महाप्रस्थानिकपर्वम् अध्यायः 01-03
श्रीः श्रीमहाभारतम् ||१७ महाप्रस्थानिकपर्वम् || 001-अध्यायः–महाप्रस्थानिकपर्व पाण्डवप्रव्रजनम् जनमेजय उवाच|| एवं वृष्ण्यन्धककुले श्रुत्वा मौसलमाहवम् | पाण्डवाः किमकुर्वन्त तथा कृष्णे दिवं गते ||१|| वैशम्पायन उवाच|| श्रुत्वैव कौरवो राजा वृष्णीनां कदनं महत् | प्रस्थाने मतिमाधाय वाक्यमर्जुनमब्रवीत् ||२|| कालः पचति भूतानि सर्वाण्येव महामते | कर्मन्यासमहं मन्ये त्वमपि द्रष्टुमर्हसि ||३|| इत्युक्तः स तु कौन्तेयः कालः काल इति ब्रुवन् | अन्वपद्यत […]