सौप्तिकपर्वम् अध्यायः 01-18
श्रीः श्रीमहाभारतम् ||१० सौप्तिकपर्वम् || 001-अध्यायः कौशिकदर्शनम् सञ्जय उवाच|| ततस्ते सहिता वीराः प्रयाता दक्षिणामुखाः | उपास्तमयवेलायां शिबिराभ्याशमागताः ||१|| विमुच्य वाहांस्त्वरिता भीताः समभवंस्तदा | गहनं देशमासाद्य प्रच्छन्ना न्यविशन्त ते ||२|| सेनानिवेशमभितो नातिदूरमवस्थिताः | निकृत्ता निशितैः शस्त्रैः समन्तात्क्षतविक्षताः ||३|| दीर्घमुष्णं च निःश्वस्य पाण्डवानन्वचिन्तयन् | श्रुत्वा च निनदं घोरं पाण्डवानां जयैषिणाम् ||४|| अनुसारभयाद्भीताः प्राङ्मुखाः प्राद्रवन्पुनः | ते मुहूर्तं […]