सेवितं सर्व-देशिकैः। (सूरिभिः) २. पेरियपिराट्टियार् श्रीरङ्गनाच्चियार् मूलमूर्तिः, […]